उद्धवगीता – चतुर्थोऽध्यायः


अथ चतुर्थोऽध्यायः ।

राजा उवाच ।
यानि यानि इह कर्माणि यैः यैः स्वच्छंदजन्मभिः ।
चक्रे करोति कर्ता वा हरिः तानि ब्रुवंतु नः ॥ 1॥

द्रुमिलः उवाच ।
यः वा अनंतस्य गुणान् अनंतान्
अनुक्रमिष्यन् सः तु बालबुद्धिः ।
रजांसि भूमेः गणयेत् कथंचित्
कालेन न एव अखिलशक्तिधाम्नः ॥ 2॥

भूतैः यदा पंचभिः आत्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधान
मवाप नारायणः आदिदेवः ॥ 3॥

यत् कायः एषः भुवनत्रयसंनिवेशः
यस्य इंद्रियैः तनुभृतां उभयैंद्रियाणि ।
ज्ञानं स्वतः श्वसनतः बलं ओजः ईहा
सत्त्वादिभिः स्थितिलयौद्भवः आदिकर्ता ॥ 4॥

आदौ अभूत् शतधृती रजस अस्य सर्गे
विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः ।
रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः
इति उद्भवस्थितिलयाः सततं प्रजासु ॥ 5॥

धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या
नारायणः नरः ऋषिप्रवरः प्रशांतः ।
नैष्कर्म्यलक्षणं उवाच चचार कर्म
यः अद्य अपि च आस्त ऋषिवर्यनिषेवितांघ्रिः ॥ 6॥

इंद्रः विशंक्य मम धाम जिघृक्षति इति
कामं न्ययुंक्त सगणं सः बदरिउपाख्यम् ।
गत्वा अप्सरोगणवसंतसुमंदवातैः
स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः ॥ 7॥

विज्ञाय शक्रकृतं अक्रमं आदिदेवः
प्राह प्रहस्य गतविस्मयः एजमानान् ।
मा भैष्ट भो मदन मारुत देववध्वः
गृह्णीत नः बलिं अशून्यं इमं कुरुध्वम् ॥ 8॥

इत्थं ब्रुवति अभयदे नरदेव देवाः
सव्रीडनम्रशिरसः सघृणं तं ऊचुः ।
न एतत् विभो त्वयि परे अविकृते विचित्रम्
स्वारामधीः अनिकरानतपादपद्मे ॥ 9॥

त्वां सेवतां सुरकृता बहवः अंतरायाः
स्वौको विलंघ्य परमं व्रजतां पदं ते ।
न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान्
धत्ते पदं त्वं अविता यदि विघ्नमूर्ध्नि ॥ 10॥

क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान्
अस्मान् अपारजलधीन् अतितीर्य केचित् ।
क्रोधस्य यांति विफलस्य वश पदे गोः
मज्जंति दुश्चरतपः च वृथा उत्सृजंति ॥ 11॥

इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः ॥ 12॥

ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः ।
गंधेन मुमुहुः तासां रूप औदार्यहतश्रियः ॥ 13॥

तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव ।
आसां एकतमां वृंग्ध्वं सवर्णां स्वर्गभूषणाम् ॥

14॥

ॐ इति आदेशं आदाय नत्वा तं सुरवंदिनः ।
उर्वशीं अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ 15॥

इंद्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम् ।
ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः ॥ 16॥

हंसस्वरूपी अवददत् अच्युतः आत्मयोगम्
दत्तः कुमार ऋषभः भगवान् पिता नः ।
विष्णुः शिवाय जगतां कलया अवतीर्णः
तेन आहृताः मधुभिदा श्रुतयः हयास्ये ॥ 17॥

गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये
क्रौडे हतः दितिजः उद्धरता अंभसः क्ष्माम् ।
कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे
ग्राहात् प्रपन्नमिभराजं अमुंचत् आर्तम् ॥ 18॥

संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च
शक्रं च वृत्रवधतः तमसि प्रविष्टम् ।
देवस्त्रियः असुरगृहे पिहिताः अनाथाः
जघ्ने असुरेंद्रं अभयाय सतां नृसिंहे ॥ 19॥

देव असुरे युधि च दैत्यपतीन् सुरार्थे
हत्वा अंतरेषु भुवनानि अदधात् कलाभिः ।
भूत्वा अथ वामनः इमां अहरत् बलेः क्ष्माम्
यांचाच्छलेन समदात् अदितेः सुतेभ्यः ॥ 20॥

निःक्षत्रियां अकृत गां च त्रिःसप्तकृत्वः
रामः तु हैहयकुल अपि अयभार्गव अग्निः ।
सः अब्धिं बबंध दशवक्त्रं अहन् सलंकम्
सीतापतिः जयति लोकं अलघ्नकीर्तिः ॥ 21॥

भूमेः भर अवतरणाय यदुषि अजन्मा जातः
करिष्यति सुरैः अपि दुष्कराणि ।
वादैः विमोहयति यज्ञकृतः अतदर्हान्
शूद्रां कलौ क्षितिभुजः न्यहनिष्यदंते ॥ 22॥

एवंविधानि कर्माणि जन्मानि च जगत् पतेः ।
भूरीणि भूरियशसः वर्णितानि महाभुज ॥ 23॥

इति श्रीमद्भगवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे निमिजायंतसंवादे
चतुर्थोऽध्यायः ॥

बारम्बार सोधिने प्रश्नहरू

What is उद्धवगीता - चतुर्थोऽध्यायः?

उद्धवगीता - चतुर्थोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read उद्धवगीता - चतुर्थोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download उद्धवगीता - चतुर्थोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook