गणेश वज्र पंजर स्तोत्रम्
ध्यानम् ।
त्रिनेत्रं गजास्यं चतुर्बाहुधारं
परश्वादिशस्त्रैर्युतं भालचंद्रम् ।
नराकारदेहं सदा योगशांतं
गणेशं भजे सर्ववंद्यं परेशम् ॥ 1 ॥
बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ 2 ॥
देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ 3 ॥
महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥ 4 ॥
सांख्यान् रक्षतु सांख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लंबोदरश्च रक्षतु ॥ 5 ॥
सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ 6 ॥
आनंदेषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ 7 ॥
अव्यक्तेषु स्थितं नित्यं धूम्रवर्णः स्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ 8 ॥
स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ 9 ॥
अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ 10 ॥
योगशांतिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ 11 ॥
पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैरृत्यां चिंतामणिर्वरप्रदः ॥ 12 ॥
रक्षतु पश्चिमे ढुंढिर्हेरंबो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ 13 ॥
ऊर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
सर्वांगेषु मयूरेशः पातु मां भक्तिलालसः ॥ 14 ॥
यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
पुरशुपाशसंयुक्तो वरदाभयधारकः ॥ 15 ॥
इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ 16 ॥
य इदं पंजरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ 17 ॥
यः पठेत् पंजरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत्सर्वत्र मानवः ॥ 18 ॥
त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ 19 ॥
यः शृणोति गणेशस्य पंजरं वज्रसंज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ 20 ॥
धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसंपत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ 21 ॥
न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शंकरादेर्महादेव पठनादस्य नित्यशः ॥ 22 ॥
यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पंजरस्य निरंतरम् ॥ 23 ॥
लक्षावृत्तिभिरेवं स सिद्धपंजरको भवेत् ।
स्तंभयेदपि सूर्यं तु ब्रह्मांडं वशमानयेत् ॥ 24 ॥
एवमुक्त्वा गणेशानोऽंतर्दधे मुनिसत्तम ।
शिवो देवादिभिर्युक्तो हर्षितः संबभूव ह ॥ 25 ॥
इति श्रीमन्मुद्गले महापुराणे धूम्रवर्णचरिते वज्रपंजरकथनं नाम त्रयोविंशोऽध्यायः ।
वारंवार विचारले जाणारे प्रश्न
What is गणेश वज्र पंजर स्तोत्रम्?
गणेश वज्र पंजर स्तोत्रम् is a Ganesha Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read गणेश वज्र पंजर स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गणेश वज्र पंजर स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.