गीतगोविन्दं दशमः सर्गः – चतुर चतुर्भुजः
॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥
अत्रान्तरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ 53 ॥
॥ गीतं 19 ॥
वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥
सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ 2 ॥
त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥
नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ 5 ॥
स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ 6 ॥
स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥
इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥
परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ 54 ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश-दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ 55 ॥
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥
दृशौ तव मदालसे वदनमिन्दुसन्दीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥
॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥
प्रायः पृष्टाः प्रश्नाः
What is गीतगोविन्दं दशमः सर्गः - चतुर चतुर्भुजः?
गीतगोविन्दं दशमः सर्गः - चतुर चतुर्भुजः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read गीतगोविन्दं दशमः सर्गः - चतुर चतुर्भुजः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविन्दं दशमः सर्गः - चतुर चतुर्भुजः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.