आंजनेय सहस्र नामम्


ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मंत्रस्य श्रीरामचंद्रृषिः अनुष्टुप्छंदः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लंकाविध्वंसनेति कवचं मम सर्वोपद्रवशांत्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्
प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं ध्यायेत् पीतांबरसमावृतम् ॥
गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।
ज्ञानमुद्रां च बिभ्राणं सर्वालंकारभूषितम् ॥
वामहस्तसमाकृष्टदशास्याननमंडलम् ।
उद्यद्दक्षिणदोर्दंडं हनूमंतं विचिंतयेत् ॥

स्तोत्रम्
हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः ।
अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ 1 ॥

धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः ।
पिंगाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ 2 ॥

शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः ।
पिंगकेशः पिंगरोमा श्रुतिगम्यः सनातनः ॥ 3 ॥

अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः ।
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ 4 ॥

भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः ।
विश्वंभरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ 5 ॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः ।
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ 6 ॥

प्लवंगमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः ।
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ 7 ॥

अंजनासूनुरव्यग्रो ग्रामस्यांतो धराधरः ।
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ 8 ॥

सत्यमोंकारगम्यश्च प्रणवो व्यापकोऽमलः ।
शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः ॥ 9 ॥

गोष्पदीकृतवारीशः पूर्णकामो धरापतिः ।
रक्षोघ्नः पुंडरीकाक्षः शरणागतवत्सलः ॥ 10 ॥

जानकीप्राणदाता च रक्षःप्राणापहारकः ।
पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ 11 ॥

द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।
अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः ॥ 12 ॥

बुभूकारहतारातिर्गर्वपर्वतमर्दनः ।
हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः ॥ 13 ॥

जगन्नाथो जगन्नेता जगदीशो जनेश्वरः ।
जगत्श्रितो हरिः श्रीशो गरुडस्मयभंजकः ॥ 14 ॥

पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः ।
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ 15 ॥

सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।
कल्पस्थायी चिरंजीवी प्रसन्नश्च सदाशिवः ॥ 16 ॥

सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ 17 ॥

उदधिक्रमणो देवः संसारभयनाशनः ।
वालिबंधनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ 18 ॥

लंकारिः कालपुरुषो लंकेशगृहभंजनः ।
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥

श्रीरामरूपः कृष्णस्तु लंकाप्रासादभंजनः ।
कृष्णः कृष्णस्तुतः शांतः शांतिदो विश्वभावनः ॥ 20 ॥

विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेंद्रियः ।
ऊर्ध्वगो लांगुली माली लांगूलाहतराक्षसः ॥ 21 ॥

समीरतनुजो वीरो वीरमारो जयप्रदः ।
जगन्मंगलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ 22 ॥

पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः ।
देवेशोऽमितरोमाऽथ रामभक्तविधायकः ॥ 23 ॥

ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः ।
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ 24 ॥

विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ।
सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः ॥ 25 ॥

लंकेशनिधनस्थायी लंकादाहक ईश्वरः ।
चंद्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयांतकः ॥ 26 ॥

कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः ।
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ 27 ॥

लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ।
रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली ॥ 28 ॥

देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ।
नगरग्रामपालश्च शुद्धो बुद्धो निरंतरः ॥ 29 ॥

निरंजनो निर्विकल्पो गुणातीतो भयंकरः ।
हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ॥ 30 ॥

जानकीघनशोकोत्थतापहर्ता पराशरः ।
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ 31 ॥

भाग्यदो निर्मलो नेता पुच्छलंकाविदाहकः ।
पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ 32 ॥

छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ।
प्लवंगमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ 33 ॥

क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः ।
भक्तानुकंपी विश्वेशः पुरुहूतः पुरंदरः ॥ 34 ॥

अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च ।
वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः ॥ 35 ॥

रविश्चंद्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः ।
राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः ॥ 36 ॥

मशकीकृतदेवारिर्दैत्यारिर्मधुसूदनः ।
कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ 37 ॥

