सूर्य नित्य पूजा विधानम्


आवश्यकानि वस्तूनि
– आसनं
– दीपः
– गंधः
– कुंकुमं
– अक्षताः
– पुष्पाणि
– धूपः
– नैवेद्यं
– तांबूलं
– आचमनीयं
– पूजा पात्रं
– कलशः
– शंखः [optional]
– सूर्यनारायण स्वामि प्रतिमा वा चित्रपटः वा

पूर्वांग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।

शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥

प्रार्थना
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदंतमुपास्महे ॥

तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽंघ्रियुगं स्मरामि ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तु ते ॥

श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरंदराभ्यां नमः ।
अरुंधतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।

आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेंद्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥

भूतोच्चाटनम्
उत्तिष्ठंतु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पंतु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाऽज्ञया ॥

प्राणायामः

ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ महः॑ । ॐ जनः॑ । ॐ तपः॑ । ओग्ं सत्यम् ।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

संकल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, मम/अस्माकं सहकुटुंबस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, आरोग्य-तेजस्-बल-प्राप्त्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, श्रीसूर्यनारायण स्वामि-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥

तदंग कलशाराधनं करिष्ये ॥

कलशाराधनम्
कलशे गंध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।

कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अंगैश्च सहिताः सर्वे कलशांबु समाश्रिताः ॥

गंगे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुंगभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पंचगंगाः प्रकीर्तिताः ॥

आयांतु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं संप्रोक्ष्य, आत्मानं च संप्रोक्ष्य ॥

शंखपूजा
शंखं चंद्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विंद्यादग्रे गंगा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शंखे तिष्ठंतु विप्रेंद्राः तस्मात् शंखं प्रपूजयेत् ॥

ॐ शंखाय नमः ।
ॐ धवलाय नमः ।
ॐ पांचजन्याय नमः ।
ॐ शंखदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥

घंटानादः
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घंटारवं करोम्यादौ देवताह्वान लांछनम् ॥
ॐ घंटादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥

श्री महागणपति पूजा

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः ।
वक्रतुंडः शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥

ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गंधं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । तांबूलं समर्पयामि ।
नीराजनं समर्पयामि । मंत्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

षोडशोपचार पूजा
सूर्यनारायण ध्यानम्
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

अरुणोऽरुणपंकजे निषण्णः
कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहित मंडलस्त्रिनेत्रो
रविराकल्प शताकुलोऽवतान्नः ॥

ॐ श्रीसूर्यनारायणाय नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥

आवाहनम्

स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् ॥

आगच्छ भगवन् सूर्य मंडपे च स्थिरो भव ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
ॐ श्रीसूर्यनारायणाय नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥

आसनम्

पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥

हेमासन महद्दिव्यं नानारत्नविभूषितम् ।
दत्तं मे गृह्यतां देव दिवाकर नमोऽस्तु ते ॥
ॐ श्रीसूर्यनारायणाय नमः ।
आसनं समर्पयामि ॥

पाद्यम्
गंगाजल समानीतं परमं पावनं महत् ।
पाद्यं गृहाण देवेश धामरूप नमोऽस्तु ते ॥
ॐ श्रीसूर्यनारायणाय नमः ।
पादयोः पाद्यं समर्पयामि ॥

अर्घ्यम्
भो सूर्य महाद्भुत ब्रह्मविष्णु स्वरूपदृक् ।
अर्घ्यं अंजलिना दत्तं गृहाण परमेश्वर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम्
गंगादि तीर्थजं तोयं जातीपुष्पैश्च वासितम् ।
ताम्रपात्रे स्थितं दिव्यं गृहाणाचमनीयकम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
मुखे आचमनीयं समर्पयामि ॥

स्नानम्

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥

ॐ श्रीसूर्यनारायणाय नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानंतरं आचमनीयं समर्पयामि ॥

वस्त्रम्
रक्तपट्टयुगं देव सूक्ष्मतंतुविनिर्मितम् ।
शुद्धं चैव मया दत्तं गृहाण कमलाकर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
वस्त्रं समर्पयामि ॥

यज्ञोपवीतम्
नमः कमलहस्ताय विश्वरूपाय ते नमः ।
उपवीतं मया दत्तं तद्गृहाण दिवाकर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
यज्ञोपवीतं समर्पयामि ॥

गंधम्
कुंकुमागरु कस्तूरी सुगंधैश्चंदनादिभिः ।
रक्तचंदन संयुक्तं गंधं गृह्णीष्व भास्कर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
गंधं समर्पयामि ॥

अर्चन
जपाकदंब कुसुमैः रक्तोत्पल युतानि च ।
पुष्पाणि गृह्यतां देव सर्वकामप्रदो भव ॥

अंग पूजा
ॐ मित्राय नमः – पादौ पूजयामि ।
ॐ रवये नमः – जंघे पूजयामि ।
ॐ सूर्याय नमः – जानुनी पूजयामि ।
ॐ खगाय नमः – ऊरू पूजयामि ।
ॐ हिरण्यगर्भाय नमः – कटिं पूजयामि ।
ॐ पूष्णे नमः – गुह्यं पूजयामि ।
ॐ मरीचये नमः – नाभिं पूजयामि ।
ॐ आदित्याय नमः – जठरं पूजयामि ।
ॐ सवित्रे नमः – हृदयं पूजयामि ।
ॐ अर्काय नमः – स्तनौ पूजयामि ।
ॐ भास्कराय नमः – कंठं पूजयामि ।
ॐ अर्यम्णे नमः – स्कंधौ पूजयामि ।
ॐ हंसाय नमः – हस्तौ पूजयामि ।
ॐ अहस्कराय नमः – मुखं पूजयामि ।
ॐ ब्रध्नाय नमः – नासिकां पूजयामि ।
ॐ जगदेकचक्षुषे नमः – नेत्राणि पूजयामि ।
ॐ भानवे नमः – कर्णौ पूजयामि ।
ॐ त्रिगुणात्मधारिणे नमः – ललाटं पूजयामि ।
ॐ विरिंचिनारायणाय नमः – शिरः पूजयामि ।
ॐ तिमिरनाशिने नमः – सर्वाण्यंगानि पूजयामि ॥

[Recite the sUrya aShTOttara Sata nAmAvaLI, or at least the dvAdaSa nAmAni of Surya. Offer flowers or akshatas with each name.]

