गायत्र्यष्टकं (गयत्री अष्टकं)
विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 1 ॥
जातीपङ्कजकेतकीकुवलयैः सम्पूजिताङ्घ्रिद्वयां
तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 2 ॥
मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 3 ॥
काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिका-
-न्बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् ।
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 4 ॥
ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायङ्कालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।
मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 5 ॥
सन्ध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहारसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् ।
राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 6 ॥
वेणीभूषितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।
नासालङ्कृतमौक्तिकेन्दुकिरणैः सायन्तमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 7 ॥
पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां
रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् ।
वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ 8 ॥
हत्यापानसुवर्णतस्करमहागुर्वङ्गनासङ्गमा-
-न्दोषाञ्छैलसमान् पुरन्दरसमाः सञ्च्छिद्य सूर्योपमाः ।
गायत्रीं श्रुतिमातुरेकमनसा सन्ध्यासु ये भूसुरा
जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ 9 ॥
इति श्रीमच्छङ्कराचार्य विरचितं श्री गायत्र्यष्टकम् ।
प्रायः पृष्टाः प्रश्नाः
What is गायत्र्यष्टकं (गयत्री अष्टकं)?
गायत्र्यष्टकं (गयत्री अष्टकं) is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read गायत्र्यष्टकं (गयत्री अष्टकं) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गायत्र्यष्टकं (गयत्री अष्टकं) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.