श्री पञ्चायुध स्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाऽहं शरणं प्रपद्ये ॥ 1 ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ 2 ॥
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराग्रमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ 3 ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवर्षैः
शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ 4 ॥
रक्षोऽसुराणां कठिनोग्रकण्ठ-
-च्छेदक्षरत्क्षोणित दिग्धसारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ 5 ॥
इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ 6 ॥
वने रणे शत्रु जलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
पठेत्विदं स्तोत्रमनाकुलात्मा
सुखीभवेत्तत्कृत सर्वरक्षः ॥ 7 ॥
सचक्रशङ्खं सगदासिशार्ङ्गं
[यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं]
पीताम्बरं कौस्तुभ-वत्स-चिह्नम् । [कौस्तुभ-वत्स-लाञ्छितम्]
श्रिया समेतोज्ज्वल शोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
इति पञ्चायुध स्तोत्रम् ॥
प्रायः पृष्टाः प्रश्नाः
What is श्री पञ्चायुध स्तोत्रम्?
श्री पञ्चायुध स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री पञ्चायुध स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री पञ्चायुध स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.