भागीरथीपदांभोजः सेतुबंधविशारदः ।
स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः ॥ 38 ॥

स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः ।
उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ 39 ॥

जगदात्मा जगद्योनिर्जगदंतो ह्यनंतरः ।
विपाप्मा निष्कलंकोऽथ महान् महदहंकृतिः ॥ 40 ॥

खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः ।
क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ 41 ॥

हिरण्मयः पुराणश्च खेचरो भूचरो मनुः ।
हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः ॥ 42 ॥

वेदांतवेद्य उद्गीथो वेदांगो वेदपारगः ।
प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ 43 ॥

नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।
चिंतामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः ॥ 44 ॥

पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः ।
किल्किलारावसंत्रस्तभूतप्रेतपिशाचकः ॥ 45 ॥

ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।
अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ 46 ॥

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः ।
नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ 47 ॥

एकोऽनेको जनः शुक्लः स्वयंज्योतिरनाकुलः ।
ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥ 48 ॥

तमोहर्ता निरालंबो निराकारो गुणाकरः ।
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥

बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।
बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥ 50 ॥

बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः ।
बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः ॥ 51 ॥

बृहद्भक्तिर्बृहद्वांछाफलदो बृहदीश्वरः ।
बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ 52 ॥

देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।
सप्तपातालगामी च मलयाचलसंश्रयः ॥ 53 ॥

उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः ।
शाखामृगः कपींद्रोऽथ पुराणः प्राणचंचुरः ॥ 54 ॥

चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः ।
अनादिनिधनो व्यासो वैकुंठः पृथिवीपतिः ॥ 55 ॥

अपराजितो जितारातिः सदानंदद ईशिता ।
गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः ॥ 56 ॥

मनोवेगी सदायोगी संसारभयनाशनः ।
तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥ 57 ॥

शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः ।
प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ 58 ॥

मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः ।
मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखी ॥

सुखी सुखप्रदो नागो महेशकृतसंस्तवः ।
महेश्वरः सत्यसंधः शरभः कलिपावनः ॥ 60 ॥

रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः ।
घ्राणं गंधः स्पर्शनं च स्पर्शो हिंकारमानगः ॥ 61 ॥

नेति नेतीति गम्यश्च वैकुंठभजनप्रियः ।
गिरिशो गिरिजाकांतो दुर्वासाः कविरंगिराः ॥ 62 ॥

भृगुर्वसिष्ठश्च्यवनो नारदस्तुंबुरुर्हरः ।
विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः ॥ 63 ॥

याजको यजमानश्च पावकः पितरस्तथा ।
श्रद्धा बुद्धिः क्षमा तंद्रा मंत्रो मंत्रयिता सुरः ॥ 64 ॥

राजेंद्रो भूपती रूढो माली संसारसारथिः ।
नित्यः संपूर्णकामश्च भक्तकामधुगुत्तमः ॥ 65 ॥

गणपः केशवो भ्राता पिता माताऽथ मारुतिः ।
सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ 66 ॥

कामजित् कामदहनः कामः काम्यफलप्रदः ।
मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ 67 ॥

नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः ।
दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ 68 ॥

महानिधिर्महाभागो महाभर्गो महर्धिदः ।
महाकारो महायोगी महातेजा महाद्युतिः ॥

महाकर्मा महानादो महामंत्रो महामतिः ।
महाशमो महोदारो महादेवात्मको विभुः ॥ 70 ॥

रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।
अंभोधिलंघनः सिद्धः सत्यधर्मा प्रमोदनः ॥ 71 ॥

जितामित्रो जयः सोमो विजयो वायुवाहनः ।
जीवो धाता सहस्रांशुर्मुकुंदो भूरिदक्षिणः ॥ 72 ॥

सिद्धार्थः सिद्धिदः सिद्धः संकल्पः सिद्धिहेतुकः ।
सप्तपातालचरणः सप्तर्षिगणवंदितः ॥ 73 ॥

सप्ताब्धिलंघनो वीरः सप्तद्वीपोरुमंडलः ।
सप्तांगराज्यसुखदः सप्तमातृनिषेवितः ॥ 74 ॥

सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः ।
सप्तसामोपगीतश्च सप्तपातालसंश्रयः ॥ 75 ॥

सप्तच्छंदोनिधिः सप्तच्छंदः सप्तजनाश्रयः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ 76 ॥

सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ॥ 77 ॥

पराभिचारशमनो दुःखहा बंधमोक्षदः ।
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ 78 ॥

नरनारायणस्तुत्यो नवनाथमहेश्वरः ।
मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥

बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।
दुष्टहंता नियमिता पिशाचग्रहशातनः ॥ 80 ॥

बालग्रहविनाशी च धर्मनेता कृपाकरः ।
उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ 81 ॥

शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।
समग्रगुणशाली च व्यग्रो रक्षोविनाशनः ॥ 82 ॥

रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।
मेघनादो मेघरूपो मेघवृष्टिनिवारणः ॥ 83 ॥

मेघजीवनहेतुश्च मेघश्यामः परात्मकः ।
समीरतनयो धाता तत्त्वविद्याविशारदः ॥ 84 ॥

अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः ।
अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥ 85 ॥

अर्थी धन्योऽसुरारातिः पुंडरीकाक्ष आत्मभूः ।
संकर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ 86 ॥

अचलोद्धारको नित्यः सेतुकृद्रामसारथिः ।
आनंदः परमानंदो मत्स्यः कूर्मो निधिः शयः ॥ 87 ॥

वराहो नारसिंहश्च वामनो जमदग्निजः ।
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ 88 ॥

नंदी भृंगी च चंडी च गणेशो गणसेवितः ।
कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥

जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः ।
सुग्रीवादिस्तुतो दांतः सर्वकर्मा प्लवंगमः ॥ 90 ॥

नखदारितरक्षश्च नखयुद्धविशारदः ।
कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ 91 ॥

स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः ।
कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ 92 ॥

क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः ।
वज्रांगो वज्रवक्त्रश्च भक्तवज्रनिवारकः ॥ 93 ॥

नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।
प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ 94 ॥

शरणं जीवनं भोक्ता नानाचेष्टोऽथ चंचलः ।
स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः ॥ 95 ॥

पवनः पावनः कांतो भक्तांगः सहनो बलः ।
मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ 96 ॥

क्षरोऽक्षरो विनीतात्मा वानरेशः सतांगतिः ।
श्रीकंठः शितिकंठश्च सहायः सहनायकः ॥ 97 ॥

अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः ।
अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः ॥ 98 ॥

अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः ।
सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ 99 ॥

अंजनाप्राणलिंगं च वायुवंशोद्भवः श्रुतिः ।
भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥ 100 ॥

मैनाकवंदितः सूक्ष्मदर्शनो विजयो जयः ।
क्रांतदिङ्मंडलो रुद्रः प्रकटीकृतविक्रमः ॥ 101 ॥

कंबुकंठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।
लंबोष्ठः कुंडली चित्रमाली योगविदां वरः ॥ 102 ॥

विपश्चित् कविरानंदविग्रहोऽनल्पनाशनः ।
फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ 103 ॥

योगविद्योगकर्ता च योगयोनिर्दिगंबरः ।
अकारादिक्षकारांतवर्णनिर्मितविग्रहः ॥ 104 ॥

उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः ।
श्लिष्टजंघः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ 105 ॥

सुशर्माऽमितधर्मा च नारायणपरायणः ।
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ 106 ॥

हरी रुद्रानुकृद्वृक्षकंपनो भूमिकंपनः ।
गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ 107 ॥

नागकन्याभयध्वंसी कृतपूर्णः कपालभृत् ।
अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः ॥ 108 ॥

अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः ।
अष्टांगयोगफलभूः सत्यसंधः पुरुष्टुतः ॥ 109 ॥

श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः ।
पंचाक्षरपरः पंचमातृको रंजनो ध्वजः ॥ 110 ॥

योगिनीवृंदवंद्यश्रीः शत्रुघ्नोऽनंतविक्रमः ।
ब्रह्मचारींद्रियवपुर्धृतदंडो दशात्मकः ॥ 111 ॥

अप्रपंचः सदाचारः शूरसेनो विदारकः ।
बुद्धः प्रमोद आनंदः सप्तजिह्वपतिर्धरः ॥ 112 ॥

नवद्वारपुराधारः प्रत्यग्रः सामगायनः ।
षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः ॥ 113 ॥

सर्ववश्यकरः शक्तिरनंतोऽनंतमंगलः ।
अष्टमूर्तिधरो नेता विरूपः स्वरसुंदरः ॥ 114 ॥

धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।
नंदीप्रियः स्वतंत्रश्च मेखली डमरुप्रियः ॥ 115 ॥

लोहितांगः समिद्वह्निः षडृतुः शर्व ईश्वरः ।
फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ 116 ॥

धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः ।
पंचविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ 117 ॥

त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः ।
ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः ॥ 118 ॥

रक्तांबरधरो रक्तो रक्तमाल्यविभूषणः ।
वनमाली शुभांगश्च श्वेतः श्वेतांबरो युवा ॥ 119 ॥

जयोऽजेयपरीवारः सहस्रवदनः कविः ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभंजनः ॥ 120 ॥

सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।
शंभुतेजाः सार्वभौमो विष्णुभक्तः प्लवंगमः ॥ 121 ॥

चतुर्णवतिमंत्रज्ञः पौलस्त्यबलदर्पहा ।
सर्वलक्ष्मीप्रदः श्रीमानंगदप्रियवर्धनः ॥ 122 ॥

स्मृतिबीजं सुरेशानः संसारभयनाशनः ।
उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ॥ 123 ॥

सदागतिर्मातरिश्वा रामपादाब्जषट्पदः ।
नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ 124 ॥

रामदूतो लोकबंधुरंतरात्मा मनोरमः ।
श्रीरामध्यानकृद्वीरः सदा किंपुरुषस्तुतः ॥ 125 ॥

रामकार्यांतरंगश्च शुद्धिर्गतिरनामयः ।
पुण्यश्लोकः परानंदः परेशप्रियसारथिः ॥ 126 ॥

लोकस्वामी मुक्तिदाता सर्वकारणकारणः ।
महाबलो महावीरः पारावारगतिर्गुरुः ॥ 127 ॥

तारको भगवांस्त्राता स्वस्तिदाता सुमंगलः ।
समस्तलोकसाक्षी च समस्तसुरवंदितः ।
सीतासमेतश्रीरामपादसेवाधुरंधरः ॥ 128 ॥

इदं नामसहस्रं तु योऽधीते प्रत्यहं नरः ।
दुःखौघो नश्यते क्षिप्रं संपत्तिर्वर्धते चिरम् ।
वश्यं चतुर्विधं तस्य भवत्येव न संशयः ॥ 129 ॥

राजानो राजपुत्राश्च राजकीयाश्च मंत्रिणः ।
त्रिकालं पठनादस्य दृश्यंते च त्रिपक्षतः ॥ 130 ॥

अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ।
त्रिकालपठनादस्य सिद्धिः स्यात् करसंस्थिता ॥ 131 ॥

ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः ।
ऐहिकामुष्मिकान् सोऽपि लभते नात्र संशयः ॥ 132 ॥

संग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् ।
ज्वरापस्मारशमनं गुल्मादिव्याधिवारणम् ॥ 133 ॥

साम्राज्यसुखसंपत्तिदायकं जपतां नृणाम् ।
य इदं पठते नित्यं पाठयेद्वा समाहितः ।
सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ 134 ॥

इति श्रीआंजनेय सहस्रनाम स्तोत्रम् ।

बारम्बार सोधिने प्रश्नहरू

What is आंजनेय सहस्र नामम्?

आंजनेय सहस्र नामम् is a Hanuma Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read आंजनेय सहस्र नामम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download आंजनेय सहस्र नामम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook