श्री दक्षिणामूर्थि सहस्र नामावलि


ॐ देवदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ देवानामपि देशिकाय नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ ईशानाय नमः ।
ॐ दयापूरितदिङ्मुखाय नमः ।
ॐ कैलासशिखरोत्तुंगकमनीयनिजाकृतये नमः ।
ॐ वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः ।
ॐ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः ।
ॐ पाटीरपांडुराकारपरिपूर्णसुधाधिपाय नमः ।
ॐ जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः ।
ॐ पश्यल्ललाटसुभगसुंदरभ्रूविलासवते नमः ।
ॐ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः ।
ॐ कर्णालोलतटिद्वर्णकुंडलोज्ज्वलगंडभुवे नमः ।
ॐ तिलप्रसूनसंकाशनासिकापुटभासुराय नमः ।
ॐ मंदस्मितस्फुरन्मुग्धमहनीयमुखांबुजाय नमः ।
ॐ कुंदकुड्मलसंस्पर्धिदंतपंक्तिविराजिताय नमः ।
ॐ सिंदूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः ।
ॐ शंखाटोपगलद्दिव्यगलवैभवमंजुलाय नमः ।
ॐ करकंदलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । 20

ॐ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः ।
ॐ विशालरुचिरोरस्कवलिमत्पल्लवोदराय नमः ।
ॐ बृहत्कटिनितंबाढ्याय नमः ।
ॐ पीवरोरुद्वयान्विताय नमः ।
ॐ जंघाविजिततूणीराय नमः ।
ॐ तुंगगुल्फयुगोज्ज्वलाय नमः ।
ॐ मृदुपाटलपादाब्जाय नमः ।
ॐ चंद्राभनखदीधितये नमः ।
ॐ अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ घोरापस्मारनिक्षिप्तधीरदक्षपदांबुजाय नमः ।
ॐ सनकादिमुनिध्येयाय नमः ।
ॐ सर्वाभरणभूषिताय नमः ।
ॐ दिव्यचंदनलिप्तांगाय नमः ।
ॐ चारुहासपरिष्कृताय नमः ।
ॐ कर्पूरधवलाकाराय नमः ।
ॐ कंदर्पशतसुंदराय नमः ।
ॐ कात्यायनीप्रेमनिधये नमः ।
ॐ करुणारसवारिधये नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ श्रीमत्कमलावल्लभप्रियाय नमः । 40

ॐ कटाक्षितात्मविज्ञानाय नमः ।
ॐ कैवल्यानंदकंदलाय नमः ।
ॐ मंदहाससमानेंदवे नमः ।
ॐ छिन्नाज्ञानतमस्ततये नमः ।
ॐ संसारानलसंतप्तजनतामृतसागराय नमः ।
ॐ गंभीरहृदयांभोजनभोमणिनिभाकृतये नमः ।
ॐ निशाकरकराकारवशीकृतजगत्त्रयाय नमः ।
ॐ तापसाराध्यपादाब्जाय नमः ।
ॐ तरुणानंदविग्रहाय नमः ।
ॐ भूतिभूषितसर्वांगाय नमः ।
ॐ भूताधिपतये नमः ।
ॐ ईश्वराय नमः ।
ॐ वदनेंदुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः ।
ॐ तापत्रयतमोभानवे नमः ।
ॐ पापारण्यदवानलाय नमः ।
ॐ संसारसागरोद्धर्त्रे नमः ।
ॐ हंसाग्र्योपास्यविग्रहाय नमः ।
ॐ ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः ।
ॐ तुच्छीकृतजगज्जालाय नमः ।
ॐ तुषारकरशीतलाय नमः । 60

ॐ अस्तंगतसमस्तेच्छाय नमः ।
ॐ निस्तुलानंदमंथराय नमः ।
ॐ धीरोदात्तगुणाधाराय नमः ।
ॐ उदारवरवैभवाय नमः ।
ॐ अपारकरुणामूर्तये नमः ।
ॐ अज्ञानध्वांतभास्कराय नमः ।
ॐ भक्तमानसहंसाग्र्याय नमः ।
ॐ भवामयभिषक्तमाय नमः ।
ॐ योगींद्रपूज्यपादाब्जाय नमः ।
ॐ योगपट्टोल्लसत्कटये नमः ।
ॐ शुद्धस्फटिकसंकाशाय नमः ।
ॐ बद्धपन्नगभूषणाय नमः ।
ॐ नानामुनिसमाकीर्णाय नमः ।
ॐ नासाग्रन्यस्तलोचनाय नमः ।
ॐ वेदमूर्धैकसंवेद्याय नमः ।
ॐ नादध्यानपरायणाय नमः ।
ॐ धराधरेंदवे नमः ।
ॐ आनंदसंदोहरससागराय नमः ।
ॐ द्वैतबृंदविमोहांध्यपराकृतदृगद्भुताय नमः ।
ॐ प्रत्यगात्मने नमः । 80

ॐ परस्मैज्योतये नमः ।
ॐ पुराणाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ प्रपंचोपशमाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ सर्वाधिष्ठानसन्मात्राय नमः ।
ॐ स्वात्मबंधहराय नमः ।
ॐ हराय नमः ।
ॐ सर्वप्रेमनिजाहासाय नमः ।
ॐ सर्वानुग्रहकृते नमः ।
ॐ शिवाय नमः ।
ॐ सर्वेंद्रियगुणाभासाय नमः ।
ॐ सर्वभूतगुणाश्रयाय नमः ।
ॐ सच्चिदानंदपूर्णात्मने नमः ।
ॐ सर्वभूतगुणाश्रयाय नमः ।
ॐ सर्वभूतांतराय नमः ।
ॐ साक्षिणे नमः ।
ॐ सर्वज्ञाय नमः । 100

ॐ सर्वकामदाय नमः ।
ॐ सनकादिमहायोगिसमाराधितपादुकाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ दयासिंधवे नमः ।
ॐ शिक्षितासुरविग्रहाय नमः ।
ॐ यक्षकिन्नरगंधर्वस्तूयमानात्मवैभवाय नमः ।
ॐ ब्रह्मादिदेवविनुताय नमः ।
ॐ योगमायानियोजकाय नमः ।
ॐ शिवयोगिने नमः ।
ॐ शिवानंदाय नमः ।
ॐ शिवभक्तसमुद्धराय नमः ।
ॐ वेदांतसारसंदोहाय नमः ।
ॐ सर्वसत्त्वावलंबनाय नमः ।
ॐ वटमूलाश्रयाय नमः ।
ॐ वाग्मिने नमः ।
ॐ मान्याय नमः ।
ॐ मलयजप्रियाय नमः ।
ॐ सुशीलाय नमः ।
ॐ वांछितार्थज्ञाय नमः ।
ॐ प्रसन्नवदनेक्षणाय नमः । 120

ॐ नृत्तगीतकलाभिज्ञाय नमः ।
ॐ कर्मविदे नमः ।
ॐ कर्ममोचकाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्ममयाय नमः ।
ॐ कर्मणां फलप्रदाय नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ सदाचाराय नमः ।
ॐ सर्वोपद्रवमोचकाय नमः ।
ॐ अनाथनाथाय नमः ।
ॐ भगवते नमः ।
ॐ आश्रितामरपादपाय नमः ।
ॐ वरप्रदाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ सर्वभूतहिते रताय नमः ।
ॐ व्याघ्रचर्मासनासीनाय नमः ।
ॐ आदिकर्त्रे नमः ।
ॐ महेश्वराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः । 140

ॐ विशिष्टजनवत्सलाय नमः ।
ॐ चिंताशोकप्रशमनाय नमः ।
ॐ जगदानंदकारकाय नमः ।
ॐ रश्मिमते नमः ।
ॐ भुवनेशाय नमः ।
ॐ देवासुरसुपूजिताय नमः ।
ॐ मृत्युंजयाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ षट्त्रिंशत्तत्त्वसंग्रहाय नमः ।
ॐ अज्ञातसंभवाय नमः ।
ॐ भिक्षवे नमः ।
ॐ अद्वितीयाय नमः ।
ॐ दिगंबराय नमः ।
ॐ समस्तदेवतामूर्तये नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ सर्वसाम्राज्यनिपुणाय नमः ।
ॐ धर्ममार्गप्रवर्तकाय नमः ।
ॐ विश्वाधिकाय नमः ।
ॐ पशुपतये नमः ।
ॐ पशुपाशविमोचकाय नमः । 160

ॐ अष्टमूर्तये नमः ।
ॐ दीप्तमूर्तये नमः ।
ॐ नामोच्चारणमुक्तिदाय नमः ।
ॐ सहस्रादित्यसंकाशाय नमः ।
ॐ सदाषोडशवार्षिकाय नमः ।
ॐ दिव्यकेलीसमायुक्ताय नमः ।
ॐ दिव्यमाल्यांबरावृताय नमः ।
ॐ अनर्घरत्नसंपूर्णाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः ।
ॐ तप्तचामीकराकाराय नमः ।
ॐ जितदावानलाकृतये नमः ।
ॐ निरंजनाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निजावासाय नमः ।
ॐ निराकृतये नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगत्पतये नमः ।
ॐ कामहंत्रे नमः । 180

ॐ काममूर्तये नमः ।
ॐ कल्याणवृषवाहनाय नमः ।
ॐ गंगाधराय नमः ।
ॐ महादेवाय नमः ।
ॐ दीनबंधविमोचकाय नमः ।
ॐ धूर्जटये नमः ।
ॐ खंडपरशवे नमः ।
ॐ सद्गुणाय नमः ।
ॐ गिरिजासखाय नमः ।
ॐ अव्ययाय नमः ।
ॐ भूतसेनेशाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ पुण्यदायकाय नमः ।
ॐ उपदेष्ट्रे नमः ।
ॐ दृढप्रज्ञाय नमः ।
ॐ रुद्राय नमः ।
ॐ रोगविनाशनाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ निराधाराय नमः ।
ॐ हराय नमः । 200

ॐ देवशिखामणये नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ सोमाय नमः ।
ॐ सांद्रानंदाय नमः ।
ॐ महामतये नमः ।
ॐ आश्चर्यवैभवाय नमः ।
ॐ देवाय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ यज्ञेशाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ भस्मरुद्राक्षलांछनाय नमः ।
ॐ अनंताय नमः ।
ॐ तारकाय नमः ।
ॐ स्थाणवे नमः ।
ॐ सर्वविद्येश्वराय नमः ।
ॐ हरये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ प्रभवे नमः ।
ॐ परिबृढाय नमः । 220

ॐ दृढाय नमः ।
ॐ भव्याय नमः ।
ॐ जितारिषड्वर्गाय नमः ।
ॐ महोदाराय नमः ।
ॐ विषाशनाय नमः ।
ॐ सुकीर्तये नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ प्रमाणभूताय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ पुण्याय नमः ।
ॐ परपुरंजयाय नमः ।
ॐ गुणाकराय नमः ।
ॐ गुणश्रेष्ठाय नमः ।
ॐ सच्चिदानंदविग्रहाय नमः ।
ॐ सुखदाय नमः ।
ॐ कारणाय नमः ।
ॐ कर्त्रे नमः ।
ॐ भवबंधविमोचकाय नमः ।
ॐ अनिर्विण्णाय नमः । 240

ॐ गुणग्राहिणे नमः ।
ॐ निष्कलंकाय नमः ।
ॐ कलंकघ्ने नमः ।
ॐ पुरुषाय नमः ।
ॐ शाश्वताय नमः ।
ॐ योगिने नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ सनातनाय नमः ।
ॐ चराचरात्मने नमः ।
ॐ सूक्ष्मात्मने नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तमोपहृते नमः ।
ॐ भुजंगभूषणाय नमः ।
ॐ भर्गाय नमः ।
ॐ तरुणाय नमः ।
ॐ करुणालयाय नमः ।
ॐ अणिमादिगुणोपेताय नमः ।
ॐ लोकवश्यविधायकाय नमः ।
ॐ योगपट्टधराय नमः ।
ॐ मुक्ताय नमः । 260

ॐ मुक्तानां परमायै गतये नमः ।
ॐ गुरुरूपधराय नमः ।
ॐ श्रीमत्परमानंदसागराय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ सहस्रावयवान्विताय नमः ।
ॐ सहस्रमूर्ध्ने नमः ।
ॐ सर्वात्मने नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ निराभासाय नमः ।
ॐ सूक्ष्मतनवे नमः ।
ॐ हृदि ज्ञाताय नमः ।
ॐ परात्पराय नमः ।
ॐ सर्वात्मगाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ निःसंगाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ निष्कलाय नमः ।
ॐ सकलाध्यक्षाय नमः । 280

ॐ चिन्मयाय नमः ।
ॐ तमसः पराय नमः ।
ॐ ज्ञानवैराग्यसंपन्नाय नमः ।
ॐ योगानंदमयाय शिवाय नमः ।
ॐ शाश्वतैश्वर्यसंपूर्णाय नमः ।
ॐ महायोगीश्वरेश्वराय नमः ।
ॐ सहस्रशक्तिसंयुक्ताय नमः ।
ॐ पुण्यकायाय नमः ।
ॐ दुरासदाय नमः ।
ॐ तारकब्रह्मसंपूर्णाय नमः ।
ॐ तपस्विजनसंवृताय नमः ।
ॐ विधींद्रामरसंपूज्याय नमः ।
ॐ ज्योतिषां ज्योतिषे नमः ।
ॐ उत्तमाय नमः ।
ॐ निरक्षराय नमः ।
ॐ निरालंबाय नमः ।
ॐ स्वात्मारामाय नमः ।
ॐ विकर्तनाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरातंकाय नमः । 300

ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ वीरभद्राय नमः ।
ॐ पुरारातये नमः ।
ॐ जलंधरशिरोहराय नमः ।
ॐ अंधकासुरसंहर्त्रे नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ अद्भुताय नमः ।
ॐ विश्वग्रासाय नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ ब्रह्मज्ञानैकमंथराय नमः ।
ॐ अग्रेसराय नमः ।
ॐ तीर्थभूताय नमः ।
ॐ सितभस्मावकुंठनाय नमः ।
ॐ अकुंठमेधसे नमः ।
ॐ श्रीकंठाय नमः ।
ॐ वैकुंठपरमप्रियाय नमः ।
ॐ ललाटोज्ज्वलनेत्राब्जाय नमः ।
ॐ तुषारकरशेखराय नमः ।
ॐ गजासुरशिरश्छेत्त्रे नमः । 320

ॐ गंगोद्भासितमूर्धजाय नमः ।
ॐ कल्याणाचलकोदंडाय नमः ।
ॐ कमलापतिसायकाय नमः ।
ॐ वारांशेवधितूणीराय नमः ।
ॐ सरोजासनसारथये नमः ।
ॐ त्रयीतुरंगसंक्रांताय नमः ।
ॐ वासुकिज्याविराजिताय नमः ।
ॐ रवींदुचरणाचारिधरारथविराजिताय नमः ।
ॐ त्रय्यंतप्रग्रहोदारचारुघंटारवोज्ज्वलाय नमः ।
ॐ उत्तानपर्वलोमाढ्याय नमः ।
ॐ लीलाविजितमन्मथाय नमः ।
ॐ जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः ।
ॐ संसारार्णवनिर्मग्नसमुद्धरणपंडिताय नमः ।
ॐ मदद्विरदधिक्कारिगतिमंजुलवैभवाय नमः ।
ॐ मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः ।
ॐ कैवल्योदधिकल्लोललीलातांडवपंडिताय नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रभविष्णवे नमः । 340

ॐ पुरातनाय नमः ।
ॐ वर्धिष्णवे नमः ।
ॐ वरदाय नमः ।
ॐ वैद्याय नमः ।
ॐ हरये नमः ।
ॐ नारायणाय नमः ।
ॐ अच्युताय नमः ।
ॐ अज्ञानवनदावाग्नये नमः ।
ॐ प्रज्ञाप्रासादभूपतये नमः ।
ॐ सर्पभूषितसर्वांगाय नमः ।
ॐ कर्पूरोज्ज्वलिताकृतये नमः ।
ॐ अनादिमध्यनिधनाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गिरिजापतये नमः ।
ॐ वीतरागाय नमः ।
ॐ विनीतात्मने नमः ।
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ देवासुरगुरुध्येयाय नमः ।
ॐ देवासुरनमस्कृताय नमः । 360

ॐ देवादिदेवाय नमः ।
ॐ देवर्षये नमः ।
ॐ देवासुरवरप्रदाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ अचिंत्याय नमः ।
ॐ देवात्मने नमः ।
ॐ आत्मसंभवाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निष्प्रपंचात्मने नमः ।
ॐ निर्विघ्नाय नमः ।
ॐ विघ्ननाशकाय नमः ।
ॐ एकज्योतिषे नमः ।
ॐ निरातंकाय नमः ।
ॐ व्याप्तमूर्तये नमः ।
ॐ अनाकुलाय नमः ।
ॐ निरवद्यपदोपाधये नमः ।
ॐ विद्याराशये नमः ।
ॐ अनुत्तमाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ सुराध्यक्षाय नमः । 380

