मुण्डक उपनिषद् – प्रथम मुण्डक, द्वितीय काण्डः
॥ प्रथममुण्डके द्वितीयः खण्डः ॥
तदेत-थ्सत्य-म्मन्त्रेषु कर्माणि कवयो
यान्यपश्यंस्तानि त्रेताया-म्बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः
पन्था-स्सुकृतस्य लोके ॥ 1॥
यदा लेलायते ह्यर्चि-स्समिद्धे हव्यवाहने ।
तदा-ऽऽज्यभागावन्तरेणा-ऽऽहुतीः प्रतिपादयेत् ॥ 2॥
यस्याग्निहोत्रमदर्शमपौर्णमास-
मचातुर्मास्यमनाग्रयणमतिथिवर्जित-ञ्च ।
अहुतमवैश्वदेवमविधिना हुत-
मासप्तमांस्तस्य लोकान् हिनस्ति ॥ 3॥
काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः ॥ 4॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं
चाहुतयो ह्याददायन्न् ।
त-न्नयन्त्येता-स्सूर्यस्य रश्मयो यत्र
देवाना-म्पतिरेको-ऽधिवासः ॥ 5॥
एह्येहीति तमाहुतय-स्सुवर्चसः
सूर्यस्य रश्मिभिर्यजमानं-वँहन्ति ।
प्रियां-वाँचमभिवदन्त्यो-ऽर्चयन्त्य
एष वः पुण्य-स्सुकृतो ब्रह्मलोकः ॥ 6॥
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं-येँषु कर्म ।
एतच्छ्रेयो ये-ऽभिनन्दन्ति मूढा
जरामृत्यु-न्ते पुनरेवापि यन्ति ॥ 7॥
अविद्यायामन्तरे वर्तमानाः
स्वय-न्धीराः पण्डित-म्मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ 8॥
अविद्याया-म्बहुधा वर्तमाना वयं
कृतार्था इत्यभिमन्यन्ति बालाः ।
य-त्कर्मिणो न प्रवेदयन्ति रागात्
तेनातुराः, क्षीणलोकाश्च्यवन्ते ॥ 9॥
इष्टापूर्त-म्मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृते-ऽनुभूत्वेमं
लोकं हीनतरं-वाँ विशन्ति ॥ 10॥
तपस्श्रद्धे ये ह्युपवसन्त्यरण्ये
शान्ता विद्वांसो भैक्ष्यचर्या-ञ्चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति
यत्रामृत-स्स पुरुषो ह्यव्ययात्मा ॥ 11॥
परीक्ष्य लोकान् कर्मचिता-न्ब्राह्मणो
निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणि-श्श्रोत्रिय-म्ब्रह्मनिष्ठम् ॥ 12॥
तस्मै स विद्वानुपसन्नाय सम्यक्
प्रशान्तचित्ताय शमान्विताय ।
येनाक्षर-म्पुरुषं-वेँद सत्य-म्प्रोवाच
ता-न्तत्त्वतो ब्रह्मविद्याम् ॥ 13॥
॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥
प्रायः पृष्टाः प्रश्नाः
What is मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः?
मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः is a Upanishads available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.