श्री पद्मावती नवरत्न मालिका स्तुतिः
श्रीमान् यस्याः प्रियस्सन् सकलमपि जगज्जङ्गमस्थावराद्यं
स्वर्भूपातालभेदं विविधविधमहाशिल्पसामर्थ्यसिद्धम् ।
रञ्जन् ब्रह्मामरेन्द्रैस्त्रिभुवनजनकः स्तूयते भूरिशो यः
सा विष्णोरेकपत्नी त्रिभुवनजननी पातु पद्मावती नः ॥ 1 ॥
श्रीशृङ्गारैकदेवीं विधिमुखसुमनःकोटिकोटीरजाग्र-
द्रत्नज्योत्स्नाप्रसारप्रकटितचरणाम्भोजनीराजितार्चाम् ।
गीर्वाणस्त्रैणवाणीपरिफणितमहाकीर्तिसौभाग्यभाग्यां
हेलानिर्दग्धदैन्यश्रमविषममहारण्यगण्यां नमामि ॥ 2 ॥
विद्युत्कोटिप्रकाशां विविधमणिगणोन्निद्रसुस्निग्धशोभा-
सम्पत्सम्पूर्णहाराद्यभिनवविभवालङ्क्रियोल्लासिकण्ठाम् ।
आद्यां विद्योतमानस्मितरुचिरचितानल्पचन्द्रप्रकाशां
पद्मां पद्मायताक्षीं पदनलिननमत्पद्मसद्मां नमामि ॥ 3 ॥
शश्वत्तस्याः श्रयेऽहं चरणसरसिजं शार्ङ्गपाणेः पुरन्ध्र्याः
स्तोकं यस्याः प्रसादः प्रसरति मनुजे क्रूरदारिद्र्यदग्धे ।
सोऽयं सद्योऽनवद्यस्थिरतररुचिरश्रेष्ठभूयिष्ठनव्य-
स्तव्यप्रासादपङ्क्तिप्रसितबहुविधप्राभवो बोभवीति ॥ 4 ॥
सौन्दर्योद्वेलहेमाम्बुजमहितमहासिंहपीठाश्रयाढ्यां
पुष्यन्नीलारविन्दप्रतिमवरकृपापूरसम्पूर्णनेत्राम् ।
ज्योत्स्नापीयूषधारावहनवसुषमक्षौमधामोज्ज्वलाङ्गीं
वन्दे सिद्धेशचेतस्सरसिजनिलयां चक्रिसौभाग्यऋद्धिम् ॥ 5 ॥
संसारक्लेशहन्त्रीं स्मितरुचिरमुखीं सारशृङ्गारशोभां
सर्वैश्वर्यप्रदात्रीं सरसिजनयनां संस्तुतां साधुबृन्दैः ।
संसिद्धस्निग्धभावां सुरहितचरितां सिन्धुराजात्मभूतां
सेवे सम्भावनीयानुपमितमहिमां सच्चिदानन्दरूपाम् ॥ 6 ॥
सिद्धस्वर्णोपमानद्युतिलसिततनुं स्निग्धसम्पूर्णचन्द्र-
व्रीडासम्पादिवक्त्रां तिलसुमविजयोद्योगनिर्निद्रनासाम् ।
तादात्वोत्फुल्लनीलाम्बुजहसनचणात्मीयचक्षुः प्रकाशां
बालश्रीलप्रवालप्रियसखचरणद्वन्द्वरम्यां भजेऽहम् ॥ 7 ॥
यां देवीं मौनिवर्याः श्रयदमरवधूमौलिमाल्यार्चिताङ्घ्रिं
संसारासारवारान्निधितरतरणे सर्वदा भावयन्ते ।
श्रीकारोत्तुङ्गरत्नप्रचुरितकनकस्निग्धशुद्धान्तलीलां
तां शश्वत्पादपद्मश्रयदखिलहृदाह्लादिनीं ह्लादयेऽहम् ॥ 8 ॥
आकाशाधीशपुत्रीं श्रितजननिवहाधीनचेतःप्रवृत्तिं
वन्दे श्रीवेङ्कटेशप्रभुवरमहिषीं दीनचित्तप्रतोषाम् ।
पुष्यत्पादारविन्दप्रसृमरसुमहश्शामितस्वाश्रितान्त-
स्तामिस्रां तत्त्वरूपां शुकपुरनिलयां सर्वसौभाग्यदात्रीम् ॥ 9 ॥
श्रीशेषशर्माभिनवोपक्लुप्ता
प्रियेण भक्त्या च समर्पितेयम् ।
पद्मावतीमङ्गलकण्ठभूषा
विराजतां श्रीनवरत्नमाला ॥ 10 ॥
इति श्री पद्मावती नवरत्नमालिका स्तुतिः ।
प्रायः पृष्टाः प्रश्नाः
What is श्री पद्मावती नवरत्न मालिका स्तुतिः?
श्री पद्मावती नवरत्न मालिका स्तुतिः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री पद्मावती नवरत्न मालिका स्तुतिः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री पद्मावती नवरत्न मालिका स्तुतिः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.