ॐ निःसंकल्पाय नमः ।
ॐ निरंजनाय नमः ।
ॐ निष्कलंकाय नमः ।
ॐ निराकाराय नमः ।
ॐ निष्प्रपंचाय नमः ।
ॐ निरामयाय नमः ।
ॐ विद्याधराय नमः ।
ॐ वियत्केशाय नमः ।
ॐ मार्कंडेयवरप्रदाय नमः ।
ॐ भैरवाय नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ कामदाय नमः ।
ॐ कमलासनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ सुरानंदाय नमः ।
ॐ लसज्ज्योतिषे नमः ।
ॐ प्रभाकराय नमः ।
ॐ चूडामणये नमः ।
ॐ सुराधीशाय नमः ।
ॐ यज्ञगेयाय नमः । 400

ॐ हरिप्रियाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ नीतिमते नमः ।
ॐ सूत्रिणे नमः ।
ॐ श्रीहालाहलसुंदराय नमः ।
ॐ धर्मदक्षाय नमः ।
ॐ महाराजाय नमः ।
ॐ किरीटिने नमः ।
ॐ वंदिताय नमः ।
ॐ गुहाय नमः ।
ॐ माधवाय नमः ।
ॐ यामिनीनाथाय नमः ।
ॐ शंबराय नमः ।
ॐ शबरीप्रियाय नमः ।
ॐ संगीतवेत्त्रे नमः ।
ॐ लोकज्ञाय नमः ।
ॐ शांताय नमः ।
ॐ कलशसंभवाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ वरदाय नमः । 420

ॐ नित्याय नमः ।
ॐ शूलिने नमः ।
ॐ गुरुवराय हराय नमः ।
ॐ मार्तांडाय नमः ।
ॐ पुंडरीकाक्षाय नमः ।
ॐ लोकनायकविक्रमाय नमः ।
ॐ मुकुंदार्च्याय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ पुरंदरवरप्रदाय नमः ।
ॐ भाषाविहीनाय नमः ।
ॐ भाषाज्ञाय नमः ।
ॐ विघ्नेशाय नमः ।
ॐ विघ्ननाशनाय नमः ।
ॐ किन्नरेशाय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ श्रीनिवासाय नमः ।
ॐ कपालभृते नमः ।
ॐ विजयाय नमः ।
ॐ भूतभावज्ञाय नमः ।
ॐ भीमसेनाय नमः । 440

ॐ दिवाकराय नमः ।
ॐ बिल्वप्रियाय नमः ।
ॐ वसिष्ठेशाय नमः ।
ॐ सर्वमार्गप्रवर्तकाय नमः ।
ॐ ओषधीशाय नमः ।
ॐ वामदेवाय नमः ।
ॐ गोविंदाय नमः ।
ॐ नीललोहिताय नमः ।
ॐ षडर्धनयनाय नमः ।
ॐ श्रीमन्महादेवाय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ कर्पूरदीपिकालोलाय नमः ।
ॐ कर्पूररसचर्चिताय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ त्यागराजाय नमः ।
ॐ क्षपाकराय नमः ।
ॐ आश्चर्यविग्रहाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सिद्धेशाय नमः ।
ॐ स्वर्णभैरवाय नमः । 460

ॐ देवराजाय नमः ।
ॐ कृपासिंधवे नमः ।
ॐ अद्वयाय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ निर्भेदाय नमः ।
ॐ नित्यसत्वस्थाय नमः ।
ॐ निर्योगक्षेमाय नमः ।
ॐ आत्मवते नमः ।
ॐ निरपायाय नमः ।
ॐ निरासंगाय नमः ।
ॐ निःशब्दाय नमः ।
ॐ निरुपाधिकाय नमः ।
ॐ भवाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ स्वामिने नमः ।
ॐ भवभीतिविभंजनाय नमः ।
ॐ दारिद्र्यतृणकूटाग्नये नमः ।
ॐ दारितासुरसंततये नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुदिताय नमः । 480

ॐ अकुब्जाय नमः ।
ॐ धार्मिकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ अभ्यासातिशयज्ञेयाय नमः ।
ॐ चंद्रमौलये नमः ।
ॐ कलाधराय नमः ।
ॐ महाबलाय नमः ।
ॐ महावीर्याय नमः ।
ॐ विभवे नमः ।
ॐ श्रीशाय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ रणमंडलभैरवाय नमः ।
ॐ सद्योजाताय नमः ।
ॐ वटारण्यवासिने नमः ।
ॐ पुरुषवल्लभाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ महात्रात्रे नमः ।
ॐ नीलग्रीवाय नमः । 500

ॐ सुमंगलाय नमः ।
ॐ हिरण्यबाहवे नमः ।
ॐ तीक्ष्णांशवे नमः ।
ॐ कामेशाय नमः ।
ॐ सोमविग्रहाय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वकर्त्रे नमः ।
ॐ तांडवाय नमः ।
ॐ मुंडमालिकाय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ सुगंभीराय नमः ।
ॐ देशिकाय नमः ।
ॐ वैदिकोत्तमाय नमः ।
ॐ प्रसन्नदेवाय नमः ।
ॐ वागीशाय नमः ।
ॐ चिंतातिमिरभास्कराय नमः ।
ॐ गौरीपतये नमः ।
ॐ तुंगमौलये नमः ।
ॐ मखराजाय नमः ।
ॐ महाकवये नमः । 520

ॐ श्रीधराय नमः ।
ॐ सर्वसिद्धेशाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ दयानिधये नमः ।
ॐ अंतर्मुखाय नमः ।
ॐ बहिर्दृष्टये नमः ।
ॐ सिद्धवेषमनोहराय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ कृपासिंधवे नमः ।
ॐ मंत्रसिद्धाय नमः ।
ॐ मतिप्रदाय नमः ।
ॐ महोत्कृष्टाय नमः ।
ॐ पुण्यकराय नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ सदाशिवाय नमः ।
ॐ महाक्रतवे नमः ।
ॐ महायज्वने नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तपोनिधये नमः ।
ॐ छंदोमयाय नमः । 540

