विष्णु पादादि केशांत वर्णन स्तोत्रं
लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
नीलाद्रेस्तुंगशृंगस्थितमिव रजनीनाथबिंबं विभाति ।
पायान्नः पांचजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै-
-र्निध्वानैर्नीरदौघध्वनिपरिभवदैरंबरं कंबुराजः ॥ 1 ॥
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वांतस्यैकांतमंतं यदपि च परमं सर्वधाम्नां च धाम ।
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
शश्वन्नो विश्ववंद्यं वितरतु विपुलं शर्म धर्मांशुशोभम् ॥ 2 ॥
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-
-रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।
सर्वं संहर्तुमिच्छोररिकुलभुवन स्फारविष्फारनादः
संयत्कल्पांतसिंधौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ 3 ॥
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयंती
युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो
नित्यानंदाय भूयान्मधुमथनमनोनंदनो नंदको नः ॥ 4 ॥
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजंती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकांता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ 5 ॥
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
यं संचिंत्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतंति ।
चंचच्चंडोरुतुंडत्रुटितफणिवसारक्तपंकांकितस्यं
वंदे छंदोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ 6 ॥
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
सोऽनंतः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहंता
सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ 7 ॥
वाग्भूगैर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां
कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः ।
कुंदेंदुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं
वंदे वंद्यामशेषैरपि मुरभिदुरोमंदिरामिंदिरां ताम् ॥ 8 ॥
या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो
धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।
धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ 9 ॥
येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै-
-र्येभो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।
नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः
पद्माक्षस्यांघ्रिपद्मद्वयतलनिलयाः पांसवः पापपंकम् ॥ 10 ॥
रेखा लेखादिवंद्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः
स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः ।
दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ 11 ॥
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदंडायमाना
दाश्च्योतंती बभासे सुरसरिदमला वैजयंतीव कांता ।
भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तंभशोभां दधौ नः
पातामेतौ पायोजोदरललिततलौ पंकजाक्षस्य पादौ ॥ 12 ॥
आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनींद्रौ युगपदपि विपत्संपदोरेकधामः ।
ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्यांचिताभ्यामुभाभ्यां
प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपंकेरुहाभ्याम् ॥ 13 ॥
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।
प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वंघ्रिपंकेरुहेभ्यः ॥ 14 ॥
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या
राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली ।
अस्माकं विस्मयार्हाण्यखिलजनमन प्रार्थनीया हि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मंगलान्यंगुलीनाम् ॥ 15 ॥
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवंत्यानमंतः
सेंद्राः सांद्रीकृतेर्ष्यास्त्वपरसुरकुलाशंकयातंकवंतः ।
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-
-श्चंचच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ 16 ॥
पादांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट-
-प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चिंतितं यद्विभाति ।
नम्रांगानां हरेर्नो हरिदुपलमहाकूर्मसौंदर्यहारि-
-च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमंतम् ॥ 17 ॥
श्रीमत्यौ चारुवृत्ते करपरिमलनानंदहृष्टे रमायाः
सौंदर्याढ्येंद्रनीलोपलरचितमहादंडयोः कांतिचोरे ।
सूरींद्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ ॥ 18 ॥
सम्यक्साह्यं विधातुं सममिव सततं जंघयोः खिन्नयोर्ये
भारीभूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते ।
चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमाने
वृत्ताकारे विधत्तां ह्यदि मुदमजितस्यानिशं जानुनी नः ॥ 19 ॥
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
-प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-
-वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥ 20 ॥
पीतेन द्योतते यच्चतुरपरिहितेनांबरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः ।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीतांबरस्य ॥ 21 ॥
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽंगं यथाब्धे-
-र्मध्यस्थो मंदराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
कांची सा कांचनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्रीं मम मतिमनिशं कम्ररूपां करोतु ॥ 22 ॥
उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ 23 ॥
पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तीर्नगेंद्रा-
-न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो
नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ 24 ॥
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः
कल्पांते यस्य चांत प्रविशति सकलं स्थावरं जंगमं च ।
अत्यंताचिंत्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे
तस्मिन्नस्माकमंतःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ 25 ॥
कांत्यंभःपूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे
गंभीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे ।
क्रीडत्वानद्वहेमोदरनहनमहाबाडबाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ 26 ॥
नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां
माला नीलेव यांती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-
-श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयंती श्रियं नः ॥ 27 ॥
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं
श्रीवत्सोल्लासि फुल्लप्रतिनववनमालांकि राजद्भुजांतम् ।
वक्षः श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणेः
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ 28 ॥
कांतं वक्षो नितांतं विदधदिव गलं कालिमा कालशत्रो-
-रिंदोर्बिंबं यथांको मधुप इव तरोर्मंजरीं राजते यः ।
श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः ॥ 29 ॥
संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजा-
-स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तुभूत्यै ॥ 30 ॥
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना
साकं साकंपमंसे वसति विदधती वासुभद्रं सुभद्रम् ।
सारं सारंगसंघैर्मुखरितकुसुमा मेचकांता च कांता
माला मालालितास्मान्न विरमतु सुखैर्योजयंती जयंती ॥ 31 ॥
हारस्योरुप्रभाभिः प्रतिनववनमालाशुभिः प्रांशुरूपैः
श्रीभिश्चाप्यंगदानां कबलितरुचि यन्निष्कभाभिश्च भाति ।
बाहुल्येनैव बद्धांजलिपुटमजितस्याभियाचामहे त-
-द्वंधार्तिं बाधतां नो बहुविहतिकरीं बंधुरं बाहुमूलम् ॥ 32 ॥
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपस्फुटगुणयशसा कर्मणामद्भुतानाम् ।
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशंखौ सहस्रं
बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥ 33 ॥
कंठाकल्पोद्गतैर्यः कनकमयलसत्कुंडलोत्थैरुदारै-
-रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।
कंठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे
वैकुंठीयेऽत्र कंठे वसतु मम मतिः कुंठभावं विहाय ॥ 34 ॥
पद्मानंदप्रदाता परिलसदरुणश्रीपरीताग्रभागः
काले काले च कंबुप्रवरशशधरापूरणे यः प्रवीणः ।
वक्त्राकाशांतरस्थस्तिरयति नितरां दंततारौघशोभां
श्रीभर्तुर्दंतवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ 35 ॥
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या
वक्त्रेंदोरंतराले कृतवसतिरिवाभाति नक्षत्रराजिः ।
लक्ष्मीकांतस्य कांताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-
-र्दंताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥ 36 ॥
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां
शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
-स्यास्येंदोरास्रवंती वरवचनसुधाह्लादयेन्मानसं नः ॥ 37 ॥
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुंडलप्रोतदीप्य-
-न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।
प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे-
-र्गाढामागामिनीं नः शमयतु विपदं गंडयोर्मंडलं तत् ॥ 38 ॥
वक्त्रांभोजे लसंतं मुहुरधरमणिं पक्वबिंबाभिरामं
दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुंडदंडायते यः ।
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुंडलोस्रैर्मुरारेः
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥ 39 ॥
दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनींद्राः ।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ 40 ॥
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं
येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः ।
नृत्यल्लालाटरंगे रजनिकरतनोरर्धखंडावदाते
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ 41 ॥
लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमील-
-न्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छटाभे ।
लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापांगबाणासनार्ध-
-च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥ 42 ॥
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
-प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिंगम् ।
भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वंद्वमध्या-
-दुत्थं तत्पुंड्रमूर्ध्वं जनिमरणतमःखंडनं मंडनं च ॥ 43 ॥
पीठीभूतालकांते कृतमकुटमहादेवलिंगप्रतिष्ठे
लालाटे नाट्यरंगे विकटतरतटे कैटभारेश्चिराय ।
प्रोद्धाट्यैवात्मतंद्रीप्रकटपटकुटीं प्रस्फुरंतीं स्फुटांगं
पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥ 44 ॥
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुंतलाली
कालिंद्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु ।
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रांतिलोलांतरात्मा
लोकैरालोक्यते या प्रदिशतु सततं साखिलं मंगलं नः ॥ 45 ॥
सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
व्याप्तव्योमांतरालास्तरलमणिरुचा रंजिताः स्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ 46 ॥
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
-स्फूर्त्यां मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।
कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशंकां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ 47 ॥
भ्रांत्वा भ्रांत्वा यदंतस्त्रिभुवनगुरुरप्यब्दकोटीरनेका
गंतुं नांतं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।
उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं
देहांभोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ 48 ॥
मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् ।
विष्णोरंशावतरा भुवनहितकरा धर्मसंस्थापनार्थाः
पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ 49 ॥
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।
नित्यानंदं स्वसंविन्निरवधिविमलस्वांतसंक्रांतबिंब-
-च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥ 50 ॥
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते
धत्ते नित्यं निरस्ताखिलकलिकलुष संततांतः प्रमोदम् ।
जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमंत्रानुपाठै-
-स्तत्पादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ 51 ॥
मोदात्पादादिकेशस्तुतिमितिरचिता कीर्तयित्वा त्रिधाम्न
पादाब्जद्वंद्वसेवासमयनतमतिर्मस्तकेनानमेद्य ।
उन्मुच्यैवात्मनैनोनिचयकवचक पंचतामेत्य भानो-
-र्बिंबांतर्गोचर स प्रविशति परमानंदमात्मस्वरूपम् ॥ 52 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री विष्णु पादादिकेशांतवर्णण स्तोत्रं संपूर्णम् ।
बारम्बार सोधिने प्रश्नहरू
What is विष्णु पादादि केशांत वर्णन स्तोत्रं?
विष्णु पादादि केशांत वर्णन स्तोत्रं is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read विष्णु पादादि केशांत वर्णन स्तोत्रं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download विष्णु पादादि केशांत वर्णन स्तोत्रं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.