विदुर नीति – उद्योग पर्वम्, अध्यायः 36
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥
विदुर उवाच ।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 1॥
चरंतं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राज्ञं पर्यपृच्छंत वै पुरा ॥ 2॥
साध्या ऊचुः ।
साध्या देवा वय्मस्मो महर्षे
दृष्ट्वा भवंतं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः
काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 3॥
हंस उवाच ।
एतत्कार्यममराः संश्रुतं मे
धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रंथिं विनीय हृदयस्य सर्वं
प्रियाप्रिये चात्मवशं नयीत ॥ 4॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विंदति ॥ 5॥
नाक्रोशी स्यान्नावमानी परस्य
मित्रद्रोही नोत नीचोपसेवी ।
न चातिमानी न च हीनवृत्तो
रूक्षां वाचं रुशतीं वर्जयीत ॥ 6॥
मर्माण्यस्थीनि हृदयं तथासून्
घोरा वाचो निर्दहंतीह पुंसाम् ।
तस्माद्वाचं रुशतीं रूक्षरूपां
धर्मारामो नित्यशो वर्जयीत ॥ 7॥
अरुं तुरं परुषं रूक्षवाचं
वाक्कंटकैर्वितुदंतं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निरृतिं वहंतम् ॥ 8॥
परश्चेदेनमधिविध्येत बाणैर्
भृशं सुतीक्ष्णैरनलार्क दीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो
विद्यात्कविः सुकृतं मे दधाति ॥ 9॥
यदि संतं सेवते यद्यसंतं
तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रंग वशं प्रयाति
तथा स तेषां वशमभ्युपैति ॥ 10॥
वादं तु यो न प्रवदेन्न वादयेद्
यो नाहतः प्रतिहन्यान्न घातयेत् ।
यो हंतुकामस्य न पापमिच्छेत्
तस्मै देवाः स्पृहयंत्यागताय ॥ 11॥
अव्याहृतं व्याहृताच्छ्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
प्रियंवदेद्व्याहृतं तत्तृतीयं
धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ 12॥
यादृशैः संविवदते यादृशांश् चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ 13॥
यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ 14॥
न जीयते नोत जिगीषतेऽन्यान्
न वैरक्कृच्चाप्रतिघातकश् च ।
निंदा प्रशंसासु समस्वभावो
न शोचते हृष्यति नैव चायम् ॥ 15॥
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् ।
सत्यवादी मृदुर्दांतो यः स उत्तमपूरुषः ॥ 16॥
नानर्थकं सांत्वयति प्रतिज्ञाय ददाति च ।
राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ 17॥
दुःशासनस्तूपहंता न शास्ता
नावर्तते मन्युवशात्कृतघ्नः ।
न कस्य चिन्मित्रमथो दुरात्मा
कलाश्चैता अधमस्येह पुंसः ॥ 18॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशंकितः ।
निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ 19॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ 20॥
प्राप्नोति वै वित्तमसद्बलेन
नित्योत्थानात्प्रज्ञया पौरुषेण ।
न त्वेव सम्यग्लभते प्रशंसां
न वृत्तमाप्नोति महाकुलानाम् ॥ 21॥
धृतराष्ट्र उवाच ।
महाकुलानां स्पृहयंति देवा
धर्मार्थवृद्धाश्च बहुश्रुताश् च ।
पृच्छामि त्वां विदुर प्रश्नमेतं
भवंति वै कानि महाकुलानि ॥ 22॥
विदुर उवाच ।
तमो दमो ब्रह्मवित्त्वं वितानाः
पुण्या विवाहाः सततान्न दानम् ।
येष्वेवैते सप्तगुणा भवंति
सम्यग्वृत्तास्तानि महाकुलानि ॥ 23॥
येषां न वृत्तं व्यथते न योनिर्
वृत्तप्रसादेन चरंति धर्मम् ।
ये कीर्तिमिच्छंति कुले विशिष्टां
त्यक्तानृतास्तानि महाकुलानि ॥ 24॥
अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च ।
कुलान्यकुलतां यांति धर्मस्यातिक्रमेण च ॥ 25॥
देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च ।
कुलान्यकुलतां यांति ब्राह्मणातिक्रमेण च ॥ 26॥
ब्राह्मणानां परिभवात्परिवादाच्च भारत ।
कुलान्यकुलतां यांति न्यासापहरणेन च ॥ 27॥
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।
कुलसंख्यां न गच्छंति यानि हीनानि वृत्ततः ॥ 28॥
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां तु गच्छंति कर्षंति च मयद्यशः ॥ 29॥
मा नः कुले वैरकृत्कश् चिदस्तु
राजामात्यो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा
पूर्वाशी वा पितृदेवातिथिभ्यः ॥ 30॥
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणांद्विषेत् ।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ 31॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यंते कदा चन ॥ 32॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ 33॥
सूक्ष्मोऽपि भारं नृपते स्यंदनो वै
शक्तो वोढुं न तथान्ये महीजाः ।
एवं युक्ता भारसहा भवंति
महाकुलीना न तथान्ये मनुष्याः ॥ 34॥
न तन्मित्रं यस्य कोपाद्बिभेति
यद्वा मित्रं शंकितेनोपचर्यम् ।
यस्मिन्मित्रे पितरीवाश्वसीत
तद्वै मित्रं संगतानीतराणि ॥ 35॥
यदि चेदप्यसंबंधो मित्रभावेन वर्तते ।
स एव बंधुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ 36॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्र संग्रहः ॥ 37॥
चलचित्तमनात्मानमिंद्रियाणां वशानुगम् ।
अर्थाः समतिवर्तंते हंसाः शुष्कं सरो यथा ॥ 38॥
अकस्मादेव कुप्यंति प्रसीदंत्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ 39॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवंति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुंजते ॥ 40॥
अर्थयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ 41॥
संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् ।
संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति ॥ 42॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यंति मा स्म शोके मनः कृथाः ॥ 43॥
पुनर्नरो म्रियते जायते च
पुनर्नरो हीयते वर्धते पुनः ।
पुनर्नरो याचति याच्यते च
पुनर्नरः शोचति शोच्यते पुनः ॥ 44॥
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशंति
तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ 45॥
चलानि हीमानि षडिंद्रियाणि
तेषां यद्यद्वर्तते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य
छिद्रोद कुंभादिव नित्यमंभः ॥ 46॥
धृतराष्ट्र उवाच ।
तनुरुच्छः शिखी राजा मिथ्योपचरितो मया ।
मंदानां मम पुत्राणां युद्धेनांतं करिष्यति ॥ 47॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ 48॥
विदुर उवाच ।
नान्यत्र विद्या तपसोर्नान्यत्रेंद्रिय निग्रहात् ।
नान्यत्र लोभसंत्यागाच्छांतिं पश्याम तेऽनघ ॥ 49॥
बुद्ध्या भयं प्रणुदति तपसा विंदते महत् ।
गुरुशुश्रूषया ज्ञानं शांतिं त्यागेन विंदति ॥ 50॥
अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरंतीह मोक्षिणः ॥ 51॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यांते सुखमेधते ॥ 52॥
स्वास्तीर्णानि शयनानि प्रपन्ना
न वै भिन्ना जातु निद्रां लभंते ।
न स्त्रीषु राजन्रतिमाप्नुवंति
न मागधैः स्तूयमाना न सूतैः ॥ 53॥
न वै भिन्ना जातु चरंति धर्मं
न वै सुखं प्राप्नुवंतीह भिन्नाः ।
न वै भिन्ना गौरवं मानयंति
न वै भिन्नाः प्रशमं रोचयंति ॥ 54॥
न वै तेषां स्वदते पथ्यमुक्तं
योगक्षेमं कल्पते नोत तेषाम् ।
भिन्नानां वै मनुजेंद्र परायणं
न विद्यते किं चिदन्यद्विनाशात् ॥ 55॥
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः ।
संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ 56॥
तंतवोऽप्यायता नित्यं तंतवो बहुलाः समाः ।
बहून्बहुत्वादायासान्सहंतीत्युपमा सताम् ॥ 57॥
धूमायंते व्यपेतानि ज्वलंति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ 58॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृंतादिव फलं पक्वं धृतराष्ट्र पतंति ते ॥ 59॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।
प्रसह्य एव वातेन शाखा स्कंधं विमर्दितुम् ॥ 60॥
अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहंतेऽन्योन्यसंश्रयात् ॥ 61॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषंतो मन्यंते वायुर्द्रुममिवौकजम् ॥ 62॥
अन्योन्यसमुपष्टंभादन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धंते सरसीवोत्पलान्युत ॥ 63॥
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
येषां चान्नानि भुंजीत ये च स्युः शरणागताः ॥ 64॥
न मनुष्ये गुणः कश्चिदन्यो धनवतां अपि ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ 65॥
अव्याधिजं कटुकं शीर्ष रोगं
पापानुबंधं परुषं तीक्ष्णमुग्रम् ।
सतां पेयं यन्न पिबंत्यसंतो
मन्युं महाराज पिब प्रशाम्य ॥ 66॥
रोगार्दिता न फलान्याद्रियंते
न वै लभंते विषयेषु तत्त्वम् ।
दुःखोपेता रोगिणो नित्यमेव
न बुध्यंते धनभोगान्न सौख्यम् ॥ 67॥
पुरा ह्युक्तो नाकरोस्त्वं वचो मे
द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
दुर्योधनं वारयेत्यक्षवत्यां
कितवत्वं पंडिता वर्जयंति ॥ 68॥
न तद्बलं यन्मृदुना विरुध्यते
मिश्रो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्
मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 69॥
धार्तराष्ट्राः पांडवान्पालयंतु
पांडोः सुतास्तव पुत्रांश्च पांतु ।
एकारिमित्राः कुरवो ह्येकमंत्रा
जीवंतु राजन्सुखिनः समृद्धाः ॥ 70॥
मेढीभूतः कौरवाणां त्वमद्य
त्वय्याधीनं कुरु कुलमाजमीढ ।
पार्थान्बालान्वनवास प्रतप्तान्
गोपायस्व स्वं यशस्तात रक्षन् ॥ 71॥
संधत्स्व त्वं कौरवान्पांडुपुत्रैर्
मा तेऽंतरं रिपवः प्रार्थयंतु ।
सत्ये स्थितास्ते नरदेव सर्वे
दुर्योधनं स्थापय त्वं नरेंद्र ॥ 72॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ 36॥
बारम्बार सोधिने प्रश्नहरू
What is विदुर नीति - उद्योग पर्वम्, अध्यायः 36?
विदुर नीति - उद्योग पर्वम्, अध्यायः 36 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read विदुर नीति - उद्योग पर्वम्, अध्यायः 36 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download विदुर नीति - उद्योग पर्वम्, अध्यायः 36 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.