श्यामला दण्डकम्
ध्यानम्
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ 1 ॥
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ 2 ॥
विनियोगः
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात्कटाक्षं कल्याणी कदम्बवनवासिनी ॥ 3 ॥
स्तुति
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ 4 ॥
दण्डकम्
जय जननि सुधासमुद्रान्तरुद्यन्मणीद्वीपसंरूढ बिल्वाटवीमध्यकल्पद्रुमाकल्पकादम्बकान्तारवासप्रिये कृत्तिवासप्रिये सर्वलोकप्रिये, सादरारब्धसङ्गीतसम्भावनासम्भ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके, शेखरीभूतशीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते लोकसम्भाविते कामलीलाधनुस्सन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचने वाक्सुधासेचने चारुगोरोचनापङ्ककेलीललामाभिरामे सुरामे रमे, प्रोल्लसद्वालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासि लावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररेखासमुद्भूत सौरभ्यसम्भ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्त्रतन्त्रीस्वरे सुस्वरे भास्वरे, वल्लकीवादनप्रक्रियालोलतालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते सिद्धसम्मानिते, दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णैकनीलोत्पले श्यामले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले, स्वेदबिन्दूल्लसद्फाललावण्य निष्यन्दसन्दोहसन्देहकृन्नासिकामौक्तिके सर्वविश्वात्मिके सर्वसिद्ध्यात्मिके कालिके मुग्धमन्दस्मितोदारवक्त्रस्फुरत् पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसम्पत्करे पद्मभास्वत्करे श्रीकरे, कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोलकल्लोलसम्मेलन स्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे,
सुललित नवयौवनारम्भचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिम्बोकभृत्कन्थरे सत्कलामन्दिरे मन्थरे दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्योतमानानवद्याङ्गशोभे शुभे, रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोल्लताराजिते योगिभिः पूजिते विश्वदिङ्मण्डलव्याप्तमाणिक्यतेजस्स्फुरत्कङ्कणालङ्कृते विभ्रमालङ्कृते साधुभिः पूजिते वासरारम्भवेलासमुज्जृम्भ
माणारविन्दप्रतिद्वन्द्विपाणिद्वये सन्ततोद्यद्दये अद्वये दिव्यरत्नोर्मिकादीधितिस्तोम सन्ध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दुप्रभामण्डले सन्नुताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले,
तारकाराजिनीकाशहारावलिस्मेर चारुस्तनाभोगभारानमन्मध्यवल्लीवलिच्छेद वीचीसमुद्यत्समुल्लाससन्दर्शिताकारसौन्दर्यरत्नाकरे वल्लकीभृत्करे किङ्करश्रीकरे, हेमकुम्भोपमोत्तुङ्ग वक्षोजभारावनम्रे त्रिलोकावनम्रे लसद्वृत्तगम्भीर नाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे मञ्जुसम्भाषणे, चारुशिञ्चत्कटीसूत्रनिर्भत्सितानङ्गलीलधनुश्शिञ्चिनीडम्बरे दिव्यरत्नाम्बरे,
पद्मरागोल्लस न्मेखलामौक्तिकश्रोणिशोभाजितस्वर्णभूभृत्तले चन्द्रिकाशीतले विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्न चारूरुशोभापराभूतसिन्दूरशोणायमानेन्द्रमातङ्ग हस्तार्गले वैभवानर्गले श्यामले कोमलस्निग्ध नीलोत्पलोत्पादितानङ्गतूणीरशङ्काकरोदार जङ्घालते चारुलीलागते नम्रदिक्पालसीमन्तिनी कुन्तलस्निग्धनीलप्रभापुञ्चसञ्जातदुर्वाङ्कुराशङ्क सारङ्गसंयोगरिङ्खन्नखेन्दूज्ज्वले प्रोज्ज्वले निर्मले प्रह्व देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश यक्षेश वाय्वग्निकोटीरमाणिक्य संहृष्टबालातपोद्दाम लाक्षारसारुण्यतारुण्य लक्ष्मीगृहिताङ्घ्रिपद्मे सुपद्मे उमे,
सुरुचिरनवरत्नपीठस्थिते सुस्थिते रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते विश्रुते तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते मत्तमातङ्ग कन्यासमूहान्विते भैरवैरष्टभिर्वेष्टिते मञ्चुलामेनकाद्यङ्गनामानिते देवि वामादिभिः शक्तिभिस्सेविते धात्रि लक्ष्म्यादिशक्त्यष्टकैः संयुते मातृकामण्डलैर्मण्डिते यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्चिते, भैरवी संवृते पञ्चबाणात्मिके पञ्चबाणेन रत्या च सम्भाविते प्रीतिभाजा वसन्तेन चानन्दिते भक्तिभाजं परं श्रेयसे कल्पसे योगिनां मानसे द्योतसे छन्दसामोजसा भ्राजसे गीतविद्या विनोदाति तृष्णेन कृष्णेन सम्पूज्यसे भक्तिमच्चेतसा वेधसा स्तूयसे विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे, श्रवणहरदक्षिणक्वाणया वीणया किन्नरैर्गीयसे यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्च्यसे सर्वसौभाग्यवाञ्छावतीभिर् वधूभिस्सुराणां समाराध्यसे सर्वविद्याविशेषत्मकं चाटुगाथा समुच्चारणाकण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत् किंशुकं तं शुकं लालयन्ती परिक्रीडसे,
पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकञ्चङ्कुशं पाशमाबिभ्रती तेन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् येन वाध्वंसनादा कृतिर्भाव्यसे तस्य वश्या भवन्तिस्तियः पूरुषाः येन वा शातकम्बद्युतिर्भाव्यसे सोपि लक्ष्मीसहस्रैः परिक्रीडते, किन्न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः तस्य लीला सरोवारिधीः तस्य केलीवनं नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करि तस्य चाज्ञाकरी श्री स्वयं,
सर्वतीर्थात्मिके सर्व मन्त्रात्मिके, सर्व यन्त्रात्मिके सर्व तन्त्रात्मिके, सर्व चक्रात्मिके सर्व शक्त्यात्मिके, सर्व पीठात्मिके सर्व वेदात्मिके, सर्व विद्यात्मिके सर्व योगात्मिके, सर्व वर्णात्मिके सर्वगीतात्मिके, सर्व नादात्मिके सर्व शब्दात्मिके, सर्व विश्वात्मिके सर्व वर्गात्मिके, सर्व सर्वात्मिके सर्वगे सर्व रूपे, जगन्मातृके पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥
प्रायः पृष्टाः प्रश्नाः
What is श्यामला दण्डकम्?
श्यामला दण्डकम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read श्यामला दण्डकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्यामला दण्डकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.