श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं
श्री पार्वत्युवाच
नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भोस्सद्यश्शत्रुनिकृन्तनम् ॥ 1 ॥
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ 2 ॥
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।
श्री सदाशिव उवाच
अष्टोत्तरशतं नाम्नां पठ्यते तेन सर्वदा ॥ 3 ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।
ॐ अस्य श्रीछिन्नमस्तादेव्यष्टोत्तर शतनाम स्तोत्रमहामन्त्रस्य सदाशिव
ऋषिः अनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः ॥
ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ 4 ॥
महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ 5 ॥
कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ 6 ॥
डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ 7 ॥
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ।
प्रेतासना प्रेतयुता प्रेतसङ्गविहारिणी ॥ 8 ॥
छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिः घोररावा घनोदरी ॥ 9 ॥
योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ 10 ॥
योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ 11 ॥
कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ 12 ॥
भवानी भूतिदा भूतिर्भूतिधात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ 13 ॥
भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ 14 ॥
भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ 15 ॥
सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ 16 ॥
शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ 17 ॥
शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदानतुरा ॥ 18 ॥
इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ 19 ॥
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ 20 ॥
स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ 21 ॥
महोत्तमं स्तोत्रमिदं वरानने
मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा
भवेन्न तेषां रिपुभिः पराजयः ॥ 22 ॥
इति श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् ॥
प्रायः पृष्टाः प्रश्नाः
What is श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं?
श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.