श्री गुरुगीता तृतीयोध्यायः
अथ तृतीयोऽध्यायः ॥
अथ काम्यजपस्थानं कथयामि वरानने ।
सागरान्ते सरित्तीरे तीर्थे हरिहरालये ॥ 236 ॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे बृन्दावने तथा ॥ 237 ॥
पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत् ॥ 238 ॥
जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गर्हितस्थानमेव च ॥ 239 ॥
श्मशाने बिल्वमूले वा वटमूलान्तिके तथा ।
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ॥ 240 ॥
पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ॥ 241 ॥
जपं हीनासनं कुर्वन् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ॥ 242 ॥
जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ॥ 243 ॥
गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नाऽन्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ॥ 244 ॥
भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ 245 ॥
स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ 246 ॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ॥ 247 ॥
आसनस्थाः शयाना वा गच्छन्तस्तिष्ठतोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ॥ 248 ॥
शुचिर्भूता ज्ञानवन्तो गुरुगीतां जपन्ति ये ।
तेषां दर्शनसंस्पर्शात् दिव्यज्ञानं प्रजायते ॥ 249 ॥
समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुम्भे यथाऽऽकाशं तथाऽऽत्मा परमात्मनि ॥ 250 ॥
तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ॥ 251 ॥
एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ॥ 252 ॥
गुरुसन्तोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ॥ 253 ॥
साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ॥ 254 ॥
अथ संसारिणः सर्वे गुरुगीता जपेन तु ।
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ॥ 255 ॥
सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ॥ 256 ॥
गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ॥ 257 ॥
धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ॥ 258 ॥
आकल्पजन्म कोटीनां यज्ञव्रततपः क्रियाः ।
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ॥ 259 ॥
शरीरमिन्द्रियं प्राणमर्थं स्वजनबन्धुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः ॥ 260 ॥
मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यन्ते नरकेऽशुचौ ॥ 261 ॥
विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वति ॥ 262 ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवाश्च पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ॥ 263 ॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ॥ 264 ॥
कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः ।
अतः परं मया देवि कथितं न मम प्रिये ॥ 265 ॥
इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ॥ 266 ॥
स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ॥ 267 ॥
अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ॥ 268 ॥
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ॥ 269 ॥
चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ॥ 270 ॥
गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ॥ 271 ॥
सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ॥ 272 ॥
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ॥ 273 ॥
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ॥ 274 ॥
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ॥ 275 ॥
मोहमारणवश्यादितुच्छमन्त्रोपदेशिनम् ।
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ॥ 276 ॥
अनित्यमिति निर्दिश्य संसारं सङ्कटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ॥ 277 ॥
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ॥ 278 ॥
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ॥ 279 ॥
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ॥ 280 ॥
एवं बहुविधा लोके गुरवः सन्ति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ॥ 281 ॥
निषिद्धगुरुशिष्यस्तु दुष्टसङ्कल्पदूषितः ।
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ॥ 282 ॥
एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यन्तविह्वलमनाः शङ्करं परिपृच्छति ॥ 283 ॥
पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किञ्चिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ॥ 284 ॥
स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ॥ 285 ॥
श्री महादेव उवाच ।
शृणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ॥ 286 ॥
अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ॥ 287 ॥
जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजाऽयं परमो गुरुः ॥ 288 ॥
मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ॥ 289 ॥
सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी ।
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ॥ 290 ॥
द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ॥ 291 ॥
यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ॥ 292 ॥
सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् ।
तुच्छाकारमनोवृत्तिः यस्यासौ परमो गुरुः ॥ 293 ॥
स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ॥ 294 ॥
मौनी वाग्मीति तत्त्वज्ञो द्विधाऽभूच्छृणु पार्वति ।
न कश्चिन्मौनिनां लोभो लोकेऽस्मिन्भवति प्रिये ॥ 295 ॥
वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोऽसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ॥ 296 ॥
गुरुनामजपाद्देवि बहुजन्मार्जितान्यपि ।
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ॥ 297 ॥
श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ॥ 298 ॥
कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे ।
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ॥ 299 ॥
कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ॥ 300 ॥
गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तद्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ॥ 301 ॥
स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिकं देवि सकलं बालजल्पवत् ॥ 302 ॥
शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं दैवमिति ज्ञात्वा विवदन्ति वृथा नराः ॥ 303 ॥
न जानन्ति परं तत्त्वं गुरुदीक्षापराङ्मुखाः ।
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ॥ 304 ॥
तस्मात्कैवल्यसिद्ध्यर्थं गुरुमेव भजेत्प्रिये ।
गुरुं विना न जानन्ति मूढास्तत्परमं पदम् ॥ 305 ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते सर्वकर्माणि गुरोः करुणया शिवे ॥ 306 ॥
कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोरात् गुरुभक्तो विशेषतः ॥ 307 ॥
दुस्सङ्गं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ॥ 308 ॥
चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ॥ 309 ॥
एतल्लक्षणयुक्तत्वं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ॥ 310 ॥
क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मन्त्रदीक्षाभिधं साङ्गोपाङ्गं सर्वं शिवोदितम् ॥ 311 ॥
क्रियया स्याद्विरहितां गुरुसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ॥ 312 ॥
शक्तो न चापि शक्तो वा दैशिकाङ्घ्रि समाश्रयेत् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ॥ 313 ॥
अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ॥ 314 ॥
रहस्यं सर्वशास्त्रेषु गीताशास्त्रमिदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य महात्मनः ॥ 315 ॥
सत्कर्मपरिपाकाच्च चित्तशुद्धिश्च धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ॥ 316 ॥
नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन ॥ 317 ॥
स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ॥ 318 ॥
सर्वपापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ॥ 319 ॥
श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ॥ 320 ॥
बहुजन्मकृतात्पापादयमर्थो न रोचते ।
जन्मबन्धनिवृत्त्यर्थं गुरुमेव भजेत्सदा ॥ 321 ॥
अहमेव जगत्सर्वमहमेव परं पदम् ।
एतद्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ॥ 322 ॥
अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव केवलम् ॥ 323 ॥
यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसो न च स्त्री ॥ 324 ॥
नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥ 325 ॥
नित्याय सत्याय चिदात्मकाय
नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरञ्जनाय
नमोऽस्तु नित्यं गुरुशेखराय ॥ 326 ॥
सच्चिदानन्दरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ 327 ॥
सत्यानन्दस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ 328 ॥
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ 329 ॥
नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ 330 ॥
स्वतन्त्राय दयाक्लुप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ 331 ॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ 332 ॥
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ 333 ॥
श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ॥ 334 ॥
नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् ॥ 335 ॥
नानायुक्तोपदेशेन तारिता शिष्यसन्ततिः ।
तत्कृपासारवेदेन गुरुचित्पदमच्युतम् ॥ 336 ॥
[पाठभेदः –
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
स्वारामोक्तपदेच्छूनां दत्तं येनाच्युतं पदम् ॥
]
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ॥ 337 ॥
नमोऽच्युताय गुरवेऽज्ञानध्वान्तैकभानवे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ॥ 338 ॥
ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ॥ 339 ॥
गुरुनामसमं दैवं न पिता न च बान्धवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम् ॥ 340 ॥
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ॥ 341 ॥
गुरुत्यागाद्भवेन्मृत्युः मन्त्रत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ॥ 342 ॥
शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत् ॥ 343 ॥
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ 344 ॥
सप्तकोटिमहामन्त्राश्चित्तविभ्रमकारकाः ।
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ॥ 345 ॥
एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं शृणु देवि सुखावहम् ॥ 346 ॥
गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तं न वदेद्यस्य कस्यचित् ॥ 347 ॥
न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ॥ 348 ॥
गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ॥ 349 ॥
रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ॥ 350 ॥
यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ 351 ॥
अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ॥ 352 ॥
इति श्रीस्कन्दपुराणे उत्तरखण्डे उमामहेश्वर संवादे श्री गुरुगीता समाप्त ॥
मङ्गलं
मङ्गलं गुरुदेवाय महनीयगुणात्मने ।
सर्वलोकशरण्याय साधुरूपाय मङ्गलम् ॥
प्रायः पृष्टाः प्रश्नाः
What is श्री गुरुगीता तृतीयोध्यायः?
श्री गुरुगीता तृतीयोध्यायः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री गुरुगीता तृतीयोध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री गुरुगीता तृतीयोध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.