विदुर नीति – उद्योग पर्वम्, अध्यायः 34
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥
धृतराष्ट्र उवाच ।
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 1॥
त्वं मां यथावद्विदुर प्रशाधि
प्रज्ञा पूर्वं सर्वमजातशत्रोः ।
यन्मन्यसे पथ्यमदीनसत्त्व
श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ 2॥
पापाशंगी पापमेव नौपश्यन्
पृच्छामि त्वां व्याकुलेनात्मनाहम् ।
कवे तन्मे ब्रूहि सर्वं यथावन्
मनीषितं सर्वमजातशत्रोः ॥ 3॥
विदुर उवाच ।
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ 4॥
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति ।
वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ 5॥
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत ।
अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ 6॥
तथैव योगविहितं न सिध्येत्कर्म यन्नृप ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ 7॥
अनुबंधानवेक्षेत सानुबंधेषु कर्मसु ।
संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ 8॥
अनुबंधं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ 9॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोशे जनपदे दंडे न स राज्यावतिष्ठते ॥ 10॥
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ 11॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हंति जरा रूपमिवोत्तमम् ॥ 12॥
भक्ष्योत्तम प्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
रूपाभिपाती ग्रसते नानुबंधमवेक्षते ॥ 13॥
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥ 14॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ 15॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ 16॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ 17॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथांगारकारकः ॥ 18॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि संचिंत्य कुर्याद्वा पुरुषो न वा ॥ 19॥
अनारभ्या भवंत्यर्थाः के चिन्नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ 20॥
कांश्चिदर्थान्नरः प्राज्ञो लभु मूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ 21॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यंति तं प्रजाः ॥ 22॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ 23॥
यस्मात्त्रस्यंति भूतानि मृगव्याधान्मृगा इव ।
सागरांतामपि महीं लब्ध्वा स परिहीयते ॥ 24॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ 25॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ 26॥
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः ।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ 27॥
य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने ।
स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ 28॥
धर्मेण राज्यं विंदेत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ 29॥
अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव कांचनम् ॥ 30॥
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः ।
संचिन्वंधीर आसीत शिला हारी शिलं यथा ॥ 31॥
गंधेन गावः पश्यंति वेदैः पश्यंति ब्राह्मणाः ।
चारैः पश्यंति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 32॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां विनयंत्यपि ॥ 33॥
यदतप्तं प्रणमति न तत्संतापयंत्यपि ।
यच्च स्वयं नतं दारु न तत्सन्नामयंत्यपि ॥ 34॥
एतयोपमया धीरः सन्नमेत बलीयसे ।
इंद्राय स प्रणमते नमते यो बलीयसे ॥ 35॥
पर्जन्यनाथाः पशवो राजानो मित्र बांधवाः ।
पतयो बांधवाः स्त्रीणां ब्राह्मणा वेद बांधवाः ॥ 36॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ 37॥
मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः ।
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ 38॥
न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः ।
अंत्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ 39॥
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखे सौभाग्यसत्कारे तस्य व्याधिरनंतकः ॥ 40॥
अकार्य करणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मंत्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ 41॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
एते मदावलिप्तानामेत एव सतां दमाः ॥ 42॥
असंतोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन ।
मन्यंते संतमात्मानमसंतमपि विश्रुतम् ॥ 43॥
गतिरात्मवतां संतः संत एव सतां गतिः ।
असतां च गतिः संतो न त्वसंतः सतां गतिः ॥ 44॥
जिता सभा वस्त्रवता समाशा गोमता जिता ।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ 45॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बंधुभिः ॥ 46॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ 47॥
संपन्नतरमेवान्नं दरिद्रा भुंजते सदा ।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ 48॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
दरिद्राणां तु राजेंद्र अपि काष्ठं हि जीर्यते ॥ 49॥
अवृत्तिर्भयमंत्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ 50॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ 51॥
इंद्रियौरिंद्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ 52॥
यो जितः पंचवर्गेण सहजेनात्म कर्शिना ।
आपदस्तस्य वर्धंते शुक्लपक्ष इवोडुराड् ॥ 53॥
अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ 54॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 55॥
वश्येंद्रियं जितामात्यं धृतदंडं विकारिषु ।
परीक्ष्य कारिणं धीरमत्यंतं श्रीर्निषेवते ॥ 56॥
रथः शरीरं पुरुषस्य राजन्
नात्मा नियंतेंद्रियाण्यस्य चाश्वाः ।
तैरप्रमत्तः कुशलः सदश्वैर्
दांतैः सुखं याति रथीव धीरः ॥ 57॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादांता हयाः पथि कुसारथिम् ॥ 58॥
अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः ।
इंद्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ 59॥
धर्मार्थौ यः परित्यज्य स्यादिंद्रियवशानुगः ।
श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ 60॥
अर्थानामीश्वरो यः स्यादिंद्रियाणामनीश्वरः ।
इंद्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ 61॥
आत्मनात्मानमन्विच्छेन्मनो बुद्धींद्रियैर्यतैः ।
आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः ॥ 62॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामश्च राजन्क्रोधश्च तौ प्राज्ञानं विलुंपतः ॥ 63॥
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति ।
स वै संभृत संभारः सततं सुखमेधते ॥ 64॥
यः पंचाभ्यंतराञ्शत्रूनविजित्य मतिक्षयान् ।
जिगीषति रिपूनन्यान्रिपवोऽभिभवंति तम् ॥ 65॥
दृश्यंते हि दुरात्मानो वध्यमानाः स्वकर्म भिः ।
इंद्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ 66॥
असंत्यागात्पापकृतामपापांस्
तुल्यो दंडः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावात्
तस्मात्पापैः सह संधिं न कुर्यात् ॥ 67॥
निजानुत्पततः शत्रून्पंच पंच प्रयोजनान् ।
यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ 68॥
अनसूयार्जवं शौचं संतोषः प्रियवादिता ।
दमः सत्यमनायासो न भवंति दुरात्मनाम् ॥ 69॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्ता दानं च नैतान्यंत्येषु भारत ॥ 70॥
आक्रोश परिवादाभ्यां विहिंसंत्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ 71॥
हिंसा बलमसाधूनां राज्ञां दंडविधिर्बलम् ।
शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ 72॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ 73॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ 74॥
संरोहति शरैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ 75॥
कर्णिनालीकनाराचा निर्हरंति शरीरतः ।
वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ 76॥
वाक्सायका वदनान्निष्पतंति
यैराहतः शोचति रत्र्यहानि ।
परस्य नामर्मसु ते पतंति
तान्पंडितो नावसृजेत्परेषु ॥ 77॥
यस्मै देवाः प्रयच्छंति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षंति सोऽपाचीनानि पश्यति ॥ 78॥
बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसंकाशो हृदयान्नापसर्पति ॥ 79॥
सेयं बुद्धिः परीता ते पुत्राणां तव भारत ।
पांडवानां विरोधेन न चैनां अवबुध्यसे ॥ 80॥
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ 81॥
अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः ।
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ 82॥
आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः ।
गौरवात्तव राजेंद्र बहून्क्लेशांस्तितिक्षति ॥ 83॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ 34॥
बारम्बार सोधिने प्रश्नहरू
What is विदुर नीति - उद्योग पर्वम्, अध्यायः 34?
विदुर नीति - उद्योग पर्वम्, अध्यायः 34 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read विदुर नीति - उद्योग पर्वम्, अध्यायः 34 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download विदुर नीति - उद्योग पर्वम्, अध्यायः 34 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.