ॐ महाज्ञानिने नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ देववंदिताय नमः ।
ॐ सार्वभौमाय नमः ।
ॐ सदानंदाय नमः ।
ॐ करुणामृतवारिधये नमः ।
ॐ कालकालाय नमः ।
ॐ कलिध्वंसिने नमः ।
ॐ जरामरणनाशकाय नमः ।
ॐ शितिकंठाय नमः ।
ॐ चिदानंदाय नमः ।
ॐ योगिनीगणसेविताय नमः ।
ॐ चंडीशाय नमः ।
ॐ शुकसंवेद्याय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ दिवस्पतये नमः ।
ॐ स्थायिने नमः ।
ॐ सकलतत्त्वात्मने नमः ।
ॐ सदासेवकवर्धनाय नमः ।
ॐ रोहिताश्वाय नमः । 560

ॐ क्षमारूपिणे नमः ।
ॐ तप्तचामीकरप्रभाय नमः ।
ॐ त्रियंबकाय नमः ।
ॐ वररुचये नमः ।
ॐ देवदेवाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ विश्वंभराय नमः ।
ॐ विचित्रांगाय नमः ।
ॐ विधात्रे नमः ।
ॐ पुरशासनाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ जगत्स्वामिने नमः ।
ॐ रोहिताक्षाय नमः ।
ॐ शिवोत्तमाय नमः ।
ॐ नक्षत्रमालाभरणाय नमः ।
ॐ मघवते नमः ।
ॐ अघनाशनाय नमः ।
ॐ विधिकर्त्रे नमः ।
ॐ विधानज्ञाय नमः ।
ॐ प्रधानपुरुषेश्वराय नमः । 580

ॐ चिंतामणये नमः ।
ॐ सुरगुरवे नमः ।
ॐ ध्येयाय नमः ।
ॐ नीराजनप्रियाय नमः ।
ॐ गोविंदाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ बहुपुष्पार्चनप्रियाय नमः ।
ॐ सर्वानंदाय नमः ।
ॐ दयारूपिणे नमः ।
ॐ शैलजासुमनोहराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः ।
ॐ हेतुसाधनवर्जिताय नमः ।
ॐ वृषांकाय नमः ।
ॐ रमणीयांगाय नमः ।
ॐ सदंघ्रये नमः ।
ॐ सामपारगाय नमः ।
ॐ मंत्रात्मने नमः ।
ॐ कोटिकंदर्पसौंदर्यरसवारिधये नमः ।
ॐ यज्ञेशाय नमः । 600

ॐ यज्ञपुरुषाय नमः ।
ॐ सृष्टिस्थित्यंतकारणाय नमः ।
ॐ परहंसैकजिज्ञास्याय नमः ।
ॐ स्वप्रकाशस्वरूपवते नमः ।
ॐ मुनिमृग्याय नमः ।
ॐ देवमृग्याय नमः ।
ॐ मृगहस्ताय नमः ।
ॐ मृगेश्वराय नमः ।
ॐ मृगेंद्रचर्मवसनाय नमः ।
ॐ नरसिंहनिपातनाय नमः ।
ॐ मुनिवंद्याय नमः ।
ॐ मुनिश्रेष्ठाय नमः ।
ॐ मुनिबृंदनिषेविताय नमः ।
ॐ दुष्टमृत्यवे नमः ।
ॐ अदुष्टेहाय नमः ।
ॐ मृत्युघ्ने नमः ।
ॐ मृत्युपूजिताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ अंबुजजन्मादिकोटिकोटिसुपूजिताय नमः ।
ॐ लिंगमूर्तये नमः । 620

ॐ अलिंगात्मने नमः ।
ॐ लिंगात्मने नमः ।
ॐ लिंगविग्रहाय नमः ।
ॐ यजुर्मूर्तये नमः ।
ॐ साममूर्तये नमः ।
ॐ ऋङ्मूर्तये नमः ।
ॐ मूर्तिवर्जिताय नमः ।
ॐ विश्वेशाय नमः ।
ॐ गजचर्मैकचेलांचितकटीतटाय नमः ।
ॐ पावनांतेवसद्योगिजनसार्थसुधाकराय नमः ।
ॐ अनंतसोमसूर्याग्निमंडलप्रतिमप्रभाय नमः ।
ॐ चिंताशोकप्रशमनाय नमः ।
ॐ सर्वविद्याविशारदाय नमः ।
ॐ भक्तविज्ञप्तिसंधात्रे नमः ।
ॐ कर्त्रे नमः ।
ॐ गिरिवराकृतये नमः ।
ॐ ज्ञानप्रदाय नमः ।
ॐ मनोवासाय नमः ।
ॐ क्षेम्याय नमः ।
ॐ मोहविनाशनाय नमः । 640

ॐ सुरोत्तमाय नमः ।
ॐ चित्रभानवे नमः ।
ॐ सदावैभवतत्पराय नमः ।
ॐ सुहृदग्रेसराय नमः ।
ॐ सिद्धज्ञानमुद्राय नमः ।
ॐ गणाधिपाय नमः ।
ॐ आगमाय नमः ।
ॐ चर्मवसनाय नमः ।
ॐ वांछितार्थफलप्रदाय नमः ।
ॐ अंतर्हिताय नमः ।
ॐ असमानाय नमः ।
ॐ देवसिंहासनाधिपाय नमः ।
ॐ विवादहंत्रे नमः ।
ॐ सर्वात्मने नमः ।
ॐ कालाय नमः ।
ॐ कालविवर्जिताय नमः ।
ॐ विश्वातीताय नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वकारणाय नमः । 660

ॐ योगिध्येयाय नमः ।
ॐ योगनिष्ठाय नमः ।
ॐ योगात्मने नमः ।
ॐ योगवित्तमाय नमः ।
ॐ ॐकाररूपाय नमः ।
ॐ भगवते नमः ।
ॐ बिंदुनादमयाय शिवाय नमः ।
ॐ चतुर्मुखादिसंस्तुत्याय नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः ।
ॐ सह्याचलगुहावासिने नमः ।
ॐ साक्षान्मोक्षरसामृताय नमः ।
ॐ दक्षाध्वरसमुच्छेत्त्रे नमः ।
ॐ पक्षपातविवर्जिताय नमः ।
ॐ ॐकारवाचकाय नमः ।
ॐ शंभवे नमः ।
ॐ शंकराय नमः ।
ॐ शशिशीतलाय नमः ।
ॐ पंकजासनसंसेव्याय नमः ।
ॐ किंकरामरवत्सलाय नमः ।
ॐ नतदौर्भाग्यतूलाग्नये नमः । 680

ॐ कृतकौतुकमंगलाय नमः ।
ॐ त्रिलोकमोहनाय नमः ।
ॐ श्रीमत्त्रिपुंड्रांकितमस्तकाय नमः ।
ॐ क्रौंचारिजनकाय नमः ।
ॐ श्रीमद्गणनाथसुतान्विताय नमः ।
ॐ अद्भुतानंतवरदाय नमः ।
ॐ अपरिच्छिनात्मवैभवाय नमः ।
ॐ इष्टापूर्तप्रियाय नमः ।
ॐ शर्वाय नमः ।
ॐ एकवीराय नमः ।
ॐ प्रियंवदाय नमः ।
ॐ ऊहापोहविनिर्मुक्ताय नमः ।
ॐ ॐकारेश्वरपूजिताय नमः ।
ॐ रुद्राक्षवक्षसे नमः ।
ॐ रुद्राक्षरूपाय नमः ।
ॐ रुद्राक्षपक्षकाय नमः ।
ॐ भुजगेंद्रलसत्कंठाय नमः ।
ॐ भुजंगाभरणप्रियाय नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ कल्याणाय नमः । 700

ॐ कल्याणगुणसंश्रयाय नमः ।
ॐ सुंदरभ्रुवे नमः ।
ॐ सुनयनाय नमः ।
ॐ सुललाटाय नमः ।
ॐ सुकंधराय नमः ।
ॐ विद्वज्जनाश्रयाय नमः ।
ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ।
ॐ विनीतवत्सलाय नमः ।
ॐ नीतिस्वरूपाय नमः ।
ॐ नीतिसंश्रयाय नमः ।
ॐ अतिरागिणे नमः ।
ॐ वीतरागिणे नमः ।
ॐ रागहेतवे नमः ।
ॐ विरागविदे नमः ।
ॐ रागघ्ने नमः ।
ॐ रागशमनाय नमः ।
ॐ रागदाय नमः ।
ॐ रागिरागविदे नमः ।
ॐ मनोन्मनाय नमः ।
ॐ मनोरूपाय नमः । 720

ॐ बलप्रमथनाय नमः ।
ॐ बलाय नमः ।
ॐ विद्याकराय नमः ।
ॐ महाविद्याय नमः ।
ॐ विद्याविद्याविशारदाय नमः ।
ॐ वसंतकृते नमः ।
ॐ वसंतात्मने नमः ।
ॐ वसंतेशाय नमः ।
ॐ वसंतदाय नमः ।
ॐ प्रावृट्कृते नमः ।
ॐ प्रावृडाकाराय नमः ।
ॐ प्रावृट्कालप्रवर्तकाय नमः ।
ॐ शरन्नाथाय नमः ।
ॐ शरत्कालनाशकाय नमः ।
ॐ शरदाश्रयाय नमः ।
ॐ कुंदमंदारपुष्पौघलसद्वायुनिषेविताय नमः ।
ॐ दिव्यदेहप्रभाकूटसंदीपितदिगंतराय नमः ।
ॐ देवासुरगुरुस्तव्याय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ वामांगभागविलसच्छ्यामलावीक्षणप्रियाय नमः । 740

ॐ कीर्त्याधाराय नमः ।
ॐ कीर्तिकराय नमः ।
ॐ कीर्तिहेतवे नमः ।
ॐ अहेतुकाय नमः ।
ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः ।
ॐ महाप्रेतासनासीनाय नमः ।
ॐ जितसर्वपितामहाय नमः ।
ॐ मुक्तादामपरीतांगाय नमः ।
ॐ नानागानविशारदाय नमः ।
ॐ विष्णुब्रह्मादिवंद्यांघ्रये नमः ।
ॐ नानादेशैकनायकाय नमः ।
ॐ धीरोदात्ताय नमः ।
ॐ महाधीराय नमः ।
ॐ धैर्यदाय नमः ।
ॐ धैर्यवर्धकाय नमः ।
ॐ विज्ञानमयाय नमः ।
ॐ आनंदमयाय नमः ।
ॐ प्राणमयाय नमः ।
ॐ अन्नदाय नमः ।
ॐ भवाब्धितरणोपायाय नमः । 760

ॐ कवये नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ गौरीविलाससदनाय नमः ।
ॐ पिशचानुचरावृताय नमः ।
ॐ दक्षिणाप्रेमसंतुष्टाय नमः ।
ॐ दारिद्र्यवडवानलाय नमः ।
ॐ अद्भुतानंतसंग्रामाय नमः ।
ॐ ढक्कावादनतत्पराय नमः ।
ॐ प्राच्यात्मने नमः ।
ॐ दक्षिणाकाराय नमः ।
ॐ प्रतीच्यात्मने नमः ।
ॐ उत्तराकृतये नमः ।
ॐ ऊर्ध्वाद्यन्यदिगाकाराय नमः ।
ॐ मर्मज्ञाय नमः ।
ॐ सर्वशिक्षकाय नमः ।
ॐ युगावहाय नमः ।
ॐ युगाधीशाय नमः ।
ॐ युगात्मने नमः ।
ॐ युगनायकाय नमः ।
ॐ जंगमाय नमः । 780

ॐ स्थावराकाराय नमः ।
ॐ कैलासशिखरप्रियाय नमः ।
ॐ हस्तराजत्पुंडरीकाय नमः ।
ॐ पुंडरीकनिभेक्षणाय नमः ।
ॐ लीलाविडंबितवपुषे नमः ।
ॐ भक्तमानसमंडिताय नमः ।
ॐ बृंदारकप्रियतमाय नमः ।
ॐ बृंदारकवरार्चिताय नमः ।
ॐ नानाविधानेकरत्नलसत्कुंडलमंडिताय नमः ।
ॐ निःसीममहिम्ने नमः ।
ॐ नित्यलीलाविग्रहरूपधृते नमः ।
ॐ चंदनद्रवदिग्धांगाय नमः ।
ॐ चांपेयकुसुमार्चिताय नमः ।
ॐ समस्तभक्तसुखदाय नमः ।
ॐ परमाणवे नमः ।
ॐ महाह्रदाय नमः ।
ॐ अलौकिकाय नमः ।
ॐ दुष्प्रधर्षाय नमः ।
ॐ कपिलाय नमः ।
ॐ कालकंधराय नमः । 800

ॐ कर्पूरगौराय नमः ।
ॐ कुशलाय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ जितेंद्रियाय नमः ।
ॐ शाश्वतैश्वर्यविभवाय नमः ।
ॐ पोषकाय नमः ।
ॐ सुसमाहिताय नमः ।
ॐ महर्षिनाथिताय नमः ।
ॐ ब्रह्मयोनये नमः ।
ॐ सर्वोत्तमोत्तमाय नमः ।
ॐ भूमिभारार्तिसंहर्त्रे नमः ।
ॐ षडूर्मिरहिताय नमः ।
ॐ मृडाय नमः ।
ॐ त्रिविष्टपेश्वराय नमः ।
ॐ सर्वहृदयांबुजमध्यगाय नमः ।
ॐ सहस्रदलपद्मस्थाय नमः ।
ॐ सर्ववर्णोपशोभिताय नमः ।
ॐ पुण्यमूर्तये नमः ।
ॐ पुण्यलभ्याय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः । 820

ॐ सूर्यमंडलमध्यस्थाय नमः ।
ॐ चंद्रमंडलमध्यगाय नमः ।
ॐ सद्भक्तध्याननिगलाय नमः ।
ॐ शरणागतपालकाय नमः ।
ॐ श्वेतातपत्ररुचिराय नमः ।
ॐ श्वेतचामरवीजिताय नमः ।
ॐ सर्वावयवसंपूर्णाय नमः ।
ॐ सर्वलक्षणलक्षिताय नमः ।
ॐ सर्वमंगलमांगल्याय नमः ।
ॐ सर्वकारणकारणाय नमः ।
ॐ आमोदाय नमः ।
ॐ मोदजनकाय नमः ।
ॐ सर्पराजोत्तरीयकाय नमः ।
ॐ कपालिने नमः ।
ॐ कोविदाय नमः ।
ॐ सिद्धकांतिसंवलिताननाय नमः ।
ॐ सर्वसद्गुरुसंसेव्याय नमः ।
ॐ दिव्यचंदनचर्चिताय नमः ।
ॐ विलासिनीकृतोल्लासाय नमः ।
ॐ इच्छाशक्तिनिषेविताय नमः । 840

ॐ अनंतानंदसुखदाय नमः ।
ॐ नंदनाय नमः ।
ॐ श्रीनिकेतनाय नमः ।
ॐ अमृताब्धिकृतावासाय नमः ।
ॐ नित्यक्लीबाय नमः ।
ॐ निरामयाय नमः ।
ॐ अनपायाय नमः ।
ॐ अनंतदृष्टये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अजराय नमः ।
ॐ अमराय नमः ।
ॐ तमोमोहप्रतिहतये नमः ।
ॐ अप्रतर्क्याय नमः ।
ॐ अमृताय नमः ।
ॐ अक्षराय नमः ।
ॐ अमोघबुद्धये नमः ।
ॐ आधाराय नमः ।
ॐ आधाराधेयवर्जिताय नमः ।
ॐ ईषणात्रयनिर्मुक्ताय नमः ।
ॐ इहामुत्रविवर्जिताय नमः । 860

ॐ ऋग्यजुःसामनयनाय नमः ।
ॐ बुद्धिसिद्धिसमृद्धिदाय नमः ।
ॐ औदार्यनिधये नमः ।
ॐ आपूर्णाय नमः ।
ॐ ऐहिकामुष्मिकप्रदाय नमः ।
ॐ शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहाय नमः ।
ॐ दर्शनप्रथमाभासाय नमः ।
ॐ दृष्टिदृश्यविवर्जिताय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अचिंत्यरूपाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ विमर्शरूपाय नमः ।
ॐ विमलाय नमः ।
ॐ नित्यरूपाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ नित्यबुद्धाय नमः ।
ॐ नित्यमुक्ताय नमः ।
ॐ अपराकृताय नमः ।
ॐ मैत्र्यादिवासनालभ्याय नमः । 880

ॐ महाप्रलयसंस्थिताय नमः ।
ॐ महाकैलासनिलयाय नमः ।
ॐ प्रज्ञानघनविग्रहाय नमः ।
ॐ श्रीमते नमः ।
ॐ व्याघ्रपुरावासाय नमः ।
ॐ भुक्तिमुक्तिप्रदायकाय नमः ।
ॐ जगद्योनये नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जपाय नमः ।
ॐ जपपराय नमः ।
ॐ जप्याय नमः ।
ॐ विद्यासिंहासनप्रभवे नमः ।
ॐ तत्त्वानां प्रकृतये नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्वंपदनिरूपिताय नमः ।
ॐ दिक्कालाद्यनवच्छिन्नाय नमः ।
ॐ सहजानंदसागराय नमः ।
ॐ प्रकृतये नमः । 900

