उद्धवगीता – पंचमोऽध्यायः
अथ पंचमोऽध्यायः ।
राजा उवाच ।
भगवंतं हरिं प्रायः न भजंति आत्मवित्तमाः ।
तेषां अशांतकामानां का निष्ठा अविजितात्मनाम् ॥ 1॥
चमसः उवाच ।
मुखबाहूरूपादेभ्यः पुरुषस्य आश्रमैः सह ।
चत्वारः जज्ञिरे वर्णाः गुणैः विप्रादयः पृथक् ॥ 2॥
यः एषां पुरुषं साक्षात् आत्मप्रभवं ईश्वरम् ।
न भजंति अवजानंति स्थानात् भ्रष्टाः पतंति अधः ॥ 3॥
दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः ।
स्त्रियः शूद्रादयः च एव ते अनुकंप्या भवादृशाम् ॥ 4॥
विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदांतिकम् ।
श्रौतेन जन्मना अथ अपि मुह्यंति आम्नायवादिनः ॥ 5॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पंडितमानिनः ।
वदंति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ 6॥
रजसा घोरसंकल्पाः कामुकाः अहिमन्यवः ।
दांभिकाः मानिनः पापाः विहसंति अच्युतप्रियान् ॥ 7॥
वदंति ते अन्योन्यं उपासितस्त्रियः
गृहेषु मैथुन्यसुखेषु च आशिषः ।
यजंति असृष्टान् अविधान् अदक्षिणम्
वृत्त्यै परं घ्नंति पशून् अतद्विदः ॥ 8॥
श्रिया विभूत्या अभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा
सतः अवमन्यंति हरिप्रियान् खलाः ॥ 9॥
सर्वेषु शश्वत् तनुभृत् स्ववस्थितम्
यथा स्वं आत्मानं अभीष्टं ईश्वरम् ।
वेदोपगीतं च न श्रुण्वते अबुधाः
मनोरथानां प्रवदंति वार्तया ॥ 10॥
लोके व्यवाय आमिषं अद्यसेवा
नित्याः तु जंतोः न हि तत्र चोदना ।
व्यवस्थितिः तेषु विवाहयज्ञ
सुराग्रहैः आसु निवृत्तिः इष्टा ॥ 11॥
धनं च धर्मेकफलं यतः वै
ज्ञानं सविज्ञानं अनुप्रशांति ।
गृहेषु युंजंति कलेवरस्य
मृत्युं न पश्यंति दुरंतवीर्यम् ॥ 12॥
यत् घ्राणभक्षः विहितः सुरायाः
तथा पशोः आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या
इअमं विशुद्धं न विदुः स्वधर्मम् ॥ 13॥
ये तु अनेवंविदः असंतः स्तब्धाः सत् अभिमानिनः ।
पशून् द्रुह्यंति विस्रब्धाः प्रेत्य खादंति ते च तान् ॥ 14॥
द्विषंतः परकायेषु स्वात्मानं हरिं ईश्वरम् ।
मृतके सानुबंधे अस्मिन् बद्धस्नेहाः पतंति अधः ॥ 15॥
ये कैवल्यं असंप्राप्ताः ये च अतीताः च मूढताम् ।
त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयंति ते ॥ 16॥
एतः आत्महनः अशांताः अज्ञाने ज्ञानमानिनः ।
सीदंति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ 17॥
हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः ।
तमः विशंति अनिच्छंतः वासुदेवपराङ्मुखाः ॥ 18॥
राजा उवाच ।
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः ।
नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19॥
करभाजनः उवाच ।
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः ।
नानावर्ण अभिधाकारः नाना एव विधिना इज्यते ॥ 20॥
कृते शुक्लः चतुर्बाहुः जटिलः वल्कलांबरः ।
कृष्णाजिनौपवीताक्षान् बिभ्रत् दंडकमंडलून् ॥ 21॥
मनुष्याः तु तदा शांताः निर्वैराः सुहृदः समाः ।
यजंति तपसा देवं शमेन च दमेन च ॥ 22॥
हंसः सुपर्णः वैकुंठः धर्मः योगेश्वरः अमलः ।
ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ 23॥
त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः ।
हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवादि उपलक्षणः ॥ 24॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजंति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ 25॥
विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः ।
वृषाकपिः जयंतः च उरुगाय इति ईर्यते ॥ 26॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिः अंकैः च लक्षणैः उपलक्षितः ॥ 27॥
तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् ।
यजंति वेदतंत्राभ्यां परं जिज्ञासवः नृप ॥ 28॥
नमः ते वासुदेवाय नमः संकर्षणाय च ।
प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ 29॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ 30॥
इति द्वापरः उर्वीश स्तुवंति जगदीश्वरम् ।
नानातंत्रविधानेन कलौ अपि यथा श्रुणु ॥ 31॥
कृष्णवर्णं त्विषाकृष्णं सांगौपांगास्त्र
पार्षदम् ।
यज्ञैः संकीर्तनप्रायैः यजंति हि सुमेधसः ॥ 32॥
ध्येयं सदा परिभवघ्नं अभीष्टदोहम्
तीर्थास्पदं शिवविरिंचिनुतं शरण्यम् ।
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम्
वंदे महापुरुष ते चरणारविंदम् ॥ 33॥
त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम्
धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् ।
मायामृगं दयितया इप्सितं अन्वधावत्
वंदे महापुरुष ते चरणारविंदम् ॥ 34॥
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
मनुजैः इज्यते राजन् श्रेयसां ईश्वरः हरिः ॥ 35॥
कलिं सभाजयंति आर्या गुणज्ञाः सारभागिनः ।
यत्र संकीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ 36॥
न हि अतः परमः लाभः देहिनां भ्राम्यतां इह ।
यतः विंदेत परमां शांतिं नश्यति संसृतिः ॥ 37॥
कृतादिषु प्रजा राजन् कलौ इच्छंति संभवम् ।
कलौ खलु भविष्यंति नारायणपरायणाः ॥ 38॥
क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ 39॥
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबंति जलं तासां मनुजा मनुजेश्वर ।
प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ 40॥
देवर्षिभूताप्तनृणा पितॄणां
न किंकरः न अयं ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यम्
गतः मुकुंदं परिहृत्य कर्तुम् ॥ 41॥
स्वपादमूलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यत् च उत्पतितं कथंचित्
धुनोति सर्वं हृदि संनिविष्टः ॥ 42॥
नारदः उवाच ।
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः ।
जायंत इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ 43॥
ततः अंतः दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ 44॥
त्वं अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तः निःसंगः यास्यसे परम् ॥ 45॥
युवयोः खलु दंपत्योः यशसा पूरितं जगत् ।
पुत्रतां अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ 46॥
दर्शनालिंगनालापैः शयनासनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ 47॥
वैरेण यं नृपतयः शिशुपालपौंड्र
शाल्वादयः गतिविलासविलोकनादयैः ।
ध्यायंतः आकृतधियः शयनासनादौ
तत् साम्यं आपुः अनुरक्तधियां पुनः किम् ॥ 48॥
मा अपत्यबुद्धिं अकृथाः कृष्णे सर्वात्मनीश्वरे ।
मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ 49॥
भूभारराजन्यहंतवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50॥
श्रीशुकः उवाच ।
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः ।
देवकी च महाभागाः जहतुः मोहं आत्मनः ॥ 51॥
इतिहासं इमं पुण्यं धारयेत् यः समाहितः ।
सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ 52॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे वसुदेवनारदसंवादे
पंचमोऽध्यायः ॥
बारम्बार सोधिने प्रश्नहरू
What is उद्धवगीता - पंचमोऽध्यायः?
उद्धवगीता - पंचमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read उद्धवगीता - पंचमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - पंचमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.