श्री दक्षिण काली खद्गमाला स्तोत्रं
अस्य श्रीदक्षिणकालिका खड्गमालामन्त्रस्य श्री भगवान् महाकालभैरव ऋषिः उष्णिक् छन्दः शुद्धः ककार त्रिपञ्चभट्टारकपीठस्थित महाकालेश्वराङ्कनिलया, महाकालेश्वरी त्रिगुणात्मिका श्रीमद्दक्षिणा कालिका महाभयहारिका देवता क्रीं बीजं ह्रीं शक्तिः हूं कीलकं मम सर्वाभीष्टसिद्ध्यर्थे खड्गमालामन्त्र जपे विनियोगः ॥
ऋष्यादि न्यासः
ॐ महाकालभैरव ऋषये नमः शिरसि ।
उष्णिक् छन्दसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
क्रीं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
हूं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
करन्यासः
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुम् ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ।
ध्यानम्
सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं
घोरास्यां शिरसि स्रजा सुरुचिरानुन्मुक्त केशावलिम् ।
सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं
श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ 1 ॥
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ 2 ॥
लमित्यादि पञ्चपूजाः
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पं समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ।
अथ खड्गमाला
ॐ ऐं ह्रीं श्रीं क्रीं हूं ह्रीं श्रीमद्दक्षिणकालिके, हृदयदेवि सिद्धिकालिकामयि, शिरोदेवि महाकालिकामयि, शिखादेवि गुह्यकालिकामयि, कवचदेवि श्मशानकालिकामयि, नेत्रदेवि भद्रकालिकामयि, अस्त्रदेवि श्रीमद्दक्षिणकालिकामयि, सर्वसम्पत्प्रदायक चक्रस्वामिनि । जया सिद्धिमयि, अपराजिता सिद्धिमयि, नित्या सिद्धिमयि, अघोरा सिद्धिमयि, सर्वमङ्गलमयचक्रस्वामिनि । श्रीगुरुमयि, परमगुरुमयि, परात्परगुरुमयि, परमेष्ठिगुरुमयि, सर्वसम्पत्प्रदायकचक्रस्वामिनि । महादेव्यम्बामयि, महादेवानन्दनाथमयि, त्रिपुराम्बामयि, त्रिपुरभैरवानन्दनाथमयि, ब्रह्मानन्दनाथमयि, पूर्वदेवानन्दनाथमयि, चलच्चितानन्दनाथमयि, लोचनानन्दनाथमयि, कुमारानन्दनाथमयि, क्रोधानन्दनाथमयि, वरदानन्दनाथमयि, स्मराद्वीर्यानन्दनाथमयि, मायाम्बामयि, मायावत्यम्बामयि, विमलानन्दनाथमयि, कुशलानन्दनाथमयि, भीमसुरानन्दनाथमयि, सुधाकरानन्दनाथमयि, मीनानन्दनाथमयि, गोरक्षकानन्दनाथमयि, भोजदेवानन्दनाथमयि, प्रजापत्यानन्दनाथमयि, मूलदेवानन्दनाथमयि, ग्रन्थिदेवानन्दनाथमयि, विघ्नेश्वरानन्दनाथमयि, हुताशनानन्दनाथमयि, समरानन्दनाथमयि, सन्तोषानन्दनाथमयि, सर्वसम्पत्प्रदायकचक्रस्वामिनि । कालि, कपालिनि, कुल्ले, कुरुकुल्ले, विरोधिनि, विप्रचित्ते, उग्रे, उग्रप्रभे, दीप्ते, नीले, घने, बलाके, मात्रे, मुद्रे, मित्रे, सर्वेप्सितफलप्रदायकचक्रस्वामिनि । ब्राह्मि, नारायणि, माहेश्वरि, चामुण्डे, कौमारि, अपराजिते, वाराहि, नारसिंहि, त्रैलोक्यमोहनचक्रस्वामिनि । असिताङ्गभैरवमयि, रुरुभैरवमयि, चण्डभैरवमयि, क्रोधभैरवमयि, उन्मत्तभैरवमयि, कपालिभैरवमयि, भीषणभैरवमयि, संहारभैरवमयि, सर्वसङ्क्षोभण चक्रस्वामिनि । हेतुवटुकानन्दनाथमयि, त्रिपुरान्तकवटुकानन्दनाथमयि, वेतालवटुकानन्दनाथमयि, वह्निजिह्ववटुकानन्दनाथमयि, कालवटुकानन्दनाथमयि, करालवटुकानन्दनाथमयि, एकपादवटुकानन्दनाथमयि, भीमवटुकानन्दनाथमयि, सर्वसौभाग्यदायकचक्रस्वामिनि । ॐ ऐं ह्रीं क्लीं हूं फट् स्वाहा सिंहव्याघ्रमुखी योगिनिदेवीमयि, सर्पासुमुखी योगिनिदेवीमयि, मृगमेषमुखी योगिनिदेवीमयि, गजवाजिमुखी योगिनिदेवीमयि, बिडालमुखी योगिनिदेवीमयि, क्रोष्टासुमुखी योगिनिदेवीमयि, लम्बोदरी योगिनिदेवीमयि, ह्रस्वजङ्घा योगिनिदेवीमयि, तालजङ्घा योगिनिदेवीमयि, प्रलम्बोष्ठी योगिनिदेवीमयि, सर्वार्थदायकचक्रस्वामिनि । ॐ ऐं ह्रीं श्रीं क्रीं हूं ह्रीं इन्द्रमयि, अग्निमयि, यममयि, निरृतिमयि, वरुणमयि, वायुमयि, कुबेरमयि, ईशानमयि, ब्रह्ममयि, अनन्तमयि, वज्रिणि, शक्तिनि, दण्डिनि, खड्गिनि, पाशिनि, अङ्कुशिनि, गदिनि, त्रिशूलिनि, पद्मिनि, चक्रिणि, सर्वरक्षाकरचक्रस्वामिनि । खड्गमयि, मुण्डमयि, वरमयि, अभयमयि, सर्वाशापरिपूरकचक्रस्वामिनि । वटुकानन्दनाथमयि, योगिनिमयि, क्षेत्रपालानन्दनाथमयि, गणनाथानन्दनाथमयि, सर्वभूतानन्दनाथमयि, सर्वसङ्क्षोभणचक्रस्वामिनि । नमस्ते नमस्ते फट् स्वाहा ॥
चतुरस्त्राद्बहिः सम्यक् संस्थिताश्च समन्ततः ।
ते च सम्पूजिताः सन्तु देवाः देवि गृहे स्थिताः ॥
सिद्धाः साध्याः भैरवाश्च गन्धर्वा वसवोऽश्विनौ ।
मुनयो ग्रहास्तुष्यन्तु विश्वेदेवाश्च उष्मयाः ॥
रुद्रादित्याश्च पितरः पन्नगाः यक्षचारणाः ।
योगेश्वरोपासका ये तुष्यन्ति नरकिन्नराः ॥
नागा वा दानवेन्द्राश्च भूतप्रेतपिशाचकाः ।
अस्त्राणि सर्वशस्त्राणि मन्त्र यन्त्रार्चन क्रियाः ॥
शान्तिं कुरु महामाये सर्वसिद्धिप्रदायिके ।
सर्वसिद्धिमयचक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥
सर्वज्ञे सर्वशक्ते सर्वार्थप्रदे शिवे सर्वमङ्गलमये सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वमङ्गलदायक चक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥
क्रीं ह्रीं हूं क्ष्म्यूं महाकालाय, हौं महादेवाय, क्रीं कालिकायै, हौं महादेव महाकाल सर्वसिद्धिप्रदायक देवी भगवती चण्डचण्डिका चण्डचितात्मा प्रीणातु दक्षिणकालिकायै सर्वज्ञे सर्वशक्ते श्रीमहाकालसहिते श्रीदक्षिणकालिकायै नमस्ते नमस्ते फट् स्वाहा ।
ह्रीं हूं क्रीं श्रीं ह्रीं ऐं ओम् ॥
इति श्रीरुद्रयामले दक्षिणकालिका खड्गमाला स्तोत्रम् ।
प्रायः पृष्टाः प्रश्नाः
What is श्री दक्षिण काली खद्गमाला स्तोत्रं?
श्री दक्षिण काली खद्गमाला स्तोत्रं is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री दक्षिण काली खद्गमाला स्तोत्रं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री दक्षिण काली खद्गमाला स्तोत्रं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.