श्री राघवेन्द्र स्तोत्रम्


श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा
कामारिमाक्षविषमाक्षशिरः स्पृशन्ती ।
पूर्वोत्तरामिततरङ्गचरत्सुहंसा
देवालिसेवितपराङ्घ्रिपयोजलग्ना ॥ 1 ॥

जीवेशभेदगुणपूर्तिजगत्सुसत्त्व-
-नीचोच्चभावमुखनक्रगणैः समेता ।
दुर्वाद्यजापतिगिलैर्गुरुराघवेन्द्र-
-वाग्देवतासरिदमुं विमली करोतु ॥ 2 ॥

श्रीराघवेन्द्रः सकलप्रदाता
स्वपादकञ्जद्वयभक्तिमद्भ्यः ।
अघाद्रिसम्भेदनदृष्टिवज्रः
क्षमासुरेन्द्रोऽवतु मां सदाऽयम् ॥ 3 ॥

श्रीराघवेन्द्रो हरिपादकञ्ज-
-निषेवणाल्लब्धसमस्तसम्पत् ।
देवस्वभावो दिविजद्रुमोऽय-
-मिष्टप्रदो मे सततं स भूयात् ॥ 4 ॥

भव्यस्वरूपो भवदुःखतूल-
-सङ्घाग्निचर्यः सुखधैर्यशाली ।
समस्तदुष्टग्रहनिग्रहेशो
दुरत्ययोपप्लवसिन्धुसेतुः ॥ 5 ॥

निरस्तदोषो निरवद्यवेषः
प्रत्यर्थिमूकत्त्वनिदानभाषः ।
विद्वत्परिज्ञेयमहाविशेषो
वाग्वैखरीनिर्जितभव्यशेषः ॥ 6 ॥

सन्तानसम्पत्परिशुद्धभक्ति-
-विज्ञानवाग्देहसुपाटवादीन् ।
दत्वा शरीरोत्थसमस्तदोषान्
हत्त्वा स नोऽव्याद्गुरुराघवेन्द्रः ॥ 7 ॥

यत्पादोदकसञ्चयः सुरनदीमुख्यापगासादिता-
-सङ्ख्यानुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः ।
दुस्तापत्रयनाशनो भुवि महावन्ध्यासुपुत्रप्रदो
व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥ 8 ॥

यत्पादकञ्जरजसा परिभूषिताङ्गा
यत्पादपद्ममधुपायितमानसा ये ।
यत्पादपद्मपरिकीर्तनजीर्णवाच
-स्तद्दर्शनं दुरितकाननदावभूतम् ॥ 9 ॥

सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः ॥ 10 ॥

श्रीराघवेन्द्रो यतिराट् गुरुर्मे स्याद्भयापहः
ज्ञानभक्तिसुपुत्रायुर्यशः श्रीपुण्यवर्धनः ॥ 11 ॥

प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः ।
सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्न विद्यते ॥ 12 ॥

अपरोक्षीकृतश्रीशः समुपेक्षितभावजः ।
अपेक्षितप्रदाताऽन्यो राघवेन्द्रान्न विद्यते ॥ 13 ॥

दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः ।
शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्न विद्यते ॥ 14 ॥

अज्ञानविस्मृतिभ्रान्तिसंशयाऽपस्मृतिक्षयाः ।
तन्द्राकम्पवचःकौण्ठ्यमुखा ये चेन्द्रियोद्भवाः ।
दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॥ 15 ॥

ॐ श्रीराघवेन्द्राय नमः इत्यऽष्टाक्षरमन्त्रतः ।
जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्न संशयः ॥ 16 ॥

हन्तु नः कायजान् दोषान् आत्मात्मीयसमुद्भवान् ।
सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥ 17 ॥

इति कालत्रये नित्यं प्रार्थनां यः करोति सः ।
इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥ 18 ॥

अगम्यमहिमा लोके राघवेन्द्रो महायशाः ।
श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥ 19 ॥

सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् ।
करोमि तव सिद्धस्य बृन्दावनगतं जलम् ॥ 20 ॥

शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ।
सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् ।
तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥ 21 ॥

संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे
सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे
दुःखोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥ 22 ॥

राघवेन्द्रगुरुस्तोत्रं यः पठेद्भक्तिपूर्वकम् ।
तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥ 23 ॥

अन्धोऽपि दिव्यदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ।
पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्याऽस्य जपाद्भवेत् ॥ 24 ॥

यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् ।
तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत् क्षणात् ॥ 25 ॥

यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः ।
स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृती ॥ 26 ॥

स जङ्घालो भवेदेव गुरुराजप्रसादतः ।
सोमसूर्योपरागे च पुष्यार्कादिसमागमे ॥ 27 ॥

योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूतप्रेतपिशाचादि पीडा तस्य न जायते ॥ 28 ॥

एतत् स्तोत्रं समुच्चार्य गुरोर्वृन्दावनान्तिके ।
दीपसंयोजनाज्ज्ञानं पुत्रलाभो भवेद्ध्रुवम् ॥ 29 ॥

परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् ।
सर्वाभीष्टप्रवृद्धिः स्यान्नात्र कार्या विचारणा ॥ 30 ॥

राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥ 31 ॥

यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठेत्
स्तोत्रं दिव्यमिदं सदा न हि भवेत्तस्यासुखं किञ्चन ।
किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात्
कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥ 32 ॥

फलशृतिः
इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः ।
कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिदैः ॥

पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥

आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् ।
तेन विघ्नः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे ।
श्रीराघवेन्द्र गुरवे नमोऽत्यन्तदयालवे ॥

मूकोऽपि यत्प्रसादेन मुकुन्दशयनाय ते ।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ।

इति श्री अप्पण्णाचार्यविरचितं श्रीराघवेन्द्र स्तोत्रं सम्पूर्णम् ॥

प्रायः पृष्टाः प्रश्नाः

What is श्री राघवेन्द्र स्तोत्रम्?

श्री राघवेन्द्र स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Sanskrit. Use the language selector to view another available edition.

Can I read श्री राघवेन्द्र स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री राघवेन्द्र स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook