शिव कवचम्


अथ शिवकचम्
अस्य श्री शिवकवच स्तोत्र महामन्त्रस्य ।
ऋषभ-योगीश्वर ऋषिः ।
अनुष्टुप् छन्दः ।
श्री-साम्बसदाशिवो देवता ।
ॐ बीजम् ।
नमः शक्तिः ।
शिवायेति कीलकम् ।
साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥

करन्यासः
ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः ।
नं गङ्गाधराय तर्जनीभ्यां नमः ।
मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः ।
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः ।
यं उमापतये करतलकरपृष्ठाभ्यां नमः ।

हृदयादि अङ्गन्यासः
ॐ सदाशिवाय हृदयाय नमः ।
नं गङ्गाधराय शिरसे स्वाहा ।
मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् ।
वां पिनाकपाणये नेत्रत्रयाय वौषट् ।
यं उमापतये अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकर-मत्युग्रं वन्दे शम्भुं उमापतिम् ॥
रुद्राक्ष-कङ्कण-लसत्कर-दण्डयुग्मः पालान्तरा-लसित-भस्मधृत-त्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराण-गुह्यं निःशेष-पापौघहरं पवित्रम् ।
जयप्रदं सर्व-विपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥

पञ्चपूजा
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपं आघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महा-नैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचार-पूजां समर्पयामि ॥

मन्त्रः

ऋषभ उवाच ।
नमस्कृत्य महादेवं विश्व-व्यापिन-मीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राण-श्चिन्तयेच्छिवमव्ययम् ॥ 2 ॥

हृत्पुण्डरीकान्तरसन्निविष्टं
स्वतेजसा व्याप्त-नभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं
ध्यायेत्परानन्दमयं महेशम् ॥ 3 ॥

ध्यानावधूताखिलकर्मबन्ध-
-श्चिरं चिदानन्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा
शैवेन कुर्यात्कवचेन रक्षाम् ॥ 4 ॥

मां पातु देवोऽखिलदेवतात्मा
संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं
धुनोतु मे सर्वमघं हृदिस्थम् ॥ 5 ॥

सर्वत्र मां रक्षतु विश्वमूर्ति-
-र्ज्योति-र्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः
स ईश्वरः पातु भयादशेषात् ॥ 6 ॥

यो भूस्वरूपेण बिभर्ति विश्वं
पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति
सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ 7 ॥

कल्पावसाने भुवनानि दग्ध्वा
सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्ने-
-र्वात्यादिभीते-रखिलाच्च तापात् ॥ 8 ॥

प्रदीप्त-विद्युत्कनकावभासो
विद्यावराभीति-कुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः
प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ 9 ॥

कुठार खेटाङ्कुशपाशशूल
कपालपाशाक्ष गुणान्दधानः ।
चतुर्मुखो नील-रुचिस्त्रिनेत्रः
पायादघोरो दिशि दक्षिणस्याम् ॥ 10 ॥

कुन्देन्दु-शङ्ख-स्फटिकावभासो
वेदाक्षमाला-वरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः
सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ 11 ॥

वराक्ष-मालाभयटङ्क-हस्तः
सरोज-किञ्जल्कसमानवर्णः ।
त्रिलोचन-श्चारुचतुर्मुखो मां
पायादुदीच्यां दिशि वामदेवः ॥ 12 ॥

वेदाभयेष्टाङ्कुशटङ्कपाश-
-कपालढक्काक्षर-शूलपाणिः ।
सितद्युतिः पञ्चमुखोऽवतान्मा-
-मीशान ऊर्ध्वं परमप्रकाशः ॥ 13 ॥

मूर्धानमव्यान्मम चन्द्रमौलिः
फालं ममाव्यादथ फालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी
नासां सदा रक्षतु विश्वनाथः ॥ 14 ॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः
कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो
जिह्वां सदा रक्षतु वेदजिह्वः ॥ 15 ॥

कण्ठं गिरीशोऽवतु नीलकण्ठः
पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुः
वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ 16 ॥

ममोदरं पातु गिरीन्द्रधन्वा
मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं
पायात्कटिं धूर्जटिरीश्वरो मे ॥ 17 ॥
[स्मरारि-रव्यान्मम गुह्यदेशम्
पृष्टं सदा रक्षतु पार्वतीशः ।]

ऊरुद्वयं पातु कुबेरमित्रो
जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्या-
-त्पादौ ममाव्यात्सुरवन्द्यपादः ॥ 18 ॥

महेश्वरः पातु दिनादियामे
मां मध्ययामेऽवतु वामदेवः ।
त्रिलोचनः पातु तृतीययामे
वृषध्वजः पातु दिनान्त्ययामे ॥ 19 ॥

पायान्निशादौ शशिशेखरो मां
गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने
मृत्युञ्जयो रक्षतु सर्वकालम् ॥ 20 ॥

अन्तःस्थितं रक्षतु शङ्करो मां
स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां
सदाशिवो रक्षतु मां समन्तात् ॥ 21 ॥

तिष्ठन्त-मव्याद्भुवनैकनाथः
पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मां निषण्णं
मामव्ययः पातु शिवः शयानम् ॥ 22 ॥

मार्गेषु मां रक्षतु नीलकण्ठः
शैलादि-दुर्गेषु पुरत्रयारिः ।
अरण्यवासादि-महाप्रवासे
पायान्मृगव्याध उदारशक्तिः ॥ 23 ॥

कल्पान्त-कालोग्र-पटुप्रकोपः [कटोप]
स्फुटाट्ट-हासोच्चलिताण्ड-कोशः ।
घोरारि-सेनार्णवदुर्निवार-
-महाभयाद्रक्षतु वीरभद्रः ॥ 24 ॥

पत्त्यश्वमातङ्ग-रथावरूधिनी- [घटावरूथ]
-सहस्र-लक्षायुत-कोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां
छिन्द्यान्मृडो घोरकुठारधारया ॥ 25 ॥

निहन्तु दस्यून्प्रलयानलार्चि-
-र्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूल-सिंहर्क्षवृकादि-हिंस्रान्
सन्त्रासयत्वीश-धनुः पिनाकः ॥ 26 ॥

दुस्स्वप्न दुश्शकुन दुर्गति दौर्मनस्य
दुर्भिक्ष दुर्व्यसन दुस्सह दुर्यशांसि ।
उत्पात-ताप-विषभीति-मसद्ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः ॥ 27 ॥

ॐ नमो भगवते सदाशिवाय
सकल-तत्त्वात्मकाय
सर्व-मन्त्र-स्वरूपाय
सर्व-यन्त्राधिष्ठिताय
सर्व-तन्त्र-स्वरूपाय
सर्व-तत्त्व-विदूराय
ब्रह्म-रुद्रावतारिणे-नीलकण्ठाय
पार्वती-मनोहरप्रियाय
सोम-सूर्याग्नि-लोचनाय
भस्मोद्धूलित-विग्रहाय
महामणि-मुकुट-धारणाय
माणिक्य-भूषणाय
सृष्टिस्थिति-प्रलयकाल-रौद्रावताराय
दक्षाध्वर-ध्वंसकाय
महाकाल-भेदनाय
मूलधारैक-निलयाय
तत्वातीताय
गङ्गाधराय
सर्व-देवादि-देवाय
षडाश्रयाय
वेदान्त-साराय
त्रिवर्ग-साधनाय
अनन्तकोटि-ब्रह्माण्ड-नायकाय
अनन्त-वासुकि-तक्षक-कर्कोटक-शङ्ख-कुलिक-पद्म-महापद्मेति-अष्ट-महा-नाग-कुलभूषणाय
प्रणवस्वरूपाय
चिदाकाशाय
आकाश-दिक्-स्वरूपाय
ग्रह-नक्षत्र-मालिने
सकलाय
कलङ्क-रहिताय
सकल-लोकैक-कर्त्रे
सकल-लोकैक-भर्त्रे
सकल-लोकैक-संहर्त्रे
सकल-लोकैक-गुरवे
सकल-लोकैक-साक्षिणे
सकल-निगमगुह्याय
सकल-वेदान्त-पारगाय
सकल-लोकैक-वरप्रदाय
सकल-लोकैक-शङ्कराय
सकल-दुरितार्ति-भञ्जनाय
सकल-जगदभयङ्कराय
शशाङ्क-शेखराय
शाश्वत-निजावासाय
निराकाराय
निराभासाय
निरामयाय
निर्मलाय
निर्लोभाय
निर्मदाय
निश्चिन्ताय
निरहङ्काराय
निरङ्कुशाय
निष्कलङ्काय
निर्गुणाय
निष्कामाय
निरूपप्लवाय
निरवध्याय
निरन्तराय
निरुपद्रवाय
निरवद्याय
निरन्तराय
निष्कारणाय
निरातङ्काय
निष्प्रपञ्चाय
निस्सङ्गाय
निर्द्वन्द्वाय
निराधाराय
नीरागाय
निश्क्रोधाय
निर्लोभाय
निष्पापाय
निर्विकल्पाय
निर्भेदाय
निष्क्रियाय
निस्तुलाय
निश्शंशयाय
निरञ्जनाय
निरुपम-विभवाय
नित्य-शुद्ध-बुद्ध-मुक्त-परिपूर्ण-सच्चिदानन्दाद्वयाय
परम-शान्त-स्वरूपाय
परम-शान्त-प्रकाशाय
तेजोरूपाय
तेजोमयाय
तेजोऽधिपतये
जय जय रुद्र महारुद्र
महा-रौद्र
भद्रावतार
महा-भैरव
काल-भैरव
कल्पान्त-भैरव
कपाल-मालाधर
खट्वाङ्ग-चर्म-खड्ग-धर
पाशाङ्कुश-डमरूशूल-चाप-बाण-गदा-शक्ति-भिन्दि-
पाल-तोमर-मुसल-भुशुण्डी-मुद्गर-पाश-परिघ-शतघ्नी-चक्राद्यायुध-भीषणाकार
सहस्र-मुख
दंष्ट्राकराल-वदन
विकटाट्टहास
विस्फातित-ब्रह्माण्ड-मण्डल-नागेन्द्रकुण्डल
नागेन्द्रहार
नागेन्द्रवलय
नागेन्द्रचर्मधर
नागेन्द्रनिकेतन
मृत्युञ्जय
त्र्यम्बक
त्रिपुरान्तक
विश्वरूप
विरूपाक्ष
विश्वेश्वर
वृषभवाहन
विषविभूषण
विश्वतोमुख
सर्वतोमुख
मां रक्ष रक्ष
ज्वल ज्वल
प्रज्वल प्रज्वल
महामृत्युभयं शमय शमय
अपमृत्युभयं नाशय नाशय
रोगभयं उत्सादय उत्सादय
विषसर्पभयं शमय शमय
चोरान् मारय मारय
मम शत्रून् उच्चाटय उच्चाटय
त्रिशूलेन विदारय विदारय
कुठारेण भिन्धि भिन्धि
खड्गेन छिन्द्दि छिन्द्दि
खट्वाङ्गेन विपोधय विपोधय
मम पापं शोधय शोधय
मुसलेन निष्पेषय निष्पेषय
बाणैः सन्ताडय सन्ताडय
यक्ष रक्षांसि भीषय भीषय
अशेष भूतान् विद्रावय विद्रावय
कूष्माण्ड-भूत-बेताल-मारीगण-ब्रह्मराक्षस-गणान् सन्त्रासय सन्त्रासय
मम अभयं कुरु कुरु
[मम पापं शोधय शोधय]
नरक-महाभयान् मां उद्धर उद्धर
वित्रस्तं मां आश्वासय आश्वासय
अमृत-कटाक्ष-वीक्षणेन मां आलोकय आलोकय
सञ्जीवय सञ्जीवय
क्षुत्तृष्णार्तं मां आप्यायय आप्यायय
दुःखातुरं मां आनन्दय आनन्दय
शिवकवचेन मां आच्छादय आच्छादय
हर हर
हर हर
मृत्युञ्जय
त्र्यम्बक
सदाशिव
परमशिव
नमस्ते नमस्ते नमस्ते नमः ॥

पूर्ववत् – हृदयादि न्यासः ।
पञ्चपूजा ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

फलश्रुतिः

ऋषभ उवाच ।
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्व-बाधा-प्रशमनं रहस्यं सर्वदेहिनाम् ॥ 1 ॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥ 2 ॥

क्षीणायु-र्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ 3 ॥

सर्वदारिद्र्यशमनं सौमाङ्गल्य-विवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ 4 ॥

महापातक-सङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिव-वर्मानुभावतः ॥ 5 ॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ 6 ॥

सूत उवाच ।
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव-सूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥ 7 ॥

पुनश्च भस्म सम्मन्त्र्य तदङ्गं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥ 8 ॥

भस्मप्रभावात्सम्प्राप्य बलैश्वर्यधृतिस्मृतिः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ 9 ॥

तमाह प्राञ्जलिं भूयः स योगी राजनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ 10 ॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ 11 ॥

अस्य शङ्खस्य निह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ 12 ॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ 13 ॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥ 14 ॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवीमिमाम् ॥ 15 ॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ 16 ॥

इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः सम्पूर्णः ॥

प्रायः पृष्टाः प्रश्नाः

What is शिव कवचम्?

शिव कवचम् is a Shiva Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Sanskrit. Use the language selector to view another available edition.

Can I read शिव कवचम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download शिव कवचम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook