श्री हयग्रीव सहस्र नाम स्तोत्रम्
॥ श्रीः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।
यस्य द्विरदवक्राद्याः पारिषद्याः परश्शतं
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये . ।
श्रीकाश्यपः ।
तात मे श्रीहयग्रीवनाम्नां साहस्रमुत्तमम् ।
अध्येतुं जायते काङ्क्षा तत्प्रसीद मयि प्रभो ॥ 1 ॥
इतिपृष्टस्ततोवाच ब्रह्मा लोक पितामहः ।
श्रेयसामपि च श्रेयः काश्यपेह विशाम्पते ॥ 2 ॥
अमत्या विहितं पापं मूलतो हि विनश्यति ।
रहस्यानां रहस्यं च पावनानां च पावनम् ॥ 3 ॥
प्रायश्चित्ते कृते तस्य कर्तान निरयी भवेत् ।
कामतस्तु कृते पापे प्रायश्चित्तशतेन च ॥ 4 ॥
तन्न नश्यति तत्कर्ता व्यवहार्यस्तु जायते ।
एवं दुरपनोदानां बुद्धिपूर्वमहांहसाम् ॥ 5 ॥
आवर्जनकराणामप्यन्ते निष्कृतिरीरिता ।
प्रणम्य मानवतया मन्त्ररत्नानुकीर्तनम् ॥ 6 ॥
हंसनामसहस्रस्यपठनं शिरसान्वहम् ।
प्रणम्य भगवद्भक्तपादोदक निषेवणम् ॥ 7 ॥
तदेतत्त्त्रितयं सर्वपापसङ्घातनाशनम् ।
इतीदं परमं गुह्यं हंसो हयशिराहरिः ॥ 8 ॥
वेदोपदेशसमये मां निबोध्योपदिष्टवान ।
अनेन मन्त्ररत्नेन महाश्वशिरसो हरेः ॥ 9 ॥
सहस्रनामभिस्तुल्या निष्कृतिर्नेतरांहसाम् ।
अनन्यभगवद्भक्तपादोदकनिषेवणम् ॥ 10 ॥
एतद्द्वयोपदेशाङ्गमादौ स्वीकार्यमिष्यते ।
इत्युक्त्वाऽनन्तगरुडविष्वक्सेनपदोदकम् ॥ 11 ॥
आदौ मां प्राशयन्नन्ते परिशोष्येकृतांहसि ।
आत्मनो नामसाहस्रं सर्षिच्छन्दोऽधिदैवतम् ॥ 12 ॥
सन्यासमुद्रिकाभेदं मह्यं साङ्गमुपादिशत् ।
यथावत्तदिदं वत्स दद्यां ते शृणु तत्त्वतः ॥ 13 ॥
यत्प्राप्यात्यन्तिकी वृत्त्या निवृत्त्या मोक्षमेष्यति ।
हयास्यनामसाहस्रस्तोत्रराजस्य वैभवम् ॥ 14 ॥
ऋषिश्श्रीमान् हयग्रीवो विद्यामूर्तिस्स्वयं हरिः ।
देवता च स एवास्य छन्दोनुष्टुबिति श्रुतम् ॥ 15 ॥
हंसो हंसोऽहमित्येते बीजं शक्तिस्तुकीलकम् ।
हंसीं हंसोऽहमित्येते प्राज्ञप्या मनवस्त्रयः ॥ 16 ॥
एकैकस्य दशावृत्तिरितिसङ्ख्याविधीयते ।
प्रणवत्रयमन्त्रं स्यात्कवचं श्रीश्श्रियो भवेत् ॥ 17 ॥
श्रीविभूषण इत्येतद्धृदयं परिकीर्तितम् ।
परोरजाः परं ब्रह्मेत्यपि योनिरुदाहृता ॥ 18 ॥
विद्यामूर्तिरिति ध्यानं विश्वात्मेति च गद्यते ।
विश्वमङ्गलनाम्नोऽस्य विनियोगो यथारुचि ॥ 19 ॥
भ्रूनेत्राश्रोत्रनासाहन्वोष्ठतालूरदे क्रमात् ।
षोडशस्वरविन्यासो दक्षिणारम्भमिष्यते ॥ 20 ॥
जिह्वातलेऽपि तन्मूले स्वरावन्त्यौ च विन्यसेत् ।
तदा तालुद्वयन्याससखायोस्तु परित्यजेत् ॥ 21 ॥
अयं हि विद्याकामानामाद्यस्त्वन्य फलैषिणाम् ।
दोःपत्सक्थ्यङ्गुलीशीर्षे वर्गान्कचटतान्न्यसेत् ॥ 22 ॥
पार्श्वयोस्तु वफौ पृष्टोदरयोस्तु बभौ न्यसेत् ।
मकारं हृदये न्यस्य जीवे वा पञ्चविंशके ॥ 23 ॥
नाभिपायूदरे गुह्ये यरलवान्विनिक्षिपेत् ।
शषौ कुण्डलयोश्शीर्षं हारे च कटिसूत्रके ॥ 24 ॥
सहौ हृदब्जे हर्दे च लमापादशिखे न्यसेत् ।
क्षञ्च शीर्षादि पादान्तं मातृकान्यास एष तु ॥ 25 ॥
अस्य श्रीहयग्रीवसहस्रनाम स्तोत्रमहामन्त्रस्य श्रीहयग्रीव ऋषिः ।
अनुष्टुप् छन्दः . श्रीहयग्रीव परमात्मा देवता . हंस इति बीजम् ।
हंसोहमिति शक्तिः . हंसां हंसीमिति कीलकम् . ॐ ॐ ओमित्यस्त्रम् ।
श्रीः श्रियः इति कवचम् . श्रीविभूषण इति हृदयम् ।
परोरजाः परं ब्रह्मेति योनिः . विद्यामूर्तिर्विश्वात्मा इति ध्यानम् ।
हंसामङ्गुष्ठाभ्यां नमः . हंसीं तर्जनीभ्यां नमः ।
हंसूं मध्यमाभ्यां नमः . हंसों अनामिकाभ्यां नमः ।
हंसौं कनिष्ठिकाभ्यां नमः . हंसः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः . ।
हंसां ज्ञानाय हृदयाय नमः . हंसीं ऐश्वर्याय शिरसे स्वाहा ।
हंसूं शक्तयै शिखायै वषट् . हंसों बलाय कवचाय हुम् ।
हंसौं तेजसे नेत्राभ्यां वौषट् ।
हंसः वीर्यायास्त्राय फट् ओमिति दिग्बन्धः . ।
अथ मातृकान्यासः ।
ॐ अं आं भ्रुवोः . इं ईं नेत्रयोः . उं ऊं श्रोत्रयोः . ऋं ॠं नासिकयोः ।
लृं लॄं कपोलयोः . एं ऐं ओष्ठयोः . ॐ ॐ दन्तपङ्क्त्योः ।
अं जिह्वातले . अः जिह्वामूले ।
कवर्गं दक्षिणे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे ।
चवर्गं वामे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे ।
टवर्गं दक्षिणे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
तवर्गं वामे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
पफौ पार्श्वयोः . बभौ पृष्ठोदरयोः . मं हृदि ।
यं रं लं वं नाभौ पायौ उदरे गुह्ये . शषौ हस्तयोः ।
सहौ शीर्षे कट्याम् . लक्षौ हृदब्जे हार्दे उति मातृकान्यासः . ।
अथ ध्यानम् . ।
विद्यामूर्तिमखण्डचन्द्रवलयश्वेतारविन्दस्थितं
हृद्याभं स्फटिकाद्रिनिर्मलतनुं विद्योतमानंश्रिया ।
वामाङ्कस्थितवल्लभां प्रति सदाव्याख्यान्तमाम्नायवा-
गर्थानादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ 1 ॥
विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामण्डलो
देवो दक्षिणपाणियुग्मविलसद्बोधाङ्कचक्रायुधः ।
वामोदग्रकरे दरं तदितरेणाश्लिष्य दोष्णा रमां
हस्ताग्रे धृतपुस्तकस्स दयतां हंसो हिरण्यच्छदः ॥ 2 ॥
अथ सहस्रनामस्तोत्रप्रारम्भः ।
ॐ – श्रीं हंसो हमै मों क्लीं श्रीश्श्रियश्श्रीविभूषणः ।
परोरजाः परं ब्रह्म भूर्भुवस्सुवरादिमः ॥ 1 ॥
भास्वान्भगश्च भगवान्स्वस्तिस्वाहा नमस्स्वधा ।
श्रौषड्वौषढलं हुं फट् हुं ह्रीं क्रों ह्लौं यथा तथा ॥ 2 ॥
कर्कग्रीवः कलानाथः कामदः करुणाकरः ।
कमलाध्युषितोत्सङ्गः क्षये कालीवशानुगः ॥ 3 ॥
निषच्छोपनिषच्चाथ नीचैरुच्चैस्समं सह ।
शश्वद्युगपदह्वाय शनैरेको बहुध्रुवः ॥ 4 ॥
भूतभृद्भूरिदस्साक्षी भूतादिः पुण्यकीर्तनः ।
भूमा भूमिरधोन्नद्धः पुरुहूतः पुरुष्टुतः ॥ 5 ॥
प्रफुल्लपुण्डरीकाक्षः परमेष्ठी प्रभावनः ।
प्रभुर्भगःसतां बन्धुर्भयध्वंसी भवापनः ॥ 6 ॥
उद्यन्नुरुशयाहुं कृदुरुगाय उरुक्रमः ।
उदारस्त्रियुगस्त्र्यात्मा निदानं नलयो हरिः ॥ 7 ॥
हिरण्यगर्भो हेमाङ्गो हिरण्यश्मश्रुरीशिता ।
हिरण्यकेशो हिमहा हेमवासा हितैषणः ॥ 8 ॥
आदित्यमण्डलान्तस्थो मोदमानस्समूहनः ।
सर्वात्मा जगदाधारस्सन्निधिस्सारवान्स्वभूः ॥ 9 ॥
गोपतिर्गोहितो गोमी केशवः किन्नरेश्वरः ।
मायी मायाविकृतिकृन्महेशानो महामहाः ॥ 10 ॥
ममा मिमी मुमू मृमॄं म्लुम्लूं मेमैं तथैव च ।
मोमौं बिन्दुर्विसर्गश्च ह्रस्वोदीर्घः प्लुतस्स्वरः ॥ 11 ॥
उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा ।
कं खं गं घं ंअं च चं छं जं झं ञं टं ठमेव च ॥ 12 ॥
डं ढं णं तं थं च दं च धं नं पं फं बमेव च
भं मं यं रं लं च वं च शं षं सं हं लमेव च ॥ 13 ॥
क्षं यमों व्यञ्जनो जिह्वामूलीयोऽर्धविसर्गवान् ।
उपध्मानीय इति च संयुक्ताक्षर एव च ॥ 14 ॥
पदं क्रिया कारकश्च निपातो गतिरव्ययः ।
सन्निधिर्योग्यताऽकाङ्क्षा परस्परसमन्वयः ॥ 15 ॥
वाक्यं पद्यं सम्प्रदायो भावश्शब्दार्थलालितः ।
व्यञ्जना लक्षणा शक्तिः पाको रीतिरलङ्कृतिः ॥ 16 ॥
शय्या फ्रौढध्वनिस्तद्वत्काव्यं सर्गः क्रिया रुचिः ।
नानारूपप्रबन्धश्च यशः पुण्यं महद्धनम् ॥ 17 ॥
व्यवहारपरिज्ञानं शिवेतरपरिक्षयः ।
सदः परमनिर्वाणं प्रियपथ्योपदेशकः ॥ 18 ॥
संस्कारः प्रतिभा शिक्षा ग्रहणं धारणं श्रमः ।
आसुतास्वादिमा चित्रं विस्तारश्चित्रसंविधिः ॥ 19 ॥
पुराणमितिहासश्च स्मृतिसूत्रं च संहिता ।
आचार आत्मना तुष्टिराचार्याज्ञानतिक्रमः ॥ 20 ॥
श्रीमान्श्रीगीःश्रियः कान्तश्श्रीनिधिश्श्रीनिकेतनः ।
श्रेयान्हयाननश्रीदश्श्रीमयश्श्रितवत्सलः ॥ 21 ॥
हंसश्शुचिषदादित्यो वसुश्चन्द्रोऽन्तरिक्षसत् ।
होता च वेदिषद्योनिरतिथिर्द्रोणसद्धविः ॥ 22 ॥
नृषन्मृत्युश्च वरसदमृतं चर्तसद्वृषः ।
व्योमसद्विविधस्कोटशब्दार्थव्यङ्ग्यवैभवः ॥ 23 ॥
अब्जा रसस्वादुतमो गोजा गेयो मनोहरः ।
ऋतजास्सकलं भद्रमद्रिजास्थैर्यमुत्तमम् ॥ 24 ॥
ऋतं समज्ञात्वनृतं बृहत्सूक्ष्मवशानुगः ।
सत्यं ज्ञानमनन्तं यत्तत्सद्ब्रह्ममयोऽच्युतः ॥ 25 ॥
अग्रेभवन्नगो नित्यः परमः पुरुषोत्तमः ।
योगनिद्रापरस्स्वामी निध्यानवरनिर्वृनः ॥ 26 ॥
रसो रस्यो रसयिता रसवान् रसिकप्रियः ।
आनन्दो नन्दयन्सर्वानानन्दी हयकन्धरः ॥ 27 ॥
कालः काल्यश्च कालात्मा कालाभ्युत्थितजागरः ।
कलासाचिव्यकृत्कान्ताकथितव्याधिकार्यकः ॥ 28 ॥
दृन्न्यञ्चनोदञ्चनोद्यल्लयसर्गो लघुक्रियः ।
विद्यासहायो वागीशो मातृकामण्डलीकुतः ॥ 29 ॥
हिरण्यं हंसमिथुनमीशानश्शक्तिमान् जयी ।
ग्रहमेथी गुणी श्रीभूनीलालीलैकलालस ॥ 30 ॥
अङ्केनोदूह्य वाग्देवीमाचार्यकमुपाश्रयः ।
वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्परः ॥ 31 ॥
ल्हौं ह्लं हं हं हयो हं सूं हंसां हंसीं हसूं हसौम् ।
हसूं हं हरिणो हारी हरिकेशो हरेडितः ॥ 32 ॥
सनातनो निर्बीजस्सन्नव्यक्तो हृदयेशयः ।
अक्षरः क्षरजीवेशः क्षमी क्षयकरोऽच्युतः ॥ 33 ॥
कर्ताकारयिताऽकार्यं कारणं प्रकृतिः कृतिः ।
क्षयक्षयमनामार्थो विष्णुर्जिष्णुर्जगन्मयः ॥ 34 ॥
सङ्कुचन्विकचन्स्थाणुनिर्विकारो निरामयः ।
शुद्धो बुद्धः प्रबुद्धश्च स्निग्धो मुग्धस्समुद्धतः ॥ 35 ॥
सङ्कल्पदो बहुभवत्सर्वात्मा सर्वनामभृत् ।
सहस्रशीर्षस्सर्वज्ञस्सहस्राक्षस्सहस्रपात् ॥ 36 ॥
व्यक्तोविराट्स्वराट्सम्राड्विष्वग्रूपवपुर्विधुः ।
मायावी परमानन्दो मान्यो मायातिगो महान् ॥ 37 ॥
वटपत्रशयो बालो ललन्नाम्नायसूचकः ।
मुखन्यस्तकरग्रस्तपादाग्रपटलः प्रभुः ॥ 38 ॥
नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्विकतामसः ।
महार्णवाम्बुपर्यङ्कः पद्मनाभः परात्परः ॥ 39 ॥
ब्रह्मभूर्ब्रह्मभयहृद्धरिरोमुपदेशकृत् ।
मधुकैटभनिर्माता मत्तब्रह्ममदापहः ॥ 40 ॥
वेधोविलासवागानिर्दयासारो मृषार्थदः ।
नारायणास्त्रनिर्मातामधुकैटभमर्दनः ॥ 41 ॥
वेदकर्ता वेदभर्ता वेदहर्ता विदांवरः ।
पुङ्खानुपुङ्खहेषाढ्यः पूर्णषाड्गुण्यविग्रहः ॥ 42 ॥
लालामृतकणव्याजवान्तनिर्दोषवर्णकः ।
उल्लोलस्वानधीरोद्यदुच्चैर्हलहलध्वनिः ॥ 43 ॥
कर्णादारभ्य कल्क्यात्मा कविः क्षीरार्णवोपमः ।
शङ्ख चक्रगदी खड्गी शार्ङ्गी निर्भयमुद्रकः ॥ 44 ॥
चिन्मुद्राचिह्नितो हस्ततलविन्यस्तपुस्तकः ।
विद्यानाम्नीं श्रियं शिष्यां वेदयन्निजवैभवम् ॥ 45 ॥
अष्टार्ण्यम्योऽष्टभुजोव्यष्टिसृष्टिकरः पिता ।
अष्टैश्वर्यप्रदोहृष्यदष्टमूर्तिपितृस्तुतः ॥ 46 ॥
अनीतवेदपुरुषो विधिवेदोपदेशकृत् ।
वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमान् ॥ 47 ॥
सर्वकर्मसमाराध्यस्सर्ववेदमयो विभुः ।
सर्वार्थतत्त्वव्याख्याता चतुष्षष्टिकलाधिपः ॥ 48 ॥
शुभयुक्सुमुखश्शुद्धस्सुरूपस्सुगतस्सुधीः ।
सुव्रतिस्संहृतिश्शूरस्सुतपाः सुष्टुतिस्सुहृत् ॥ 49 ॥
सुन्दरस्सुभगस्सौम्यस्सुखदस्सुहृदां प्रियः ।
सुचरित्रस्सुखतरश्शुद्धसत्वप्रदायकः ॥ 50 ॥
रजस्तमोहरो वीरोविश्वरक्षाधुरन्धरः ।
नरनारायणाकृत्या गुरुशिष्यत्वमास्थितः ॥ 51 ॥
परावरात्मा प्रबलः पावनः पापनाशनः ।
दयाघनः क्षमासारो वात्सल्यैकविभूषणः ॥ 52 ॥
आदिकूर्मो जगद्भर्ता महापोत्री महीधरः ।
स्तद्भित्स्वामी हरिर्यक्षो हिरण्यरिपुरैच्छिकः ॥ 53 ॥
प्रह्लादपालकस्सर्वभयहर्ता प्रियंवदः ।
श्रीमुखालोकनस्रंसत्क्रौञ्चकः कुहकाञ्चनः ॥ 54 ॥
छत्री कमण्डलुधरो वामनो वदतां वरः ।
पिशुनात्मा शनोदृष्टिलोपनो बलिमर्दनः ॥ 55 ॥
उरुक्तमो बलिशिरोन्यस्ताङ्घ्रिर्बलिमर्दनः ।
जामदग्न्यः परशुभृत्कृत्तक्षत्त्रकुलोत्तमः ॥ 56 ॥
रामोऽभिरामश्शान्तात्मा हरकोदण्डखण्डनः ।
शरणागतसन्त्राता सर्वायोध्यकमुक्तिदः ॥ 57 ॥
सङ्कर्षणोमदोदग्रो बलवान्मुसलायुधः ।
कृष्णाक्लेशहरः कृष्णो महाव्यसनशान्तिदः ॥ 58 ॥
अङ्गारितोत्तरागर्भप्राणदः पार्थसारथिः ।
गीताचार्यो धराभारहारी षट्पुरमर्दनः ॥ 59 ॥
कल्की विष्णुयशस्सूनुः कलिकालुष्यनाशनः ।
साधुदुष्कृत्परित्राणविनाशविहितोदयः ॥ 60 ॥
वैकुण्ठे परमे तिष्ठन् सुकुमारयुवाकृतिः ।
विश्वोदयस्थितिध्वंससङ्कल्पेन स्वयं प्रभुः ॥ 61 ॥
मदनानां च मदनो मणिकोटीरमानितः ।
मन्दारमालिकापीडो मणिकुण्डलमण्डितः ॥ 62 ॥
सुस्निग्धनीलकुटिलकुन्तलः कोमलाकृतिः ।
सुललाटस्स्तुतिलकस्सुभ्रूकस्सुकपोलकः ॥ 63 ॥
सिद्धासदसदालोकसुधास्यन्दीरदच्छदः ।
तारकाकोरकाकारविनिर्मितरदच्छदः ॥ 64 ॥
सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदः ।
विष्टब्धोविपुलग्रीवोनिभृतोच्चैश्श्रवस्थितिः ॥ 65 ॥
समावृत्तावदातोरुमुक्ताप्रालम्बभूषणः ।
रत्नाङ्गदी वज्रनिष्की नीलरत्नाङ्ककङ्कणः ॥ 66 ॥
हरिन्मणिगणाबद्धशृङ्खलाकङ्कणोर्मिकः ।
सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकः ॥ 67 ॥
श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृतः ।
पट्टतन्तुग्रथनवत्पवित्रनरशोभितः ॥ 68 ॥
पीनवक्षामहास्कन्धो विपुलोरुकटीतटः ।
कौस्तुभी वनमाली च कान्त्याचन्द्रायुतोपमः ॥ 69 ॥
मन्दारमालिकामोदी मञ्जुवागमलच्छविः ।
दिव्यगन्धो दिव्यरसो दिव्यतेजा दिवस्पतिः ॥ 70 ॥
वाचालो वाक्पतिर्वक्ता व्याख्याता वादिनां प्रियः ।
भक्तहृन्मधुरो वादिजिह्वाभद्राननस्थितिः ॥ 71 ॥
स्मृतिसन्निहितस्स्निग्धस्सिद्धिदसिद्धिसन्नुतः ।
मूलकन्दोमुकुन्दोग्लौस्स्वयम्भूशम्भुरैन्दवः ॥ 72 ॥
इष्टो मनुर्यमः कालकाल्यः कम्बुकलानिधिः ।
कल्यः कामयिता भीमः कातर्यहरणः कृतिः ॥ 73 ॥
सम्प्रियः पक्कणस्तर्कचर्चानिर्धारणादयः ।
व्यतिरेको विवेकश्च प्रवेकः प्रक्रमः क्रमः ॥ 74 ॥
प्रमाण प्रतिभूः प्राज्ञः प्रज्ञापत्थ्याचधारणः ।
विधिर्विधाता व्यवधिरुद्भवः प्रभवस्थितिः ॥ 75 ॥
विषयस्संशयः पूर्वः पक्षः कक्ष्योपपादकः ।
राद्धान्तो विहितो न्यायफलनिष्पत्तिरुद्भवः ॥ 76 ॥
नानारूपाणि तन्त्राणि व्यवहार्यो व्यवस्थितिः ।
सर्वसाधारणो देवस्साध्वसाधुहिते रतः ॥ 77 ॥
सन्धा सनातनो धर्मो धर्मैरर्च्या महात्मभिः ।
छन्दोमयस्त्रिधामात्मा स्वच्छन्दश्छान्दसेडितः ॥ 78 ॥
यज्ञो यज्ञात्मको यष्टा यज्ञाङ्गोऽपघनोहविः ।
समिदाज्यं पुरोडाशश्शाला स्थाली स्रुवस्स्रुचा ॥ 79 ॥
प्राग्वंशो देवयजनः परिधिश्च परिस्तरः ।
वेदिर्विहरणं त्रेता पशुः पाशश्च संस्कृतिः ॥ 80 ॥
विधिर्मन्त्रोऽर्थवादश्च द्रव्यमङ्गं च दैवतम् ।
स्तोत्रं शस्त्रं साम गीतिरुद्गीथस्सर्वसाधनम् ॥ 81 ॥
याज्या पुरोनुकाव्या च सामिधेनी समूहनम् ।
प्रयोक्तारः प्रयोगश्च प्रपञ्चः प्राशुभा श्रमः ॥ 82 ॥
श्रद्धा प्रध्वंसना तुष्टिः पुष्टिः पुण्यं प्रतिर्भवः ।
सदस्सदस्यसम्पातः प्रश्नः प्रतिवचस्थितिः ॥ 83 ॥
प्रायश्चित्तं परिष्कारो धृतिर्निर्वहणं फलम् ।
नियोगो भावना भाव्यं हिरण्यं दक्षिणा नुतिः ॥ 84 ॥
आशीरभ्युपपत्तिश्च तृप्तिस्स्वं शर्म केवलम ।
पुण्यक्षयः पुनः पातभयं शिक्षाशुगर्दनः ॥ 85 ॥
कार्पण्यं यातनां चिन्ता निर्वेदश्च विहस्तता ।
देहभृत्कर्मसम्पातः किञ्चित्कर्मानुकूलकः ॥ 86 ॥
अहेतुकतया प्रेम साम्मुख्यं चाप्यनुग्रहः ।
शुचिश्श्रीमत्कुलजनो नेता सत्त्वाभिमानवान् ॥ 87 ॥
अन्तरायहरः पित्रोरदुष्टाहारदायकः ।
शुद्धाहारानुरूपाङ्गपरिणामविधायकः ॥ 88 ॥
स्रावपातादिविपदां परिहर्ता परायणः ।
शिरःपाण्यादिसन्धाता क्षेमकृत्प्राणदः प्रभु ॥ 89 ॥
अनिर्घृणश्चाविषमश्शक्तित्रितयदायकः ।
स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवान् ॥ 90 ॥
संवित्सन्धायकस्सर्वजन्मक्लेशस्मृतिप्रदः ।
विवकेशोकवैराग्यभवभीतिविधायकः ॥ 91 ॥
गर्भस्याप्यनुकूलादिनासान्ताध्यवसायदः ।
शुभवैजननोपेतसदनेहोजनिप्रदः ॥ 92 ॥
उत्तमायुःप्रदो ब्रह्मनिष्ठानुग्रहकारकः ।
स्वदासजननिस्तीर्णतद्वंशजपरम्परः ॥ 93 ॥
श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलः ।
अधर्वणोक्तैकशतमृत्युदूरक्रियापरः ॥ 94 ॥
दयाद्यष्टगुणाधाता तत्तत्संस्कृतिसाधकः ।
मेधाविधाता श्रद्धाकृत् सौस्थ्यदो जामिताहरः ॥ 95 ॥
विघ्ननुद्विजयी धाता देशकालानुकूल्यकृत् ।
विनेता सत्पथानेता दोषहृच्छुभदस्सखा ॥ 96 ॥
ह्रीदो भीदो रुचिकरो विश्वो विश्वहिते रतः ।
प्रमादहृत्प्राप्तकारी प्रद्युम्नो बलवत्तरः ॥ 97 ॥
साङ्गवेदसमायोक्ता सर्वशास्त्रार्थवित्तिदः ।
ब्रह्मचर्यान्तरायघ्नः प्रियकृद्धितकृत्परः ॥ 98 ॥
चित्तशुद्धिप्रदश्छिन्नाक्षचापल्यः क्षमावहः ।
इन्द्रियार्थारतिच्छेत्ता विद्यैकव्यसनावहः ॥ 99 ॥
आत्मानुकूल्यरुचिकृदखिलार्तिविनाशकः ।
तितीर्षुहृत्त्वरावेदी गुरुसद्भक्तितेजसः ॥ 100 ॥
गुरुसम्बन्धघटको गुरुविश्वासवर्धनः ।
गुरूपासनसन्धाता गुरुप्रेमप्रवर्धनः ॥ 101 ॥
आचार्याभिमतैर्योक्ता पञ्चसंस्कृतिभावनः ।
गुरूक्तवृत्तिनैश्चल्यसन्धाताऽवहितस्थितिः ॥ 102 ॥
आपन्नाखिलरक्षार्थमाचार्यकमुपाश्रितः ।
शास्त्रपाणिप्रदानेन भवमग्नान्समुद्धरन् ॥ 103 ॥
पाञ्चकालिकधर्मेषु नैश्चल्यं प्रतिपादयन् ।
स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकः ॥ 104 ॥
न्यासविद्याविनिर्वोढा न्यस्तात्मभररक्षकः ।
स्वकैङ्कर्यैकरुचिदस्स्वदास्यप्रेमवर्धनः ॥ 105 ॥
आचार्यार्थाखिलद्रव्यसम्भृत्यर्पणरोचकः ।
आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदः ॥ 106 ॥
आगत्ययोजयनासहितैककृतिजागरः ।
ब्रह्मविद्यासमास्वादसुहितः कृतिसंस्कृतिः ॥ 107 ॥
सत्कारे विषधीदाता तरुण्यां शवबुद्धिदः ।
सभाम्प्रत्याययन्व्यालीं सर्वत्र समबुद्धिदः ॥ 108 ॥
सम्भाविताशेषदोषहृत्पुनर्न्यासरोचकः ।
महाविश्वाससन्धाता स्थैर्यदाता मदापहः ॥ 109 ॥
नादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदः ।
स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयः ॥ 110 ॥
अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनः ।
व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितिः ॥ 111 ॥
स्वभक्तस्तुतिसन्तुष्टो भूयोभक्तिप्रदायकः ।
सात्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियः ॥ 112 ॥
निरन्तरानुस्मरणनिजदासैवादास्यकृत् ।
निष्कामवत्सलो नैच्यभावनेषु विनिर्विशन् ॥ 113 ॥
सर्वभूतभवद्भावं सम्पश्यत्सुसदास्थितः ।
करणत्रयसारूप्यकल्याणपतिसादरः ॥ 114 ॥
कदा कदेति कैङ्कर्यकामिनां शेषिताम्भजन ।
परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहः ॥ 115 ॥
चन्द्रमण्डलमध्यस्य श्वेताम्भोरुहविष्टरः ।
ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमाः ॥ 116 ॥
भाव्यो भावयिता भद्रं पारिजातवनालयः ।
क्षीराब्धिमध्यमद्वीपपालकः प्रपितामहः ॥ 117 ॥
निरन्तरनमोवाकशुद्धयाजिहदाश्रयः ।
मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनः ॥ 118 ॥
गरुडाहारितश्वेतमृत्पूतयदुभूधरः ।
भद्राश्ववर्षनिलयो भयहारी शुभाश्रयः ॥ 119 ॥
भद्रश्रीवत्सहाराढ्यः पञ्चरात्रप्रवर्तकः ।
भक्तात्मभावभवनो हार्दोऽङ्गुष्ठप्रमाणवान् ॥ 120 ॥
स्वदाससत्कृताकृत्ये तन्मित्रारिषु योजयन् ।
प्राणानुत्क्रामयन्नूरीकृतप्रारब्धलोपनः ॥ 121 ॥
लध्व्यैव शिक्षयापापमशेषमपि निर्णुदन् ।
त्रिस्थूणक्षोभतो भूतसूक्ष्म्यैस्सूक्ष्मवपुस्सृजन् ॥ 122 ॥
निरङ्कुशकृपापूरो नित्यकल्याणकारकः ।
मूर्धन्यनाड्या स्वान्दासान्ब्रह्मरन्ध्रादुदञ्चयन् ॥ 123 ॥
उपासनपरान्सर्वान् प्रारब्धमनुभावयन् ।
सर्वप्रारब्धदेहान्तेऽप्यन्तिमस्मरणं दिशन् ॥ 124 ॥
प्रपेयुषां भेजुषां च यमदृष्टिमभावयन् ।
दिव्यदेहप्रदस्सूर्यं द्वारयन्मोक्षमेयुषाम् ॥ 125 ॥
आतिवाहिकसत्कारानध्वन्यापाद्य मानयन् ।
सार्वान्क्रतुभुजश्शश्वत्प्राभृतानि प्रदापयन् ॥ 126 ॥
दुरन्तमायाकान्तारं द्रुतं योगेन् लङ्घयन् ।
स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयन् ॥ 127 ॥
सीमान्तसिन्धुविरजां योगेनोत्तारयन्वशी ।
अमानवस्य देवस्य करं शिरसि धारयन् ॥ 128 ॥
अनादिवासनां धून्वन् वैकुण्ठाप्त्या सलोकयन् ।
अहेयमङ्गलोदारतनुदानात्सरूपयन ॥ 129 ॥
सूरिजुष्टं सुखैकान्तं परमं पदमापयन् ।
अरारण्यामृताम्भोधी दर्शयन् श्रमनाशनः ॥ 130 ॥
दिव्योद्यानसरोवापीसरिन्मणिनगान्नयन ।
ऐरम्मदामृतसरोगमयन्सूपबृंहणः ॥ 131 ॥
अश्वत्थं सोमसवनं प्रापयन्विष्टरश्रवाः ।
दिव्याप्सरस्समानीतब्रह्मालङ्कारदायकः ॥ 132 ॥
दिव्यवासोऽञ्जनक्षौममाल्यैस्स्वान्बहुमानयन् ।
स्वीयामयोध्यां नगरीं सादरं सम्प्रवेशयन् ॥ 133 ॥
दासान्दिव्यरसालोकगन्धांसलशरीरयन् ।
स्वदासान्सूरिवर्गेण सस्नेहं बहुमानयन् ॥ 134 ॥
सूरिसेवोदितानन्दनैच्यान्स्वानतिशाययन् ।
वाचयन्स्वां नमोवीप्सां कुर्वन्प्रह्वान्कृताञ्जलीन् ॥ 135 ॥
प्राकारगोपुरारामप्रासादेभ्यः प्रणामयन् ।
इन्द्रप्रजापतिद्वारपालसम्मानमापयन् ॥ 136 ॥
मालिकाञ्चन्महाराजवीथीमध्यं निवासयन् ।
श्रीवैकुण्ठपुरन्ध्रीभिर्नानासत्कारकारकः ॥ 137 ॥
दिव्यं विमानं गमयन् ब्रह्मकान्त्याभिपूरयन् ।
महानन्दात्मकश्रीमन्मणिमण्डपमापयन् ॥ 138 ॥
हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयन् ।
सेनेशचोदितास्थाननायको हेतिनायकः ॥ 139 ॥
प्रापयन्दिव्यमास्थानं वैनतेयं प्रणामयन् ।
श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयन् ॥ 140 ॥
भास्वरासनपर्यङ्कप्रापणेन कृतार्थयन् ।
पर्यङ्कविद्यासंसिद्धसर्ववैभवसङ्गतः ॥ 141 ॥
स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयन् ।
शेषतैकरतिं शेषं शय्यात्मानं प्रणामयन् ॥ 142 ॥
अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयन् ।
अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयन् ॥ 143 ॥
अतटानन्दतो हेतो रञ्चयन्किलिकिञ्चितम् ।
दासानत्युत्थितमुहुःकृतिसृष्टिप्रसन्नहृत् ॥ 144 ॥
श्रीयां प्रापस्वयं तातं जीवं पुत्रं प्रहर्षयन् ।
मज्जयन् स्वमुखाम्भोधौ स्वकां कीर्तिरुचिं दिशन् ॥ 145 ॥
दयार्द्रगङ्गावलनाकृतह्लादैः कृतार्थयन् ।
पर्यङ्कारोहणप्रह्वं समं लक्ष्म्योपपादयन् ॥ 146 ॥
कस्त्वमित्यनुयुञ्जानो दासोऽस्मीत्युक्तिविस्मितः ।
अपृथक्त्वप्रकारोऽस्मि वाचास्वाश्रितवद्भवन् ॥ 147 ॥
विदुषां तत्क्रतुनयाद्धयास्यवपुषाभवन् ।
वासुदेवात्मना भूयो भवन्वैकुण्ठनायकः ॥ 148 ॥
यथा तथैव स्वं रूपं जगन्मोहनमूर्तिमान् ।
द्विमूर्ती बहुमूर्तीश्च आत्मनश्च प्रकाशयन् ॥ 149 ॥
युगपत्सकलं साक्षात्स्वतः कर्तुं समर्थयन् ।
कवीनामादिशन्नित्यं मुक्तानामादिमः कविः ॥ 150 ॥
षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशन् ।
द्वादशाक्षरनिष्ठानां लोकं सान्तानिकं दिशन् ॥ 151 ॥
अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयन् ।
शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयन् ॥ 152 ॥
स्वमन्त्रराजनिष्ठानां स्वस्मार्दातेशयं दिशन् ।
श्रिया गाढोपगूढात्मा भूतधात्रीरुचिं दिशन् ॥ 153 ॥
नीलाविभूतिव्यामुग्धो महाश्वेताश्वमस्तकः ।
त्र्यक्षस्त्रिपुरसंहारी रुद्रस्स्कन्दो विनायकः ॥ 154 ॥
अजो विरिञ्चो द्रुहिणो व्याप्तमूर्तिरमूर्तिकः ।
असङ्गोऽनन्यधीसङ्गविहङ्गोवैरिभङ्गदः ॥ 155 ॥
स्वामी स्वं स्वेन सन्तुप्यन् शक्रस्सर्वाधिकस्यदः ।
स्वयञ्ज्योतिस्स्वयंवैद्यश्शूरश्शूरकुलोद्भवः ॥ 156 ॥
वासवो वसुरण्योग्निर्वासुदेवस्सुहृद्वसुः ।
भूतो भावी भवन्भव्यो विष्णुस्थानस्सनातनः ॥ 157 ॥
नित्यानुभावो नेदीयान्दवीयान्दुर्विभावनः ।
सनत्कुमारस्सन्धाता सुगन्धिस्सुखदर्शनः ॥ 158 ॥
तीर्थं तितिक्षुस्तीर्थाङ्घ्रिस्तीर्थस्वादुशुभश्शुचिः ।
तीर्थवद्दीधितिस्तिग्मतेजास्तीव्रमनामयः ॥ 159 ॥
ईशाद्युपनिषद्वेद्यः पञ्चोपनिषदात्मकः ।
ईडन्तःस्थोऽपि दूरस्थः कल्याणतमरूपवान् ॥ 160 ॥
प्राणानां प्राणनः पूर्णज्ञानैरपि सुदुर्ग्रहः ।
नाचिकेतोपासनार्च्यस्त्रिमात्रप्रणवोदितः ॥ 161 ॥
भूतयोनिश्च सर्वज्ञोऽक्षरोऽक्षरपरात्परः ।
अकारादिपदज्ञेयव्यूहतारार्थपूरुषः ॥ 162 ॥
मनोमयामृतो नन्दमयो दहररूपदृत् ।
न्यासविद्यावेद्यरूपः आदित्यान्तर्हिरण्मयः ॥ 163 ॥
इदन्द्र आत्मोद्गीथादि प्रतीको पासनान्वयी ।
मधुविद्योपासनीयो गायत्रीध्यानगोचरः ॥ 164 ॥
दिव्यकौक्षेयसज्ज्योतिः शाण्डिल्योपास्तिवीक्षितः ।
संवर्गविद्यावेद्यात्मा तत् षोडशकलं परम् ॥ 165 ॥
उपकोसलविद्येक्ष्यः पञ्चाग्न्यात्मशरीरकः ।
वैश्वानरः सदखेभूमा च जगत्कर्माऽदिपूरुषः ॥ 166 ॥
मूर्तामूर्तब्रह्म सर्वप्रेष्ठोऽन्यप्रियताकरः ।
सर्वान्तरश्चापरोक्षश्चान्तर्याम्यमृतोऽनघः ॥ 167 ॥
अहर्नामादित्यरूपश्चाहन्नामाक्षिसंश्रितः ।
सतुर्यगायत्र्यर्थश्च यथोपास्त्याप्यसद्वपुः ॥ 168 ॥
चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचरः ।
न्यासनाश्यानभ्युपेतप्रारब्धांशो महादयः ॥ 169 ॥
अवताररहस्यादिज्ञानिप्रारब्धनाशनः ।
स्वेन स्वार्थं परेणापि कृते न्यासे फलप्रदः ॥ 170 ॥
असाहसोऽनपायश्रीस्सहायस्स श्रियै वसन् ।
श्रीमान्नारायणो वासुदेवोऽव्याद्विष्णुरुत्तमः ॥ 171 ॥
॥ ओम् ॥
इतीदं परमं गुह्यं सर्वपापप्रणाशनम् ।
वागीशनामसाहस्रं वत्स तेऽभिहितं मया ॥ 1 ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा स्वयं पठत् ।
नासौ प्राप्नोति दुरितमिहामुत्र च किञ्चन ॥ 2 ॥
तदिदं प्रजपन् स्वामी विद्याधीशो हयाननः ।
क्षत्रियश्चेन्महारुद्रो विक्रमाक्रान्तसर्वभूः ॥ 3 ॥
महोदारो महाकीर्तिर्महितो विजयी भवेत् ।
ऊरुजश्चेदुरुयशोधनधान्यसमृद्धिमान् ॥ 4 ॥
अशेषभोगसम्भूतो धनाधिपसमो भवेत् ।
शृणुयादेव वृषलस्स्वयं विप्रात्सुपूजितात् ॥ 5 ॥
महिमानमवाप्नोति महितैश्वर्यभाजनम् ।
श्रीमतो हयशीर्षस्य नाम्नां साहस्रमुत्तमम् ॥ 6 ॥
शृण्वन्पठन्नपि नरस्सर्वान्कामानवाप्नुयात् ।
धर्मार्थकामसन्तानभाग्यारोग्योत्तमायुषाम् ॥ 7 ॥
प्रापणे परमो हेतुः स्तवराजोऽयमद्भुतः ।
हयग्रीवे परा भक्तिमुद्वहन् य इमं पठेत् ॥ 8 ॥
त्रिसन्ध्यं नियतश्शुद्धस्सोऽपवर्गाय कल्पते ।
त्रिः पठन्नामसाहस्रं प्रत्यहं वागधीशितुः ॥ 9 ॥
महतीं कीर्तिमाप्नोति निस्सीमां प्रेयसीं प्रियाम् ।
वीर्यं बलं पतित्वं च मेधाश्रद्धावलोन्नतीः ॥ 10 ॥
सारस्वतसमृद्धिं च भव्यान्भोग्यान्नतान्सुतान् ।
अभिरूपां वधूं साध्वीं सुहृदश्च हितैषिणः ॥ 11 ॥
ब्रह्मविद्याप्रवचनैः कालक्षेपं च सन्ततम् ।
हयग्रीवपदाम्भोज सलिलस्यानुकूलतः ॥ 12 ॥
लभेत निर्मलं शान्तो हंसोपासनतत्परः ।
श्रीमत्परमहंसस्य चित्तोल्लासनसद्विधौ ॥ 13 ॥
इदं तु नाम्नां साहस्रमिष्टसाधनमुत्तमम् ।
पापी पापाद्विमुक्तस्स्याद्रोगी रोगाद्विमुच्यते ॥ 14 ॥
बद्धो बन्धाद्विमुच्येत भीते भीतिर्विमुच्यते ।
मुक्तो दरिद्रो दारिद्र्याद्भवेत्पूर्णमनोरथः ॥ 15 ॥
आपन्न आपदा मुक्तो भवत्येव न संशयः ।
हंसार्चनपरो नित्यं हंसार्चनपरायणः ॥ 16 ॥
निर्धूतकल्मषो नित्यं ब्रह्मसायुज्यमाप्नुयात् ।
ये भक्त्या परमे हंसे श्रिया मिथुनिताङ्गिते ॥ 17 ॥
जन्मव्याधिजरानाशभयभाजो न ते जनाः ।
आचार्यात्तदिदं स्तोत्रमधिगत्य पठेन्नरः ॥ 18 ॥
तस्येदं कल्पते सिद्ध्यै नान्यथा वत्स काश्यप ।
आचार्यं लक्षणैर्युक्तमन्यं वाऽत्मविदुत्तमम् ॥ 19 ॥
वृत्वाचार्यं सदा भक्त्या सिद्ध्यै तदिदमश्नुयात् ।
स याति परमां विद्यां शकुनिब्रह्महर्षणीम् ॥ 20 ॥
हयास्यनामसाहस्रस्तुतिरंहोविनाशिनी ।
परमो हंस एवादौ प्रणवं ब्रह्मणे दिशत् ॥ 21 ॥
उपादिशत्ततो वेदान् श्रीमान हयशिरो हरिः ।
तेनासौ स्तवराजो हि हंसाख्यहयगोचरः ॥ 22 ॥
विद्यासाम्राज्यसम्पत्तिमोक्षैकफलसाधनम् ।
सर्ववित्स्वात्मभावेन परमं पदमाप्नुयात् ॥ 23 ॥
न तत्र संशयः कश्चिन्निपुणं परिपश्यति ।
तथापि स्वात्मनि प्रेमसिन्धुसन्धुक्षणक्षमः. ॥ 24 ॥
इतीदं नामसाहस्रं सङ्गृहीतं तथोत्तरम् ।
एवं सङ्गृह्य देवेन हयग्रीवेण पालनम् ॥ 25 ॥
स्तोत्ररत्नमिदं दत्तं मह्यं तत् कथितं तव ।
हंसनामसहस्रस्य वैभवं परमाद्भुतम् ॥ 26 ॥
वक्तुं यथावत्कश्शक्तो वर्षकोटिशतैरपि ।
हयास्यः परमो हंसो हरिर्नारायणोऽव्ययः ॥ 27 ॥
कारणं शरणं मृत्युरमृतं चाखिलात्मनाम् ।
सत्यं सत्यं पुनस्सत्यं ध्येयो नारायणो हरिः ॥ 28 ॥
समानमधिकं वेदान्न दैवं केशवात्परम् ।
तत्त्वं विज्ञातुकामानां प्रमाणैस्सर्वतोमुखैः ॥ 29 ॥
तत्त्वं स परमो हंस एक एव जनार्दनः ।
इदं रहस्यं परमं महापातकनाशनम् ॥ 30 ॥
न चाशुश्रूषवे वाच्यं नाभक्ताय कदाचन ।
नाप्यन्यदेवतायापि न वाच्यं नास्तिकाय च ॥ 31 ॥
अधीत्यैतद्गुरुमुखादन्वहं यः पठेन्नरः ।
तद्वंश्या अपि सर्वे स्युस्सम्पत्सारस्वतोन्नताः ॥ 32 ॥
इति हयवदनाननारविन्दान्मधुलहरीव निरर्गला गलन्ती ।
जगति दशशतीतदीयनाम्नां जयति जडानपि गीर्षु योजयन्ती ॥ 33 ॥
॥ इति श्रीहयग्रीवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
प्रायः पृष्टाः प्रश्नाः
What is श्री हयग्रीव सहस्र नाम स्तोत्रम्?
श्री हयग्रीव सहस्र नाम स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री हयग्रीव सहस्र नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री हयग्रीव सहस्र नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.