चंद्र अष्टोत्तर शत नाम स्तोत्रम्
श्रीमान् शशधरश्चंद्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ 1 ॥
जितेंद्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः ॥ 2 ॥
दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनंतकष्टदारुकुठारकः ॥ 3 ॥
स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कलाधरः कालहेतुः कामकृत्कामदायकः ॥ 4 ॥
मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ 5 ॥
जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयः सुरस्वामी भक्तनामिष्टदायकः ॥ 6 ॥
भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभंजकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ 7 ॥
भयांतकृद्भक्तिगम्यो भवबंधविमोचकः ।
जगत्प्रकाशकिरणो जगदानंदकारणः ॥ 8 ॥
निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ 9 ॥
सकलार्तिहरः सौम्यजनकः साधुवंदितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ 10 ॥
सितच्छत्रध्वजोपेतः सितांगो सितभूषणः ।
श्वेतमाल्यांबरधरः श्वेतगंधानुलेपनः ॥ 11 ॥
दशाश्वरथसंरूढो दंडपाणिः धनुर्धरः ।
कुंदपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ 12 ॥
आत्रेयगोत्रजोऽत्यंतविनयः प्रियदायकः ।
करुणारससंपूर्णः कर्कटप्रभुरव्ययः ॥ 13 ॥
चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मंडलाग्नेयवासो वसुसमृद्धिदः ॥ 14 ॥
महेश्वरप्रियो दांतः मेरुगोत्रप्रदक्षिणः ।
ग्रहमंडलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ 15 ॥
द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुंबरनगावास उदारो रोहिणीपतिः ॥ 16 ॥
नित्योदयो मुनिस्तुत्यो नित्यानंदफलप्रदः ।
सकलाह्लादनकरः पलाशसमिधप्रियः ॥ 17 ॥
एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥
इति श्री चंद्र अष्टोत्तरशतनाम स्तोत्रम् ।
वारंवार विचारले जाणारे प्रश्न
What is चंद्र अष्टोत्तर शत नाम स्तोत्रम्?
चंद्र अष्टोत्तर शत नाम स्तोत्रम् is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read चंद्र अष्टोत्तर शत नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download चंद्र अष्टोत्तर शत नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.