अथवा सूर्य द्वादश नाम पूजा ॥

ॐ आदित्याय नमः ।
ॐ दिवाकराय नमः ।
ॐ भास्कराय नमः ।
ॐ प्रभाकराय नमः ।
ॐ सहस्रांशवे नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ हरिदश्वाय नमः ।
ॐ विभावसवे नमः ।
ॐ दिनकराय नमः ।
ॐ द्वादशात्मकाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ सूर्याय नमः ॥

ॐ श्रीसूर्यनारायणाय नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥

धूपम्
दशांगोगुग्गुलोद्भूतः कालागरु समन्वितः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
धूपमाघ्रापयामि ॥

दीपम्
कार्पासवर्तिकायुक्तं गोघृतेन समन्वितम् ।
दीपं गृहाण देवेश त्रैलोक्य तिमिरापह ॥
ॐ श्रीसूर्यनारायणाय नमः ।
दीपं दर्शयामि ॥

नैवेद्यम्
पायसं घृतसंयुक्तं नाना पक्वान्न संयुतम् ।
नैवेद्यं च मया दत्तं शांतिं कुरु जगत्पते ॥


ॐ भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिंचामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥

ॐ श्रीसूर्यनारायणाय नमः ।
नैवेद्यं समर्पयामि ॥

तांबूलम्
एलालवंग कर्पूर खदिरैश्च सपूगकैः ।
नागवल्लीदलैर्युक्तं तांबूलं प्रतिगृह्यताम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
तांबूलं समर्पयामि ॥

नीराजनम्

वेदा॒हमे॒तं पुरु॑षं म॒हांतम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदाऽऽस्ते᳚ ॥

पंचवर्ति समायुक्तं सर्वमंगलदायकम् ।
नीराजनं गृहाणेदं सर्वसौख्यकरो भव ॥
ॐ श्रीसूर्यनारायणाय नमः ।
नीराजनं समर्पयामि ॥

मंत्रपुष्पम्

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॒ अय॑नाय विद्यते ॥

ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि ।
तन्नो आदित्यः प्रचोदयात् ॥
चंपकैः शतपत्रैश्च कल्हारैः करवीरकैः ।
पाटलैर्बकुलैर्युक्तं गृहाण कुसुमांजलिम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
मंत्रपुष्पं समर्पयामि ॥

प्रदक्षिणम्
यानि कानि च पापानि जन्मांतर कृतानि च ।
तानि तानि विनश्यंति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ॐ श्रीसूर्यनारायणाय नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

नमस्कारः
उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवम् ।
देवः हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥
ॐ श्रीसूर्यनारायणाय नमः ।
नमस्कारान् समर्पयामि ॥

द्वादशार्घ्याणि
दिवाकर नमस्तुभ्यं पापं नाशय भास्कर ।
त्रयीमयाय विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते ॥
ॐ मित्राय नमः – इदमर्घ्यं समर्पयामि ।
ॐ रवये नमः – इदमर्घ्यं समर्पयामि ।
ॐ सूर्याय नमः – इदमर्घ्यं समर्पयामि ।
ॐ भानवे नमः – इदमर्घ्यं समर्पयामि ।
ॐ खगाय नमः – इदमर्घ्यं समर्पयामि ।
ॐ पूष्णे नमः – इदमर्घ्यं समर्पयामि ।
ॐ हिरण्यगर्भाय नमः – इदमर्घ्यं समर्पयामि ।
ॐ मरीचये नमः – इदमर्घ्यं समर्पयामि ।
ॐ आदित्याय नमः – इदमर्घ्यं समर्पयामि ।
ॐ सवित्रे नमः – इदमर्घ्यं समर्पयामि ।
ॐ अर्काय नमः – इदमर्घ्यं समर्पयामि ।
ॐ भास्कराय नमः – इदमर्घ्यं समर्पयामि ॥

सर्वोपचाराः
ॐ श्रीसूर्यनारायणाय नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥

स्तोत्र/सूक्त पठनम्

क्षमाप्रार्थना
मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य वा ।
यन्न्यूनमतिरिक्तं च तत्सर्वं क्षंतुमर्हसि ॥

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीसूर्यनारायण स्वामी सुप्रीतः सुप्रसन्नः वरदो भवतु ॥

उद्वासनम्
ॐ श्रीसूर्यनारायणाय नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥

प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥

श्रीसूर्यनारायण स्वामि प्रसादं शिरसा गृह्णामि ॥

ॐ शांतिः शांतिः शांतिः ॥

ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

वारंवार विचारले जाणारे प्रश्न

What is सूर्य नित्य पूजा विधानम्?

सूर्य नित्य पूजा विधानम् is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read सूर्य नित्य पूजा विधानम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download सूर्य नित्य पूजा विधानम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook