श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम्
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्पुरातनम् ।
सहस्रनाम परमं प्रत्यङ्गिरार्थ सिद्धये ॥ 1 ॥
सहस्रनामपाठेन सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वा वने रणे ॥ 2 ॥
तथा तुष्टा भवेद्देवी प्रत्यङ्गिराऽस्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥ 3 ॥
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना प्रत्यङ्गिरा भवेत् ॥ 4 ॥
भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवी समीरिता ।
प्रत्यङ्गिरा विनियोगः सर्वसम्पत्ति हेतवे ॥ 5 ॥
सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।
एवं ध्यात्वा पठेदेतद्यदीच्छेदात्मनो हितम् ॥ 6 ॥
अस्य श्रीप्रत्यङ्गिरा सहस्रनाममहामन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीमहाप्रत्यङ्गिरा देवता ह्रीं बीजं श्रीं शक्तिः स्वाहा कीलकं परकृत्याविनाशार्थे जपे पाठे विनियोगः ॥
करन्यासः
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतल करपृष्ठाभ्यां नमः ।
हृदयादि न्यासः
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
ध्यानम्
आशाम्बरा मुक्तकचा घनच्छवि-
-र्ध्येया सचर्मासिकरा हि भूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिता हिता त्वया
प्रत्यङ्गिरा शङ्करतेजसेरिता ॥
स्तोत्रम्
देवी प्रत्यङ्गिरा दिव्या सरसा शशिशेखरा ।
सुमना सामिधेती च समस्तसुरशेमुषी ॥ 1 ॥
सर्वसम्पत्तिजननी सर्वदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सीमा सुराराध्या सुधारसा ॥ 2 ॥
रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 3 ॥
वेगिनी वेगदा वेगबलास्या च बलाधिका ।
कला कलप्रिया कोली कोमला कालकामिनी ॥ 4 ॥
कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ 5 ॥
कीरकीली कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ 6 ॥
काशी कला महाकाशी सङ्काशा केशदायिनी ।
कुण्डली कुण्डलास्या च कुण्डलाङ्गदमण्डिता ॥ 7 ॥
कुणपाली कुमुदिनी कुमुदा प्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदनोदिनी ॥ 8 ॥
कुरङ्गनयना कुन्दा कुरुवृन्दाऽभिनन्दिनी ।
कुसुम्भकुसुमा काञ्ची क्वणत्किङ्किणिका कटा ॥ 9 ॥
कठोरा करुणा काष्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कण्ठिनी कालकण्ठिका ॥ 10 ॥
कीरहस्ता कुमारी च कुरुदा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भि कुम्भस्तनद्वया ॥ 11 ॥
कुम्भिगा करिभोगा च कदली दलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दरोदरा ॥ 12 ॥
एकान्तवासिनी काञ्ची कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ 13 ॥
कुटुम्बिनीप्रियाऽऽकूती क्रतुः क्रतुकरी प्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ 14 ॥
कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा क्रमावर्ती कामाक्षी काममोहिता ॥ 15 ॥
खड्गिनी खेचरी खड्गा खञ्जरीटेक्षणा खला ।
खरगा खरनाथा च खरास्या खेलनप्रिया ॥ 16 ॥
खरांशुः खेटिनी खट्वा खगा खट्वाङ्गधारिणी ।
खरखण्डिनी ख्याता खण्डिता खण्डनीस्थिता ॥ 17 ॥
खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खण्डिनी ।
गङ्गा गोदावरी गौरी गोमत्यपि च गौतमी ॥ 18 ॥
गया गेया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोपा गण्डप्रीता गुणी गिरा ॥ 19 ॥
गुं गौरी मन्दमदना गोकुला गोप्रतारिणी ।
गोदा गोविन्दिनी गूढा निर्गूढा गूढविग्रहा ॥ 20 ॥
गुञ्जिनी गजगा गोपी गोत्रक्षयकरी गदा ।
गिरिभूपालदुहिता गोगा गोच्छलवर्धिनी ॥ 21 ॥
घनस्तनी घनरुचिर्घनेहा घननिःस्वना ।
घूत्कारिणी घूघकरी घुघूकपरिवारिता ॥ 22 ॥
घण्टानादप्रिया घण्टा घनाघोटकवाहिनी ।
घोररूपा च घोरा च घूती प्रतिघना घनी ॥ 23 ॥
घृताची घनपुष्टिश्च घटा घनघटाऽमृता ।
घटस्या घटना घोघघातपातनिवारिणी ॥ 24 ॥
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ।
चातुरी चपला चक्रचला चेला चलाऽचला ॥ 25 ॥
चतुश्चिरन्तना चाका चिक्या चामीकरच्छविः ।
चापिनी चपला चम्पू चिन्ता चिन्तामणिश्चिता ॥ 26 ॥
चातुर्वर्ण्यमयी चञ्चच्चौराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चक्रा चक्राङ्गा चक्रमोदिनी ॥ 27 ॥
चेतश्चरी चित्तवृत्तिरचेता चेतनप्रदा ।
चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी ॥ 28 ॥
चिरञ्जीवितटा चिञ्चा तरुमूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ॥ 29 ॥
छुछुन्दरीपलप्रीती छुछुन्दरीनिभस्वना ।
छलिनी छलदा छत्रा छिटिका छेककृत्तथा ॥ 30 ॥
छगिनी छान्दसी छाया छायाकृच्छादिरित्यपि ।
जया च जयदा जाती जयस्था जयवर्धिनी ॥ 31 ॥
जपापुष्पप्रिया जप्या जृम्भिणी यामला युता ।
जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ॥ 32 ॥
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्भवा ।
जातिप्रिया जीवनस्था जीमूतसदृशच्छविः ॥ 33 ॥
जन्या जनहिता जाया जम्भभिज्जम्भमालिनी ।
जवदा जववद्वाहा जवानी ज्वरहा ज्वरा ॥ 34 ॥
झञ्झानिलमयी झञ्झा झणत्कारकरा तथा ।
झिण्टीशा झम्पकृत् झम्पा झम्पत्रासनिवारिणी ॥ 35 ॥
टकारस्था टङ्कधरा टङ्कारा करशाटिनी ।
ठक्कुरा ठीत्कृती ठिण्ठी ठिण्ठीरवसमावृता ॥ 36 ॥
ठण्ठानिलमयी ठण्ठा ठणत्कारकरा ठसा ।
डाकिनी डामरी चैव डिण्डिमध्वनिनन्दिनी ॥ 37 ॥
ढक्कास्वनप्रिया ढक्का तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ॥ 38 ॥
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ।
तुरङ्गा त्वरिता त्रेता तोतुला तोदिनी तुला ॥ 39 ॥
तापत्रयहरा तप्ता तालकेशी तमालिनी ।
तमालदलवच्छामा तालम्लानवती तमी ॥ 40 ॥
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरणी तपनद्युतिः ॥ 41 ॥
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ 42 ॥
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ।
स्थितिः स्थैर्या स्थविष्ठा च स्थापतिः स्थलविग्रहा ॥ 43 ॥
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ।
देवी देववधूर्दैत्यदमनी दन्तभूषणा ॥ 44 ॥
दयावती दमवती दमदा दाडिमस्तनी ।
दन्दशूकनिभा दैत्यदारिणी देवतानना ॥ 45 ॥
दोलाक्रीडा दलायुश्च दम्पती देवतामयी ।
दशा दीपस्थिता दोषा दोषहा दोषकारिणी ॥ 46 ॥
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ।
दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ॥ 47 ॥
दुर्वारा दुन्दुभी भ्रान्ता दूरस्था दूरवासिनी ।
दरहा दरदा दात्री दायादा दुहिता दया ॥ 48 ॥
धुरन्धरा धुरीणा च धौरी धी धनदायिनी ।
धीराऽधीरा धरित्री च धर्मदा धीरमानसा ॥ 49 ॥
धनुर्धरा च दमनी धूर्ता धूर्तपरिग्रहा ।
धूमवर्णा धूमपाना धूमला धूममोहिनी ॥ 50 ॥
नलिनी नन्दिनी नन्दा नादिनी नन्दबालिका ।
नवीना नर्मदा नर्मिनेमिर्नियमनिश्चया ॥ 51 ॥
निर्मला निगमाचारा निम्नगा नग्नकामिनी ।
नीतिर्निरन्तरा नग्नी निर्लेपा निर्गुणा नतिः ॥ 52 ॥
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ।
नवनीतप्रिया नारी नरकार्णवतारिणी ॥ 53 ॥
नारायणी निराकारा निपुणा निपुणप्रिया ।
निशा निद्रा नरेन्द्रस्था नमिताऽनमितापि च ॥ 54 ॥
निर्गुण्डिका च निर्गुण्डा निर्मांसाऽनामिका निभा ।
पताकिनी पताका च पलप्रीतिर्यशस्विनी ॥ 55 ॥
पीना पीनस्तना पत्नी पवनाशनशायिनी ।
पराऽपरा कलापाऽऽप्पा पाककृत्यरति प्रिया ॥ 56 ॥
पवनस्था सुपवना तापसीप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ॥ 57 ॥
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ।
पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ॥ 58 ॥
पाशी पाशकरा पाशा बन्धुहा पांसुला पशुः ।
पटुः पटासा परशुधारिणी पाशिनी तथा ॥ 59 ॥
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ।
पिशाची च पिशाचघ्नी पिशिताशनतोषिता ॥ 60 ॥
पानदा पानपात्रा च पानदानकरोद्यता ।
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ॥ 61 ॥
पतद्गर्भा पतद्गात्रा पातपुण्यप्रिया पुरी ।
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ॥ 62 ॥
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ।
पञ्चमुद्रा पुण्डरीका पिकी पिङ्गललोचना ॥ 63 ॥
प्रियङ्गुमञ्जरी पिण्डी पिण्डिता पाण्डुरप्रभा ।
प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ॥ 64 ॥
फलिनी फलधात्री च फलश्रीः फणिभूषणा ।
फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ॥ 65 ॥
फिरङ्गहा स्फीतमतिः स्फीतिः स्फीतकरी तथा ।
बलमाया बलारातिर्बलिनी बलवर्धिनी ॥ 66 ॥
वेणुवाद्या वनचरी विरावजनयित्री च ।
विद्या विद्याप्रदा विद्याबोधिनी बोधदायिनी ॥ 67 ॥
बुद्धमाता च बुद्धा च वनमालावती वरा ।
वरदा वारुणी वीणा वीणावादनतत्परा ॥ 68 ॥
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ।
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ॥ 69 ॥
विद्वत्कविकला वेत्ता वितन्द्रा विगतज्वरा ।
विरावा विविधारावा बिम्बोष्ठी बिम्बवत्सला ॥ 70 ॥
विन्ध्यस्था वीरवन्द्या च वरीयसापराधवित् ।
वेदान्तवेद्या वेद्या च वैद्या च विजयप्रदा ॥ 71 ॥
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ।
भगिनी भगमाला च भवानी भवभाविनी ॥ 72 ॥
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ।
भिल्ली भल्लधरा भीरुर्भेरुण्डा चैभभयापहा ॥ 73 ॥
भगसर्पिण्यपि भगा भगरूपा भगालया ।
भगासना भगामोदा भेरी भाङ्काररञ्जिनी ॥ 74 ॥
भीषणाऽभीषणा सर्वा भगवत्यपि भूषणा ।
भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ॥ 75 ॥
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ।
भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ॥ 76 ॥
मत्ता मनोहरा मना मानिनी मोहनी महा ।
महालक्ष्मीर्मदाक्षीबा मदिरा मदिरालया ॥ 77 ॥
मदोद्धता मतङ्गस्था माधवी मधुमन्थिनी ।
मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ॥ 78 ॥
मद्यपा मांसला मत्स्या मोदिनी मैथुनोद्धता ।
मुद्रा मुद्रावती माता माया महिममन्दिरा ॥ 79 ॥
महामाया महाविद्या महामारी महेश्वरी ।
महादेववधूर्मान्या मथुरा मेरुमण्डला ॥ 80 ॥
मेदस्वनी मेदसुश्रीर्महिषासुरमर्दिनी ।
मण्डपस्था मठस्थाऽमा माला मालाविलासिनी ॥ 81 ॥
मोक्षदा मुण्डमाला च मन्दिरागर्भगर्भिता ।
मातङ्गिनी च मातङ्गी मतङ्गतनया मधुः ॥ 82 ॥
मधुस्रवा मधुरसा मधूककुसुमप्रिया ।
यामिनी यामिनीनाथभूषा यावकरञ्जिता ॥ 83 ॥
यवाङ्कुरप्रिया यामा यवनी यवनाधिपा ।
यमघ्नी यमवाणी च यजमानस्वरूपिणी ॥ 84 ॥
यज्ञा यज्या यजुर्यज्वा यशोनिकरकारिणी ।
यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी यशा ॥ 85 ॥
यशस्विनी यज्ञसंस्था यूपस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवी रणी ॥ 86 ॥
रजोवती रजश्चित्रा रजनी रजनीपतिः ।
रागिणी राजिनी राज्या राज्यदा राज्यवर्धिनी ॥ 87 ॥
राजन्वती राजनीतिस्तुर्या राजनिवासिनी ।
रमणी रमणीया च रामा रामवती रतिः ॥ 88 ॥
रेतोवती रतोत्साहा रोगहा रोगकारिणी ।
रङ्गा रङ्गवती रागा रागज्ञा रागिनी रणा ॥ 89 ॥
रञ्जिका रञ्जकी रञ्जा रञ्जिनी रक्तलोचना ।
रक्तचर्मधरा रन्त्री रक्तस्था रक्तवाहिनी ॥ 90 ॥
रम्भा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गभृद्रङ्गमधुरा रोदसी रोदसीगृहा ॥ 91 ॥
रोगकर्त्री रोगहर्त्री च रोगभृद्रोगशायिनी ।
वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ 92 ॥
वन्दिता वन्दिमाता बन्धुरा बैन्दवी विभा ।
विङ्की विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ॥ 93 ॥
वेदैर्विलग्ना विग्ना च विधिर्विधिकरी विधा ।
शङ्खिनी शङ्खनिलया शङ्खमालावती शमी ॥ 94 ॥
शङ्खपात्राशिनी शङ्खाऽशङ्खा शङ्खगला शशी ।
शिम्बी शरावती श्यामा श्यामाङ्गी श्यामलोचना ॥ 95 ॥
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ।
शर्मदा शमहर्त्री च शाकिनी शङ्कुशेखरा ॥ 96 ॥
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषशायिनी ।
शेमुषी शोषिणी शौरी शारिः शौर्या शरा शरी ॥ 97 ॥
शापदा शापहारी श्रीः शम्पा शपथचापिनी ।
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी तथा ॥ 98 ॥
शङ्का शङ्कापहा शंस्था शाश्वती शीतला शिवा ।
शवस्था शवभुक् शैवी शाववर्णा शवोदरी ॥ 99 ॥
शायिनी शावशयना शिंशिपा शिंशिपायता ।
शवाकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ॥ 100 ॥
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।
शम्पिनी शङ्कुशक्तिः शं शन्तनुः शीलदायिनी ॥ 101 ॥
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ।
साधुसिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ॥ 102 ॥
सन्ततिः सम्पदा सम्पत्संवित्सम्पत्तिदायिनी ।
सपत्नी सरसा सारा सरस्वतिकरी सुधा ॥ 103 ॥
सरः समा समाना च समाराध्या समस्तदा ।
समिद्धा समदा सम्मा सम्मोहा समदर्शना ॥ 104 ॥
समितिः समिधा सीमा सावित्री संविदा सती ।
सवना सवनाधारा सावना समरा समी ॥ 105 ॥
समीरा सुमना साध्वी सध्रीचीन्यसहायिनी ।
हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलयुक् ॥ 106 ॥
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ।
हेला हेलावती ह्रेषा ह्रेषस्था ह्रेषवर्धिनी ॥ 107 ॥
हन्ता हानिर्हयाह्वा हृद्धन्तहा हन्तहारिणी ।
हुङ्कारी हन्तकृद्धङ्का हीहा हाहा हताहिता ॥ 108 ॥
हेमा प्रभा हरवती हारीता हरिसम्मता ।
होरी होत्री होलिका च होम्या होमा हविर्हरिः ॥ 109 ॥
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ 110 ॥
लीला लीलावती लोला ललना लालितालता ।
ललामलोचना लोच्या लोलाक्षी लक्षणा लटा ॥ 111 ॥
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्ति च ।
लतिका लङ्घिका लङ्घा लघिमा लघुमध्यमा ॥ 112 ॥
लघ्वीयसी लघूदर्का लूता लूतनिवारिणी ।
लोमभृल्लोमलोम्नी च लुलुती लुलुलुम्पिनी ॥ 113 ॥
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ।
लक्ष्मीर्लक्ष्मीप्रदा लक्ष्या लक्ष्यबलगतिप्रदा ॥ 114 ॥
क्षणक्षपा क्षणक्षीणा क्षमा क्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षोणी क्षोणिभृत् क्षत्रियाङ्गना ॥ 115 ॥
क्षपा क्षपाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षीणङ्करी क्षयकरी क्षयभृत् क्षयदा क्षतिः ।
क्षरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ 116 ॥
फलश्रुतिः –
मातुः सहस्रनामेदं प्रत्यङ्गिरासिद्धिदायकम् ॥ 1 ॥
यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत् ।
अनाचान्तः पठेन्नित्यं स चापि स्यान्महेश्वरः ।
मूकः स्याद्वाक्पतिर्देवी रोगी नीरोगतां भवेत् ॥ 2 ॥
अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतम् ।
वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ॥ 3 ॥
राजानः पादनम्राः स्युस्तस्य दासा इव स्फुटाः ।
अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि ॥ 4 ॥
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ॥ 5 ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कदाचन ॥ 6 ॥
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो धीरो दशावर्तं नरोत्तमः ॥ 7 ॥
मनसा चिन्तितं कार्यं तस्य सिद्धिर्न संशयम् ।
विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ 8 ॥
न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ।
कुजवारे श्मशाने च मध्याह्ने यो जपेत्तथा ॥ 9 ॥
शतावर्त्या स जयेत कर्ता हर्ता नृणामिह ।
रोगार्तो यो निशीथान्ते पठेदम्भसि संस्थितः ॥ 10 ॥
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ 11 ॥
अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाममेत्तद्धि तदा याति स्वयं शिवा ॥ 12 ॥
महापवनरूपेण घोरगोमायुनादिनी ।
तदा यदि न भीतिः स्यात्ततो देहीति वाग्भवेत् ॥ 13 ॥
तदा पशुबलिं दद्यात् स्वयं गृह्णाति चण्डिका ।
यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा ॥ 14 ॥
रोचनागुरुकस्तूरी कर्पूरमदचन्दनैः ।
कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ॥ 15 ॥
शुभनक्षत्रयोगे तु समभ्यर्च्य घटान्तरे ।
कृतसम्पातनात्सिद्धं धार्यन्तद्दक्षिणेकरे ॥ 16 ॥
सहस्रनामस्वर्णस्थं कण्ठे वापि जितेन्द्रियः ।
तदायं प्रणमेन्मन्त्री क्रुद्धः सम्रियते नरः ॥ 17 ॥
यस्मै ददाति च स्वस्ति स भवेद्धनदोपमः ।
दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ॥ 18 ॥
बालकानामियं रक्षा गर्भिणीनामपि ध्रुवम् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनानि च ॥ 19 ॥
यन्त्रधारणतो नूनं सिध्यन्ते साधकस्य च ।
नीलवस्त्रे विलिखितं ध्वजायां यदि तिष्ठति ॥ 20 ॥
तदा नष्टा भवत्येव प्रचण्डा परवाहिनी ।
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ॥ 21 ॥
तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ।
राजपत्न्योऽपि वश्याः स्युः किमन्याः परयोषितः ॥ 22 ॥
एतज्जपन्निशितोये मासैकेन महाकविः ।
पण्डितश्च महावादी जायते नात्रसंशयः ॥ 23 ॥
शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं वरं शुभम् ।
इहलोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ 24 ॥
इति नामसहस्रं तु प्रत्यङ्गिर मनोहरम् ।
गोप्यं गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ 25 ॥
इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् ।
प्रायः पृष्टाः प्रश्नाः
What is श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम्?
श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.