ॐ प्राकृतातीताय नमः ।
ॐ विज्ञानैकरसाकृतये नमः ।
ॐ निःशंकमतिदूरस्थाय नमः ।
ॐ चैत्यचेतनचिंतनाय नमः ।
ॐ तारकानां हृदंतस्थाय नमः ।
ॐ तारकाय नमः ।
ॐ तारकांतकाय नमः ।
ॐ ध्यानैकप्रकटाय नमः ।
ॐ ध्येयाय नमः ।
ॐ ध्यानिने नमः ।
ॐ ध्यानविभूषणाय नमः ।
ॐ परस्मै व्योम्ने नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै पदाय नमः ।
ॐ पूर्णानंदाय नमः ।
ॐ सदानंदाय नमः ।
ॐ नादमध्यप्रतिष्ठिताय नमः ।
ॐ प्रमाविपर्ययातीताय नमः ।
ॐ प्रणताज्ञाननाशकाय नमः । 920

ॐ बाणार्चितांघ्रये नमः ।
ॐ बहुदाय नमः ।
ॐ बालकेलिकुतूहलिने नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ ब्रह्मपदाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ भूक्षेपदत्तलक्ष्मीकाय नमः ।
ॐ भ्रूमध्यध्यानलक्षिताय नमः ।
ॐ यशस्कराय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ महाराज्यसुखप्रदाय नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ शमप्राप्याय नमः ।
ॐ लाभकृते नमः ।
ॐ लोकविश्रुताय नमः ।
ॐ शास्त्रे नमः ।
ॐ शिवाद्रिनिलयाय नमः ।
ॐ शरण्याय नमः ।
ॐ याजकप्रियाय नमः । 940

ॐ संसारवैद्याय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सभेषजविभेषजाय नमः ।
ॐ मनोवचोभिरग्राह्याय नमः ।
ॐ पंचकोशविलक्षणाय नमः ।
ॐ अवस्थात्रयनिर्मुक्ताय नमः ।
ॐ अवस्थासाक्षितुर्यकाय नमः ।
ॐ पंचभूतादिदूरस्थाय नमः ।
ॐ प्रत्यगेकरसाय नमः ।
ॐ अव्ययाय नमः ।
ॐ षट्चक्रांतर्गतोल्लासिने नमः ।
ॐ षड्विकारविवर्जिताय नमः ।
ॐ विज्ञानघनसंपूर्णाय नमः ।
ॐ वीणावादनतत्पराय नमः ।
ॐ नीहाराकारगौरांगाय नमः ।
ॐ महालावण्यवारिधये नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ षडध्वोपरिसंस्थिताय नमः ।
ॐ सुषुम्नामार्गसंचारिणे नमः ।
ॐ बिसतंतुनिभाकृतये नमः । 960

ॐ पिनाकिने नमः ।
ॐ लिंगरूपश्रिये नमः ।
ॐ मंगलावयवोज्ज्वलाय नमः ।
ॐ क्षेत्राधिपाय नमः ।
ॐ सुसंवेद्याय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ विभवप्रदाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ सर्वदोषघ्ने नमः ।
ॐ पुत्रपौत्रदाय नमः ।
ॐ तैलदीपप्रियाय नमः ।
ॐ तैलपक्वान्नप्रीतमानसाय नमः ।
ॐ तैलाभिषेकसंतुष्टाय नमः ।
ॐ तिलभक्षणतत्पराय नमः ।
ॐ आपादकणिकामुक्ताभूषाशतमनोहराय नमः ।
ॐ शाणोल्लीढमणिश्रेणीरम्यांघ्रिनखमंडलाय नमः ।
ॐ मणिमंजीरकिरणकिंजल्कितपदांबुजाय नमः ।
ॐ अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ कंदर्पतूणाभजंघाय नमः ।
ॐ गुल्फोदंचितनूपुराय नमः । 980

ॐ करिहस्तोपमेयोरवे नमः ।
ॐ आदर्शोज्ज्वलजानुभृते नमः ।
ॐ विशंकटकटिन्यस्तवाचालमणिमेखलाय नमः ।
ॐ आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः ।
ॐ मुक्ताहारलसत्तुंगविपुलोरस्करंजिताय नमः ।
ॐ वीरासनसमासीनाय नमः ।
ॐ वीणापुस्तोल्लसत्कराय नमः ।
ॐ अक्षमालालसत्पाणये नमः ।
ॐ चिन्मुद्रितकरांबुजाय नमः ।
ॐ माणिक्यकंकणोल्लासिकरांबुजविराजिताय नमः ।
ॐ अनर्घरत्नग्रैवेयविलसत्कंबुकंधराय नमः ।
ॐ अनाकलितसादृश्यचिबुकश्रीविराजिताय नमः ।
ॐ मुग्धस्मितपरीपाकप्रकाशितरदांकुराय नमः ।
ॐ चारुचांपेयपुष्पाभनासिकापुटरंजिताय नमः ।
ॐ वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ।
ॐ कर्णद्वयोल्लसद्दिव्यमणिकुंडलमंडिताय नमः ।
ॐ करुणालहरीपूर्णकर्णांतायतलोचनाय नमः ।
ॐ अर्धचंद्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः ।
ॐ चारुचामीकराकारजटाचर्चितचंदनाय नमः ।
ॐ कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । 1000

इति श्री दक्षिणामूर्ति सहस्रनामावलिः ॥

गमनिक: पैन इव्वबडिन स्तोत्रमु, ई पुस्तकमुलो कूडा उन्नदि.

वारंवार विचारले जाणारे प्रश्न

What is श्री दक्षिणामूर्थि सहस्र नामावलि?

श्री दक्षिणामूर्थि सहस्र नामावलि is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read श्री दक्षिणामूर्थि सहस्र नामावलि online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री दक्षिणामूर्थि सहस्र नामावलि as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook