नारायणीयं दशक 22 – अजामिलोपाख्यानम्


अजामिलो नाम महीसुरः पुरा
चरन् विभो धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान्
सुधृष्टशीलां कुलटां मदाकुलाम् ॥1॥

स्वतः प्रशान्तोऽपि तदाहृताशयः
स्वधर्ममुत्सृज्य तया समारमन् ।
अधर्मकारी दशमी भवन् पुन-
र्दधौ भवन्नामयुते सुते रतिम् ॥2॥

स मृत्युकाले यमराजकिङ्करान्
भयङ्करांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनाबलात्
जुहाव नारायणनामकं सुतम् ॥3॥

दुराशयस्यापि तदात्वनिर्गत-
त्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाः
चतुर्भुजाः पीतपटा मनोरमाः ॥4॥

अमुं च सम्पाश्य विकर्षतो भटान्
विमुञ्चतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा
तदीयपापं निखिलं न्यवेदयन् ॥5॥

भवन्तु पापानि कथं तु निष्कृते
कृतेऽपि भो दण्डनमस्ति पण्डिताः ।
न निष्कृतिः किं विदिता भवादृशा-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥6॥

श्रुतिस्मृतिभ्यां विहिता व्रतादयः
पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयी-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥7॥

अनेन भो जन्मसहस्रकोटिभिः
कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरे-
रिति प्रभो त्वत्पुरुषा बभाषिरे ॥8॥

नृणामबुद्ध्यापि मुकुन्दकीर्तनं
दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषधं गदा –
निति प्रभो त्वत्पुरुषा बभाषिरे ॥9॥

इतीरितैर्याम्यभटैरपासृते
भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कञ्चन कालमाचरन्
भवत्पदं प्रापि भवद्भटैरसौ ॥10॥

स्वकिङ्करावेदनशङ्कितो यम-
स्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकैः
स देव वातालयनाथ पाहि माम् ॥11॥

प्रायः पृष्टाः प्रश्नाः

What is नारायणीयं दशक 22 - अजामिलोपाख्यानम्?

नारायणीयं दशक 22 - अजामिलोपाख्यानम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Sanskrit. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 22 - अजामिलोपाख्यानम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 22 - अजामिलोपाख्यानम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook