भवानी भुजङ्ग प्रयात स्तोत्रं
षडाधारपङ्केरुहान्तर्विराज-
-त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ 1 ॥
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराज-
-त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ 2 ॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
-प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ 3 ॥
सुशोणाम्बराबद्धनीवीविराज-
-न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ 4 ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
-पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
-र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
-ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ 6 ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
-धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ 7 ॥
सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ 8 ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
-विलासोल्लसद्दिव्यमूर्धानमीडे ॥ 9 ॥
इति श्रीभवानि स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ 10 ॥
गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
-र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ 11 ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
-स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित् प्रपञ्चोऽस्ति सर्वं
सदानन्दसंवित्स्वरूपं भजेऽहम् ॥ 12 ॥
श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ 13 ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
-र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ 14 ॥
शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ 15 ॥
इतीमां महच्छ्रीभवानीभुजङ्गं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥
भवानी भवानी भवानी त्रिवारं
उदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथञ्चित्कुतश्चिज्जनानाम् ॥ 17 ॥
॥ इति श्रीमच्छङ्कराचार्यविरचिता भवानी भुजङ्गं सम्पूर्णम् ॥
प्रायः पृष्टाः प्रश्नाः
What is भवानी भुजङ्ग प्रयात स्तोत्रं?
भवानी भुजङ्ग प्रयात स्तोत्रं is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Sanskrit. Use the language selector to view another available edition.
Can I read भवानी भुजङ्ग प्रयात स्तोत्रं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download भवानी भुजङ्ग प्रयात स्तोत्रं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.