पंचमुख हनुमत्कवचम्


॥ पंचमुख हनुमत्कवचम् ॥

अस्य श्री पंचमुखहनुमन्मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः पंचमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बंधः ।

श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1 ॥

पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ 2 ॥

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ 3 ॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ 4 ॥

पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृंतनम् ॥ 5 ॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृंतनम् ॥ 6 ॥

ऊर्ध्वं हयाननं घोरं दानवांतकरं परम् ।
येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम् ॥ 7 ॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पंचमुखं रुद्रं हनूमंतं दयानिधिम् ॥ 8 ॥

खड्गं त्रिशूलं खट्वांगं पाशमंकुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयंतं कमंडलुम् ॥ 9 ॥

भिंदिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम् ।
एतान्यायुधजालानि धारयंतं भजाम्यहम् ॥ 10 ॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ।
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ॥ 11 ॥

पंचास्यमच्युतमनेकविचित्रवर्ण-
-वक्त्रं शशांकशिखरं कपिराजवर्यम् ।
पीतांबरादिमुकुटैरुपशोभितांगं
पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥ 12 ॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ 13 ॥

हरिमर्कट मर्कट मंत्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुंचति मुंचति वामलता ॥ 14 ॥

ॐ हरिमर्कटाय स्वाहा ।

ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा ।

ॐ अस्य श्री पंचमुखहनुमन्मंत्रस्य श्रीरामचंद्र ऋषिः अनुष्टुप्छंदः पंचमुखवीरहनुमान् देवता हनुमान् इति बीजं वायुपुत्र इति शक्तिः अंजनीसुत इति कीलकं श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ।

अथ करन्यासः ।
ॐ अंजनीसुताय अंगुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पंचमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

अथ अंगन्यासः ।
ॐ अंजनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पंचमुखहनुमते अस्त्राय फट् ।
पंचमुखहनुमते स्वाहा इति दिग्बंधः ।

अथ ध्यानम् ।
वंदे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालंकरणं त्रिपंचनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुंभांकुशाद्रिं हलं
खट्वांगं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

अथ मंत्रः ।
ॐ श्रीरामदूताय आंजनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लंकादहनकारणाय महाबलप्रचंडाय फाल्गुनसखाय कोलाहलसकलब्रह्मांडविश्वरूपाय
सप्तसमुद्रनिर्लंघनाय पिंगलनयनाय अमितविक्रमाय सूर्यबिंबफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय संजीविनीसंजीवितांगद-लक्ष्मणमहाकपिसैन्यप्राणदाय
दशकंठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपंचमुखवीरहनुमन्मंत्रजपे विनियोगः ।

ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसंपत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तंभनाय स्वाहा ।

ॐ टंटंटंटंटं कूर्ममूर्तये पंचमुखवीरहनुमते परयंत्र परतंत्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं लंक्षं स्वाहा ।
इति दिग्बंधः ।

ॐ पूर्वकपिमुखाय पंचमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पंचमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पंचमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखाय आदिवराहाय लंलंलंलंलं नृसिंहाय नीलकंठमूर्तये पंचमुखहनुमते स्वाहा ।
ॐ ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

ॐ अंजनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचंद्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्मांडनाथाय कामदाय पंचमुखवीरहनुमते स्वाहा ।

भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यंतरिक्षग्रह परयंत्र परतंत्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पंचमुखवीरहनुमते श्रीरामचंद्रवरप्रसादाय जंजंजंजंजं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत् स्तोत्रं सर्वशत्रुनिवारणम् ॥ 15 ॥

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसंपत्करं शुभम् ॥ 16 ॥

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पंचवारं पठेन्नित्यं सर्वलोकवशंकरम् ॥ 17 ॥

षड्वारं च पठेन्नित्यं सर्वदेववशंकरम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18 ॥

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19 ॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् ॥ 20 ॥

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21 ॥

इति सुदर्शनसंहितायां श्रीरामचंद्रसीताप्रोक्तं श्री पंचमुखहनुमत्कवचम् ।

बारम्बार सोधिने प्रश्नहरू

What is पंचमुख हनुमत्कवचम्?

पंचमुख हनुमत्कवचम् is a Hanuma Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read पंचमुख हनुमत्कवचम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download पंचमुख हनुमत्कवचम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook