नित्य पारायण श्लोकाः
प्रभात श्लोकः
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥
[पाठभेदः – करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥]
प्रभात भूमि श्लोकः
समुद्र वसने देवी पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यम्, पादस्पर्श-ङ्क्षमस्वमे ॥
सूर्योदय श्लोकः
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साह-न्ध्यायेत्सदा विष्णु-न्त्रिमूर्ति-ञ्च दिवाकरम् ॥
स्नान श्लोकः
गङ्गे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधि-ङ्कुरु ॥
नमस्कार श्लोकः
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविण-न्त्वमेव, त्वमेव सर्व-म्मम देवदेव ॥
भस्म धारण श्लोकः
श्रीकर-ञ्च पवित्र-ञ्च शोक निवारणम् ।
लोके वशीकर-म्पुंसा-म्भस्म-न्त्र्यैलोक्य पावनम् ॥
भोजन पूर्व श्लोकाः
ब्रह्मार्पण-म्ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्य-म्ब्रह्म कर्म समाधिनः ॥
अहं-वैँश्वानरो भूत्वा प्राणिना-न्देहमाश्रितः ।
प्राणापान समायुक्तः पचाम्यन्न-ञ्चतुर्विधम् ॥
अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्य सिद्ध्यर्थ-म्भिक्षा-न्देहि च पार्वति ॥
त्वदीयं-वँस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥
भोजनानन्तर श्लोकः
अगस्त्यं-वैँनतेय-ञ्च शमी-ञ्च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥
सन्ध्या दीप दर्शन श्लोकः
दीपज्योतिः पर-म्ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पाप-न्दीपज्योतिर्नमो-ऽस्तुते ॥
शुभ-ङ्करोति कल्याणं आरोग्य-न्धनसम्पदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमो-ऽस्तुते ॥
निद्रा/शयन श्लोकः
रामं स्कन्दं हनुमन्तं-वैँनतेयं-वृँकोदरम् ।
शयने य-स्स्मरेन्नित्य-न्दुस्वप्न-स्तस्यनश्यति ॥
अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियन्ते-ऽहर्निश-म्मया ।
दासो-ऽयमिति मा-म्मत्वा, क्षमस्व परमेश्वर ॥
करचरण कृतं-वाँ कर्म वाक्कायजं-वाँ
श्रवण नयनजं-वाँ मानसं-वाँपराधम् ।
विहित मविहितं-वाँ सर्वमेत-त्क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृते-स्स्वभावात् ।
करोमि यद्यत्सकल-म्परस्मै
नारायणायेति समर्पयामि ॥
देवता स्तोत्राः
कार्य प्रारम्भ स्तोत्राः
शुक्ला-म्बरधरं-विँष्णुं शशिवर्ण-ञ्चतुर्भुजम् ।
प्रसन्नवदन-न्ध्याये-थ्सर्व विघ्नोपशान्तये ॥
यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्न-न्निघ्नन्तु सततं-विँष्वक्सेन-न्तमाश्रये ॥
गणेश स्तोत्रं
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्न-ङ्कुरु मे देव सर्व कार्येषु सर्वदा ॥
अगजानन पद्मार्क-ङ्गजानन महर्निशम् ।
अनेकदन्-त-म्भक्तानाम्-एकदन्त-मुपास्महे ॥
विष्णु स्तोत्रं
शान्ताकार-म्भुजगशयन-म्पद्मनाभं सुरेशं
विश्वाधार-ङ्गगन सदृश-म्मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्त-ङ्कमलनयनं-योँगिहृद्ध्यानगम्यं
वन्दे विष्णु-म्भवभयहरं सर्वलोकैकनाथम् ॥
गायत्रि मन्त्रं
ओ-म्भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥
शिव स्तोत्रं
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृत्यो॑र्-मुक्षीय॒ मा-ऽमृता᳚त् ॥
वन्दे शम्भुमुमापतिं सुरगुरुं-वँन्दे जगत्कारणं
वन्दे पन्नगभूषणं शशिधरं-वँन्दे पशूना-म्पतिम् ।
वन्दे सूर्यशशाङ्क वह्निनयनं-वँन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रय-ञ्च वरदं-वँन्दे शिवं शङ्करम् ॥
सुब्रह्मण्य स्तोत्रं
शक्तिहस्तं-विँरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्न-म्भावये कुक्कुट ध्वजम् ।
स्कन्दं षण्मुख-न्देवं शिवतेज-ञ्चतुर्भुजं
कुमारं स्वामिनाध-न्त-ङ्कार्तिकेय-न्नमाम्यहम् ॥
गुरु श्लोकः
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरु-स्साक्षा-त्परब्रह्म तस्मै श्री गुरवे नमः ॥
हनुम स्तोत्राः
मनोजव-म्मारुत तुल्यवेग-ञ्जितेन्द्रिय-म्बुद्धिमतां-वँरिष्टम् ।
वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं-यँशोधैर्य-न्निर्भयत्वमरोगता ।
अजाड्यं-वाँक्पटुत्व-ञ्च हनुमस्स्मरणा-द्भवेत् ॥
जयत्यति बलो रामो लक्ष्मणस्य महाबलः ।
राजा जयति सुग्रीवो राघवेणाभि पालितः ॥
दासो-ऽह-ङ्कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः ।
हनुमान् शत्रुसैन्याना-न्निहन्ता मारुतात्मजः ॥
श्रीराम स्तोत्रां
श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
श्री रामचन्द्र-श्श्रितपारिजात-स्समस्त कल्याण गुणाभिरामः ।
सीतामुखाम्भोरुहा-चञ्चरीको निरन्तर-म्मङ्गलमातनोतु ॥
श्रीकृष्ण स्तोत्रं
मन्दारमूले मदनाभिरामं
बिम्बाधरापूरित वेणुनादम् ।
गोगोप गोपीजन मध्यसंस्थं
गोप-म्भजे गोकुल पूर्णचन्द्रम् ॥
गरुड स्वामि स्तोत्रं
कुङ्कुमाङ्कितवर्णाय कुन्देन्दु धवलाय च ।
विष्णु वाह नमस्तुभ्य-म्पक्षिराजाय ते नमः ॥
दक्षिणामूर्ति स्तोत्रं
गुरवे सर्वलोकाना-म्भिषजे भवरोगिणाम् ।
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥
सरस्वती श्लोकः
सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी ।
विद्यारम्भ-ङ्करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता [वस्त्रान्विता] ।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवै-स्सदा पूजिता ।
सा मा-म्पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥
लक्ष्मी श्लोकः
लक्ष्मी-ङ्क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपाङ्कुराम् ।
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् ।
त्वा-न्त्रैलोक्यकुटुम्बिनीं सरसिजां-वँन्दे मुकुन्दप्रियाम् ॥
दुर्गा देवी स्तोत्रं
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोस्तुते ॥
त्रिपुरसुन्दरी स्तोत्रं
ओङ्कार पञ्जर शुकीं उपनिषदुद्यान केलि कलकण्ठीम् ।
आगम विपिन मयूरीं आर्यां अन्तर्विभावयेद्गौरीम् ॥
देवी श्लोकः
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ॥
वेङ्कटेश्वर श्लोकः
श्रियः कान्ताय कल्याणनिधये निधये-ऽर्थिनाम् ।
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥
बौद्ध प्रार्थन
बुद्धं शरण-ङ्गच्छामि
धर्मं शरण-ङ्गच्छामि
सङ्घं शरण-ङ्गच्छामि
शान्ति मन्त्रं
असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतङ्गमया ।
ॐ शान्ति-श्शान्ति-श्शान्तिः
सर्वे भवन्तु सुखिन-स्सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ शान्ति-श्शान्ति-श्शान्तिः
ॐ सर्वेषां स्वस्तिर्भवतु,
सर्वेषां शान्तिर्भवतु ।
सर्वेषा-म्पूर्ण-म्भवतु,
सर्वेषा-म्मङ्गल-म्भवतु ।
ॐ शान्ति-श्शान्ति-श्शान्तिः
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
स्वस्ति मन्त्राः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण मही-म्महीशाः ।
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं
लोका-स्समस्ता-स्सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोय-ङ्क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥
विशेष मन्त्राः
पञ्चाक्षरी मन्त्रं – ओ-न्नमश्शिवाय
अष्टाक्षरी मन्त्रं – ओ-न्नमो नारायणाय
द्वादशाक्षरी मन्त्रं – ओ-न्नमो भगवते वासुदेवाय
प्रायः पृष्टाः प्रश्नाः
What is नित्य पारायण श्लोकाः?
नित्य पारायण श्लोकाः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read नित्य पारायण श्लोकाः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नित्य पारायण श्लोकाः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.