मणिद्वीप वर्णन – 2 (देवी भागवतम्)
(श्रीदेवीभागवतं, द्वादश स्कन्धं, एकादशोऽध्यायः, मणिद्वीप वर्णन – 2)
व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैवतादृशी ॥ 1 ॥
दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः ।
तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ 2 ॥
मध्ये भुविसमासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरावीरा रत्नभूषणभूषिताः ॥ 3 ॥
प्रत्येकलोकस्तासां तु तत्तल्लोकस्यनायकाः ।
समन्तात्पद्मरागस्य परिवार्यस्थिताः सदा ॥ 4 ॥
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ 5 ॥
पिङ्गलाक्षी विशालाक्षी समृद्धि वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया सञ्ज्ञा वसुन्धरा ॥ 6 ॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ 7 ॥
विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ 8 ॥
सन्ध्यामाता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ 9 ॥
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लम्बोष्टी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ 10 ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथा परा ।
गगनवेगा पवनवेगा चैव ततः परम् ॥ 11 ॥
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ 12 ॥
अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयङ्करी भवेच्छक्ति रक्षोभ्या च ततः परम् ॥ 13 ॥
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता ।
उदाराख्या च वागीशी चतुष्षष्टिमिताः स्मृताः ॥ 14 ॥
ज्वलज्जिह्वाननाः सर्वावमन्त्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामोविभावसुम् ॥ 15 ॥
पवनं स्तम्भयामोद्य भक्षयामोऽखिलं जगत् ।
इति वाचं सङ्गिरते क्रोध संरक्तलोचनाः ॥ 16 ॥
चापबाणधराः सर्वायुद्धायैवोत्सुकाः सदा ।
दंष्ट्रा कटकटारावैर्बधिरीकृत दिङ्मुखाः ॥ 17 ॥
पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ 18 ॥
एकैक शक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
शताक्षौहिणिकासेना तादृशी नृप सत्तम ॥ 19 ॥
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ 20 ॥
रथानां गणना नास्ति हयानां करिणां तथा ॥
शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ 21 ॥
पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ 22 ॥
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासि सदनानि च ॥ 23 ॥
पक्षिणः स्तम्भवर्याश्च वृक्षावाप्यः सरांसि च ।
गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ 24 ॥
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नाना शस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ 25 ॥
प्रत्येक लोक वासिन्यः परिवार्य समन्ततः ।
गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ 26 ॥
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिन्धि पच च्छिन्धि दहेति च ॥ 27 ॥
वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ 28 ॥
सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ 29 ॥
रथानां नैव गणाना वाहनानां तथैव च ।
सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ 30 ॥
तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्या ह्री पुष्ट यः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 31 ॥
रुद्रावीर्या प्रभानन्दा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ 32 ॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ 33 ॥
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 34 ॥
अम्बिकाह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ 35 ॥
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ 36 ॥
दशयोजन तुङ्गोऽसौ गोपुरद्वारसंयुतः ।
कपाटशृङ्खलाबद्धो नववृक्ष समुज्ज्वलः ॥ 37 ॥
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणिवीथयो रथ्या महामार्गां गणानि च ॥ 38 ॥
वृक्षालवाल तरवः सारङ्गा अपि तादृशाः ।
दीर्घिकाश्रेणयोवाप्यस्तडागाः कूप संयुताः ॥ 39 ॥
तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ 40 ॥
तालवृन्तधराः काश्चिच्चषकाढ्य कराम्बुजाः ।
काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ 41 ॥
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नाना वस्त्रधराः काश्चित्काश्चित्पुष्प कराम्बुजाः ॥ 42 ॥
नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।
धारयन्त्यः कज्जलं च सिन्दूर चषकं पराः ॥ 43 ॥
काश्चिच्चित्रक निर्मात्र्यः पाद संवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नाना भूषाधराः पराः ॥ 44 ॥
पुष्पभूषण निर्मात्र्यः पुष्पशृङ्गारकारिकाः ।
नाना विलासचतुरा बह्व्य एवं विधाः पराः ॥ 45 ॥
निबद्ध परिधानीया युवत्यः सकला अपि ।
देवी कृपा लेशवशात्तुच्छीकृत जगत्त्रयाः ॥ 46 ॥
एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ 47 ॥
अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।
तृतीयातु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ 48 ॥
ततो भुवनवेगास्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ 49 ॥
विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।
रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ 50 ॥
धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ 51 ॥
अष्टदिक्षुतथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजन्ते नाना वाहनहेतिभिः ॥ 52 ॥
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ 53 ॥
वैदूर्यभूमिः सर्वापिगृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वेदूर्यनिर्मिताः ॥ 54 ॥
वापी कूप तडागाश्च स्रवन्तीनां तटानि च ।
वालुका चैव सर्वाऽपि वैदूर्यमणिनिर्मिता ॥ 55 ॥
तत्राष्टदिक्षुपरितो ब्राह्म्यादीनां च मण्डलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ 56 ॥
प्रतिब्रह्माण्डमातृणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥57 ॥
वाराही च तथेन्द्राणी चामुण्डाः सप्तमातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ 58 ॥
ब्रह्मरुद्रादिदेवानां समाकारा स्तुताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ 59 ॥
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ 60 ॥
दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ 61 ॥
तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ 62 ॥
कोटिशस्तु विमानानि नाना चिह्नान्वितानि च ।
नाना वादित्रयुक्तानि महाध्वजयुतानि च ॥ 63 ॥
वैदूर्यमणि सालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजन तुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ 64 ॥
तन्मध्य भूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापी कूप तडागाश्च सर्वे तन्मणिनिर्मिताः ॥ 65 ॥
तत्र पद्म तु सम्प्रोक्तं बहुयोजन विस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ 66 ॥
तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ 67 ॥
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ 68 ॥
श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥ 69 ॥
नीलजीमूतसङ्काशाः करवाल कराम्बुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रान्त मानसाः ॥ 70 ॥
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ 71 ॥
ब्रह्माण्डक्षोभकारिण्यो देवी शक्त्युपबृंहिताः ।
नाना रथसमारूढा नाना शक्तिभिरन्विताः ॥ 72 ॥
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ 73 ॥
मुक्ताप्राकार उदितो दशयोजन दैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ 74 ॥
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ 75 ॥
सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इङ्गितज्ञास्तुपण्डिताः ॥ 76 ॥
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्राय बोध्यस्ताश्चतुरा अतिसुन्दराः ॥ 77 ॥
नाना शक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्याविदन्ति च ॥ 78 ॥
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ 79 ॥
अनङ्गमदना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ 80 ॥
शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ 81 ॥
विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतो परः ॥ 82 ॥
सालोत्तमः समुद्दिष्टो दशयोजन दैर्घ्यवान् ।
नाना सौभाग्यसंयुक्तो नाना भोगसमन्वितः ॥ 83 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्रविस्तीर्णं कोणस्था देवताः शृणुः ॥ 84 ॥
पूर्वकोणे चतुर्वक्त्रो गायत्री सहितो विधिः ।
कुण्डिकाक्षगुणाभीति दण्डायुधधरः परः ॥ 85 ॥
तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ 86 ॥
स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ 87 ॥
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
रक्षः कोणे शङ्खचक्रगदाम्बुज कराम्बुजा ॥ 88 ॥
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोखिलाः ॥ 89 ॥
सावित्री विग्रहा ये च ते सर्वे तत्र सन्ति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ 90 ॥
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ 91 ॥
गौरी भेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
चतुःषष्ट्यागमा ये च ये चान्येप्यागमाः स्मृताः ॥ 92 ॥
ते सर्वे मूर्तिमन्तश्च तत्र वै निवसन्ति हि ।
अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ 93 ॥
दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नाना वीथी समायुक्तो महालक्ष्मीसमन्वितः ॥ 94 ॥
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ 95 ॥
पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।
शृङ्गारमूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ 96 ॥
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ 97 ॥
विभूतयो गणेशस्य यायाः सन्ति नृपोत्तम ।
ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ 98 ॥
प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ 99 ॥
महामारकतस्याग्रे शतयोजन दैर्घ्यवान् ।
प्रवालशालोस्त्यपरः कुङ्कुमारुणविग्रहः ॥ 100 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ 101 ॥
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ 102 ॥
पाशाङ्कुशवराभीतिधारिण्योमितभूषणाः ।
देवी समानवेषाढ्या नवयौवनगर्विताः ॥ 103 ॥
प्रवालशालादग्रे तु नवरत्न विनिर्मितः ।
बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥ 104 ॥
तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ 105 ॥
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ 106 ॥
निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ 107 ॥
सप्तकोटि महामन्त्रदेवताः सन्ति तत्र हि ।
नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ 108 ॥
तत्र त्यं वस्तु मात्रं तु चिन्तामणि विनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ 109 ॥
विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरन्तस्थं वस्तु किञ्चिन्न दृश्यते ॥ 110 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे एकादशोऽध्यायः ।
प्रायः पृष्टाः प्रश्नाः
What is मणिद्वीप वर्णन - 2 (देवी भागवतम्)?
मणिद्वीप वर्णन - 2 (देवी भागवतम्) is a Devi Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read मणिद्वीप वर्णन - 2 (देवी भागवतम्) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download मणिद्वीप वर्णन - 2 (देवी भागवतम्) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.