चर्चा स्तवः


पञ्चस्तवि – 2 चर्चास्तवः >>

सौन्दर्यविभ्रमभुवो भुवनाधिपत्य-
-सङ्कल्पकल्पतरवस्त्रिपुरे जयन्ति ।
एते कवित्वकुमदप्रकरावबोध-
-पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ 1 ॥

देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते
वाचस्पति प्रभृतयोऽपि जडी भवन्ति ।
तस्मान्निसर्गजडिमा कतमोऽहमत्र
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ 2 ॥

मातस्तथापि भवतीं भवतीव्रताप-
-विच्छित्तये स्तुतिमहार्णव कर्णधारः ।
स्तोतुं भवानि स भवच्चरणारविन्द-
-भक्तिग्रहः किमपि मां मुखरी करोति ॥ 3 ॥

सूते जगन्ति भवती भवती बिभर्ति
जागर्ति तत्क्षयकृते भवती भवानि ।
मोहं भिनत्ति भवती भवती रुणद्धि
लीलायितं जयति चित्रमिदं भवत्याः ॥ 4 ॥

यस्मिन्मनागपि नवाम्बुजपत्रगौरीं
गौरीं प्रसादमधुरां दृशमादधासि ।
तस्मिन्निरन्तरमनङ्गशरावकीर्ण-
-सीमन्तिनीनयनसन्ततयः पतन्ति ॥ 5 ॥

पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य
विद्याधर प्रणति चुम्बित पादपीठः ।
तच्चक्रवर्तिपदवीप्रणयः स एषः
त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ 6 ॥

त्वत्पादपङ्कजरज प्रणिपातपूर्वैः
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
क्षीरक्षपाकरदुकूलहिमावदाता
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ 7 ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजां
उद्दीपित प्रियतमामदरक्तगीतिम् ।
नित्यं भवानि भवतीमुपवीणयन्ति
विद्याधराः कनकशैलगुहागृहेषु ॥ 8 ॥

लक्ष्मीवशीकरणकर्मणि कामिनीनां
आकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
देवि त्वदङ्घ्रिजनितो जयति प्रसादः ॥ 9 ॥

देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः
प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति ।
सेवानतिव्यतिकरे सुरसुन्दरीणां
सीमन्तसीम्नि कुसुमस्तबकायितं यैः ॥ 10 ॥

मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं
मध्ये ललाटममरायुधरश्मिचित्रम् ।
हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि
ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥ 11 ॥

रूपं तव स्फुरितचन्द्रमरीचिगौरं
आलोकते शिरसि वागधिदैवतं यः ।
निःसीमसूक्तिरचनामृतनिर्झरस्य
तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ 12 ॥

सिन्दूरपांसुपटलच्छुरितामिव द्यां
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
यः पश्यति क्षणमपि त्रिपुरे विहाय
व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति ॥ 13 ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं
लाक्षारसप्रसरतन्तुनिभं भवत्याः ।
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ 14 ॥

योऽयं चकास्ति गगनार्णवरत्नमिन्दुः
योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्वाममर्धमिदमन्धकसूदनस्य
देवि त्वमेव तदिति प्रतिपादयन्ति ॥ 15 ॥

इच्छानुरूपमनुरूपगुणप्रकर्ष
सङ्कर्षिणि त्वमभिमृश्य यदा बिभर्षि ।
जायेत स त्रिभुवनैक गुरुस्तदानीं
देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ 16 ॥

ध्यातासि हैमवति येन हिमांशुरश्मि-
-मालामलद्युतिरकल्मषमानसेन ।
तस्याविलम्बमनवद्यमनन्तकल्पं
अल्पैर्दिनैः सृजसि सुन्दरि वाग्विलासम् ॥ 17 ॥

आधारमारुतनिरोधवशेन येषां
सिन्दूररञ्जितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं
ध्यायन्ति तानिह समीहितसिद्धिसार्थाः ॥ 18 ॥

ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
रूपं तवाम्ब नवयावकपङ्कपिङ्गम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
-वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ 19 ॥

त्वामैन्दवीमिव कलामनुफालदेशं
उद्भासिताम्बरतलामवलोकयन्तः ।
सद्यो भवानि सुधियः कवयो भवन्ति
त्वं भावनाहितधियां कुलकामधेनुः ॥ 20 ॥

शर्वाणि सर्वजनवन्दितपादपद्मे
पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ।
निष्पापमूर्तिजनमानसराजहंसि
हंसि त्वमापदमनेकविधां जनस्य ॥ 21 ॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि
चेतश्चिरन्तनमघौघवनं लुनीहि ।
कारागृहे निगलबन्धनयन्त्रितस्य
त्वत्संस्मृतौ झटिति मे निगलास्त्रुटन्ति ॥ 22 ॥

त्वां व्यापिनीति सुमना इति कुण्डलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥ 23 ॥

उद्दामकामपरमार्थसरोजखण्ड-
चण्डद्युतिद्युतिमपासितषड्विकाराम् ।
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
-लीलागुहां भगवतीं त्रिपुरां नमामि ॥ 24 ॥

गणेशवटुकस्तुता रतिसहायकामान्विता
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ 25 ॥

रुद्राणि विद्रुममयीं प्रतिमामिव त्वां
ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।
तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते
कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ 26 ॥

त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुण-
-ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे
कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ 27 ॥

त्वद्रूपमुल्लसितदाडिमपुष्परक्तं
उद्भावयेन्मदनदैवतमक्षरं यः ।
तं रूपहीनमपि मन्मथनिर्विशेषं
आलोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ 28 ॥

ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
-स्कन्दद्विपाननहुताशनवन्दितायै ।
वागीश्वरि त्रिभुवनेश्वरि विश्वमातः
अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ 29 ॥

कस्तोत्रमेतदनुवासरमीश्वरायाः
श्रेयस्करं पठति वा यदि वा शृणोति ।
तस्येप्सितं फलति राजभिरीड्यतेऽसौ
जायेत स प्रियतमो मदिरेक्षणानाम् ॥ 30 ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां द्वितीयः चर्चास्तवः ।

प्रायः पृष्टाः प्रश्नाः

What is चर्चा स्तवः?

चर्चा स्तवः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Sanskrit. Use the language selector to view another available edition.

Can I read चर्चा स्तवः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download चर्चा स्तवः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook