उद्धवगीता – दशमोऽध्यायः
अथ दशमोऽध्यायः ।
श्रीभगवान् उवाच ।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुल आचारं अकामात्मा समाचरेत् ॥ 1॥
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ 2॥
सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः ।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ 3॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ 4॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुरं शान्तं उपासीत मदात्मकम् ॥ 5॥
अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः ।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ 6॥
जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु ।
उदासीनः समं पश्यन् सर्वेषु अर्थं इव आत्मनः ॥ 7॥
विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् ।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ 8॥
निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ 9॥
यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि ।
संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः ॥ 10॥
तस्मात् जिज्ञासया आत्मानं आत्मस्थं परम् ।
सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ 11॥
आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः ।
तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः ॥ 12॥
वैशारदी सा अतिविशुद्धबुद्धिः
धुनोति मायां गुणसम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मं एतत्
स्वयं च शाम्यति असमिद् यथा अग्निः ॥ 13॥
अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वं अथ नित्यत्वं लोककालागम आत्मनाम् ॥ 14॥
मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा ।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ 15॥
एवं अपि अङ्ग सर्वेषां देहिनां देहयोगतः ।
काल अवयवतः सन्ति भावा जन्मादयोः असकृत् ॥ 16॥
अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ 17॥
न देहिनां सुखं किञ्चित् विद्यते विदुषां अपि ।
तथा च दुःखं मूढानां वृथा अहङ्करणं परम् ॥ 18॥
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ 19॥
कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके ।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ 20॥
श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः ।
बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ 21॥
अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ 22॥
इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ 23॥
स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते ।
गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ 24॥
स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ 25॥
तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ 26॥
यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः ।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ 27॥
पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः ॥ 28॥
कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहं आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ 29॥
लोकानां लोक पालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ 30॥
गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ ॥ 31॥
यावत् स्यात् गुणवैषम्यं तावत् नानात्वं आत्मनः ।
नानात्वं आत्मनः यावत् पारतन्त्र्यं तदा एव हि ॥ 32॥
यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम् ।
यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः ॥ 33॥
कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ 34॥
उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः ।
गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ 35॥
कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा ॥ 36॥
एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ 37॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
दशमोऽध्यायः ॥
प्रायः पृष्टाः प्रश्नाः
What is उद्धवगीता - दशमोऽध्यायः?
उद्धवगीता - दशमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read उद्धवगीता - दशमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - दशमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.