बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ । [अश्वमेध शतानि च / वाजपेय शतानि च]
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
—————-
विकल्प सङ्कर्पण
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च ।
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥
एकं च बिल्वपत्रैश्च कोटियज्ञ फलं लभेत् ।
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥
काशीक्षेत्रे निवासं च कालभैरव दर्शनम् ।
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥
उमया सह देवेशं वाहनं नन्दिशङ्करम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥
इति श्री बिल्वाष्टकम् ॥
प्रायः पृष्टाः प्रश्नाः
What is बिल्वाष्टकम्?
बिल्वाष्टकम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read बिल्वाष्टकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download बिल्वाष्टकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.