यज्ञोपवीत धारण


“गायंतं त्रायते इति गायत्री”

ॐ भूर्भुव॒स्सुवः॑ ॥
तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥

1। शरीर शुद्धि

श्लो॥ अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरश्शुचिः ॥

2। आचमनम्
ॐ आचम्य । ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविंदाय नमः । ॐ-विँष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ संकर्​षणाय नमः । ॐ-वाँसुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्धनाय नमः । ॐ उपेंद्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।

3। भूतोच्चाटन
उत्तिष्ठंतु । भूत पिशाचाः । ये ते भूमिभारकाः ।
ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।

4। प्राणायामम्
ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।
ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

5। संकल्पम्
ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वंतरे, कलियुगे, प्रथमपादे, जंभूद्वीपे, भरतवर्​षे, भरतखंडे, अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन ——- सं​वँत्सरे —— अयने ——- ऋतौ ——- मासे ——- पक्षे ——- तिधौ —— वासरे ——– शुभनक्षत्रे (भारत देशः – जंबू द्वीपे, भरत वर्​षे, भरत खंडे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका – क्रौंच द्वीपे, रमणक वर्​षे, ऐंद्रिक खंडे, सप्त समुद्रांतरे, कपिलारण्ये) शुभयोगे शुभकरण एवंगुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् ——– गोत्रस्य ——- नामधेयस्य (विवाहितानाम् – धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्थं नूतन यज्ञोपवीतधारणं करिष्ये ।

6। यज्ञोपवीत धारण

यज्ञोपवीत प्राण प्रतिष्ठापनं करिष्ये।

श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. – 10.59.6
अमृतं-वैँ प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।

7। यज्ञोपवीत मंत्रम्

श्लो॥ यज्ञोपवीते तस्य मंत्रस्य परमेष्टि परब्रह्मर्​षिः ।
परमात्म देवता, देवी गायत्रीच्छंदः ।
यज्ञोपवीत धारणे विनियोगः ॥

8। यज्ञोपवीत धारण मंत्रम्

श्लो॥ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुंच शुभ्रं-यँज्ञोपवीतं बलमस्तु तेजः ॥

9। जीर्ण यज्ञोपवीत विसर्जन

श्लो॥ उपवीतं छिन्नतंतुं जीर्णं कश्मलदूषितं
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
ॐ शांति शांति शांतिः

चतुस्सागर पर्यंतं गो ब्राह्मणेभ्यः शुभं भवतु ।
———- प्रवरान्वित ——— गोत्रोत्पन्न ——— शर्म ——— अहं भो अभिवादये ।

समर्पण

यस्य स्मृत्या च नामोक्त्या तपस्संध्या क्रियादिषु
न्यूनं संपूर्णतां-याँति सद्यो वंदे तमच्युतम् ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं रमापते
यत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥

अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयंतां-वँरदो भवतु ।
श्री कृष्णार्पणमस्तु ॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्या‌உत्मना वा प्रकृते स्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

बारम्बार सोधिने प्रश्नहरू

What is यज्ञोपवीत धारण?

यज्ञोपवीत धारण is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read यज्ञोपवीत धारण online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download यज्ञोपवीत धारण as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook