मणिद्वीप वर्णन – 1 (देवी भागवतम्)


(श्रीदेवीभागवतं, द्वादश स्कन्धं, दशमोऽध्यायः, , मणिद्वीप वर्णन – 1)

व्यास उवाच –
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1 ॥

सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ 2 ॥

सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ 3 ॥

गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
नैतत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ 4 ॥

छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ 5 ॥

बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6 ॥

मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः ।
रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ 7 ॥

वीचिसङ्घर्षसञ्जातलहरीकणशीतलः ।
नानाध्वजसमायुक्ता नानापोतगतागतैः ॥ 8 ॥

विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9 ॥

सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10 ॥

रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11 ॥

नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ 12 ॥

तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।
विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ 13 ॥

हयहेषाखुराघातबधिरीकृतदिम्मुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14 ॥

सेवका देवसङ्गानां भ्राजन्ते तत्र भूमिप ।
तस्मिङ्कोलाहले राजन्नशब्दः केनचित्क्वचित् ॥ 15 ॥

कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरान्सि च ॥ 16 ॥

वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ 17 ॥

सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18 ॥

गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ 19 ॥

निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ 20 ॥

पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ 21 ॥

लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।
पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ 22 ॥

तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23 ॥

अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ 24 ॥

चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ 25 ॥

खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिञ्चाभल्लातकास्तथा ॥ 26 ॥

रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27 ॥

इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ 28 ॥

कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29 ॥

नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30 ॥

पारावतशुकव्रातसारिकापक्षमारुतैः ।
हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम् ॥ 31 ॥

सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् ।
सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32 ॥

नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः ।
नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ 33 ॥

कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34 ॥

द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका ।
येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ 35 ॥

पत्राणि काञ्चनाभानि रत्नबीजफलानि च ।
दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ 36 ॥

तद्वनं रक्षितं राजन्वसन्तेनर्तुनानिशम् ।
पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37 ॥

पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38 ॥

क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः ।
अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ 39 ॥

दशयोजनपर्यन्तं कुसुमामोदवायुना ।
पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः ॥ 40 ॥

शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41 ॥

ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया ॥ 42 ॥

सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ 43 ॥

हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् ।
अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44 ॥

ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45 ॥

सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46 ॥

विलासिनीनां बृन्दैस्तु चन्दनद्रवपङ्किलैः ।
पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ 47 ॥

[पाठभेदः- प्राकारः]
प्रकारः शोभितो एजच्छीतलाम्बुनिषेविभिः ।
सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48 ॥

प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् ।
हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49 ॥

सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50 ॥

वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः ।
सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ 51 ॥

नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका ॥ 52 ॥

वर्षयन्ती चिबुणिका वारिधारा च सम्मताः ।
वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53 ॥

नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥ 54 ॥

नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः ।
सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ 55 ॥

वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56 ॥

ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः ।
आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57 ॥

पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका ।
नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58 ॥

अधिष्ठाताऽत्र सम्प्रोक्तः शरदृतुरनामयः ।
इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59 ॥

नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः ।
पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60 ॥

दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः ।
पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61 ॥

दशयोजनगन्धीनि कुसुमानि समन्ततः ।
मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62 ॥

तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः ।
सगणः सायुधः सर्वान् रागिणो रञ्जयन्नपः ॥ 63 ॥

सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64 ॥

रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ 65 ॥

मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता ।
कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ 66 ॥

याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते ।
तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ 67 ॥

तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68 ॥

नानाविलाससंयुक्तो नानागणसमावृतः ।
निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ 69 ॥

नानाभोगसमुत्पन्नमहानन्दसमन्विताः ।
साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः ॥ 70 ॥

स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
पुष्परागमयः सालः कुङ्कुमारुणविग्रहः ॥ 71 ॥

पुष्परागमयी भूमिर्वनान्युपवनानि च ।
रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72 ॥

प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।
वनभूः पक्षिनश्चैव रत्नवर्णजलानि च ॥ 73 ॥

मण्डपा मण्डपस्तम्भाः सरान्सि कमलानि च ।
प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74 ॥

परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।
तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75 ॥

दिक्पाला निवसन्त्यत्र प्रतिब्रह्मान्डवर्तिनाम् ।
दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76 ॥

पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती ।
नानोपवनसंयुक्ता महेन्द्रस्तत्र राजते ॥ 77 ॥

स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78 ॥

ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79 ॥

देवाङ्गनागणयुता शची तत्र विराजते ।
वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप ॥ 80 ॥

स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81 ॥

याम्याशायां यमपुरी तत्र दण्डधरो महान् ।
स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82 ॥

निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83 ॥

खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् ।
वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84 ॥

महाझशसमारूढो वारुणीमधुविह्वलः ।
निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85 ॥

समास्ते वारुणे लोके वरुणानीरताकुलः ।
वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86 ॥

वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87 ॥

मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।
उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ॥ 88 ॥

यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ 89 ॥

मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः ।
मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90 ॥

इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ 91 ॥

अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।
मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92 ॥

स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः ।
स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः ॥ 93 ॥

विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94 ॥

दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
अन्तरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥ 95 ॥

रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96 ॥

नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
वीरभद्रादिसहितो रुद्रो राजन्विराजते ॥ 97 ॥

मुण्डमालाधरो नागवलयो नागकन्धरः ।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98 ॥

चिताभस्माङ्गलिप्ताङ्गः प्रमथादिगणावृतः ।
निनदड्डमरुध्वानैर्बधिरीकृतदिम्मुखः ॥ 99 ॥

अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः ।
भूतसङ्घसमाविष्टो भूतावासो महेश्वरः ॥ 100 ॥

ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 101 ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥

प्रायः पृष्टाः प्रश्नाः

What is मणिद्वीप वर्णन - 1 (देवी भागवतम्)?

मणिद्वीप वर्णन - 1 (देवी भागवतम्) is a Devi Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Sanskrit. Use the language selector to view another available edition.

Can I read मणिद्वीप वर्णन - 1 (देवी भागवतम्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download मणिद्वीप वर्णन - 1 (देवी भागवतम्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook