श्री वैकुंठ गद्यम्
यामुनार्यसुधांभोधिमवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं संदर्शयाम्यहम् ॥
स्वाधीन त्रिविधचेतनाचेतनस्वरूपस्थिति प्रवृत्तिभेदं, क्लेश कर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्यवीर्यशक्तितेजः प्रभृत्यसंख्येय कल्याणगुणगणौघ महार्णवं, परमपुरुषं, भगवंतं, नारायणं, स्वामित्वेन सुहृत्वेन गुरुत्वेन च परिगृह्य ऐकांतिकात्यंतिक तत्पादांबुजद्वय परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादांबुजद्वय प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य अखिलसत्त्वदयैकसागरस्य अनालोचित गुणगुणाखंड जनानुकूलामर्याद शीलवतः, स्वाभाविकानवधिकातिशय गुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजन हृदयानंदनस्य आश्रितवात्सल्यैकजलधेः भक्तजनसंश्लेषैकभोगस्य नित्यज्ञानक्रियैश्वर्यादि भोगसामग्रीसमृद्धस्य, महाविभूतेः, श्रीमच्चरणारविंदयुगलं अनन्यात्मसंजीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् । ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् । चतुर्दशभुवनात्मकं अंडं, दशगुणितोत्तरं च आवरणसप्तकं, समस्तं कार्यकारण(जात)मतीत्य, वर्तमाने परमव्योमशब्दाभिधेये, ब्रह्मादीनां वाङ्मनसाऽगोचरे, श्रीमति वैकुंठे दिव्यलोके, सनकविधिशिवादिभिरपि अचिंत्यस्वभावैश्वर्यैः, नित्यसिद्धैरनंतैर्भगवदानुकूल्यैक भोगैर्दिव्यपुरुषैः महात्मभिः आपूरिते, तेषामपि इयत्परिमाणं, इयदैश्वर्यं, ईदृशस्वभावमिति परिच्छेत्तुमयोग्ये, दिव्यावरणशतसहस्रावृते, दिव्यकल्पकतरूपशोभिते, दिव्योद्यान शतसहस्रकोटिभिरावृते, अतिप्रमाणे दिव्यायतने, कस्मिंश्चिद्विचित्र दिव्यरत्नमय दिव्यास्थानमंडपे, दिव्यरत्नस्तंभ शतसहस्रकोटिभिरुपशोभिते,
दिव्यनानारत्नकृतस्थल विचित्रिते, दिव्यालंकारालंकृते, परितः पतितैः पतमानैः पादपस्थैश्च नानागंधवर्णैर्दिव्यपुष्पैः शोभमानैर्दिव्यपुष्पोपवनैरुपशोभिते, संकीर्णपारिजातादि कल्पद्रुमोपशोभितैः, असंकीर्णैश्च कैश्चिदंतस्स्थपुष्परत्नादिनिर्मित दिव्यलीलामंडप शतसहस्रोपशोभितैः, सर्वदाऽनुभूयमानैरप्यपूर्ववदाश्चर्यमावहद्भिः क्रीडाशैल शतसहस्रैरलंकृतैः, कैश्चिन्नारायणदिव्यलीलाऽसाधारणैः, कैश्चित्पद्मवनालया दिव्यलीलाऽसाधारणैः, साधारणैश्च कैश्चित् शुकशारिकामयूरकोकिलादिभिः कोमलकूजितैराकुलैः, दिव्योद्यान शतसहस्रैरावृते, मणिमुक्ताप्रवाल कृतसोपानैः, दिव्यामलामृतरसोदकैः, दिव्यांडजवरैः, अतिरमणीयदर्शनैः अतिमनोहरमधुरस्वरैः आकुलैः, अंतस्थ मुक्तामय दिव्यक्रीडास्थानोपशोभितैः दिव्यसौगंधिकवापीशतसहस्रैः, दिव्यराजहंसावलीविराजितैरावृते, निरस्तातिशयानंदैकरसतया चानंत्याच्च प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैर्विराजिते, तत्र तत्र कृत दिव्यपुष्पपर्यंकोपशोभिते, नानापुष्पासवास्वाद मत्तभृंगावलीभिः उद्गीयमान दिव्यगांधर्वेणापूरिते, चंदनागरुकर्पूर दिव्यपुष्पावगाहि मंदानिलासेव्यमाने, मध्ये पुष्पसंचय विचित्रिते, महति दिव्ययोगपर्यंके अनंतभोगिनि, श्रीमद्वैकुंठैश्वर्यादि दिव्यलोकं आत्मकांत्या विश्वमाप्याययंत्या शेष शेषाशनादि सर्वपरिजनं भगवतस्तत्तदवस्थोचित परिचर्यायां आज्ञापयंत्या, शीलरूपगुण विलासादिभिः आत्मानुरूपया श्रिया सहासीनं, प्रत्यग्रोन्मीलित सरसिजसदृश नयनयुगलं, स्वच्छनीलजीमूतसंकाशं, अत्युज्ज्वलपीतवाससं, स्वया प्रभयाऽतिनिर्मलया अतिशीतलया अतिकोमलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भासयंतं,
अचिंत्यदिव्याद्भुत नित्ययौवन स्वभावलावण्यमयामृतसागरं, अतिसौकुमार्यादि ईषत् प्रस्विन्नवदालक्ष्यमाण ललाटफलक दिव्यालकावलीविराजितं, प्रबुद्धमुग्धांबुज चारुलोचनं, सविभ्रमभ्रूलतं, उज्ज्वलाधरं, शुचिस्मितं, कोमलगंडं, उन्नसं, उदग्रपीनांस विलंबिकुंडलालकावली बंधुर कंबुकंधरं, प्रियावतंसोत्पल कर्णभूषणश्लथालकाबंध विमर्दशंसिभिः चतुर्भिराजानुविलंबिभिर्भुजैर्विराजितं, अतिकोमल दिव्यरेखालंकृताताम्रकरतलं, दिव्यांगुलीयकविराजितं, अतिकोमल दिव्यनखावलीविराजितं, अतिरक्तांगुलीभिरलंकृतं, तत्क्षणोन्मीलित पुंडरीक सदृशचरणयुगलं, अतिमनोहर किरीटमकुट चूडावतंस मकरकुंडल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादामोदरबंधन पीतांबर कांचीगुण नूपुरादिभिरत्यंत सुखस्पर्शैः दिव्यगंधैर्भूषणैर्भूषितं, श्रीमत्या वैजयंत्या वनमालया विराजितं, शंखचक्रगदाऽसि शारंगादि दिव्यायुधैः सेव्यमानं, स्वसंकल्पमात्रावक्लुप्त जगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने न्यस्त समस्तात्मैश्वर्यं, वैनतेयादिभिः स्वभावतो निरस्त समस्त सांसारिक स्वभावैः भगवत्परिचर्याकरण योग्यैर्भगवत्परिचर्यैकभोगै-र्नित्यसिद्धैरनंतैः यथा योगं सेव्यमानं, आत्मभोगेन अननुसंहितपरादिकाल दिव्यामल कोमलावलोकनेन विश्वमाह्लादयंतं, ईषदुन्मीलित मुखांबुजोदरविनिर्गतेन दिव्याननारविंद शोभाजननेन दिव्यगांभीर्यौदार्य सौंदर्य माधुर्याद्यनवधिक गुणगणविभूषितेन, अतिमनोहर दिव्यभावगर्भेण दिव्यलीलाऽऽलापामृतेन अखिलजन हृदयांतराण्यापूरयंतं भगवंतं नारायणं ध्यानयोगेन दृष्ट्वा, ततो भगवतो नित्यस्वाम्यमात्मनो नित्यदास्यं च यथावस्थितमनुसंधाय, कदाऽहं भगवंतं नारायणं, मम कुलनाथं, मम कुलदैवतं, मम कुलधनं, मम भोग्यं, मम मातरं, मम पितरं, मम सर्वं साक्षात्करवाणि चक्षुषा ।
कदाऽहं भगवत्पादांबुजद्वयं शिरसा संग्रहीष्यामि । कदाऽहं भगवत्पादांबुजद्वय परिचर्याऽऽशया निरस्तसमस्तेतर भोगाशः, अपगत समस्त सांसारिकस्वभावः तत्पादांबुजद्वयं प्रवेक्ष्यामि । कदाऽहं भगवत्पादांबुजद्वय परिचर्याकरणयोग्य-स्तदेकभोगस्तत्पादौ परिचरिष्यामि । कदा मां भगवान् स्वकीयया अतिशीतलया दृशा अवलोक्य, स्निग्धगंभीरमधुरया गिरा परिचर्यायां आज्ञापयिष्यति, इति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाऽशया तत्प्रसादोपबृंहितया भगवंतमुपेत्य, दूरादेव भगवंतं शेषभोगे श्रिया सहासीनं वैनतेयादिभिः सेव्यमानं, समस्तपरिवाराय श्रीमते नारायणाय नमः, इति प्रणम्य उत्थायोत्थाय पुनः पुनः प्रणम्य अत्यंत साध्वसविनयावनतो भूत्वा, भगवत्पारिषदगणनायकैर्द्वारपालैः कृपया स्नेहगर्भया दृशाऽवलोकितः सम्यगभिवंदितैस्तैस्तैरेवानुमतो भगवंतमुपेत्य, श्रीमता मूलमंत्रेण मामैकांतिकात्यंतिक परिचर्याकरणाय परिगृह्णीष्व इति याचमानः प्रणम्यात्मानं भगवते निवेदयेत् ।
ततो भगवता स्वयमेवात्मसंजीवनेन अमर्यादशीलवता अतिप्रेमान्वितेन अवलोकनेनावलोक्य सर्वदेश सर्वकाल सर्वावस्थोचितात्यंतशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यंतसाध्वसविनयावनतः किंकुर्वाणः कृतांजलिपुटो भगवंतमुपासीत । ततश्चानुभूयमान भावविशेषः निरतिशयप्रीत्याऽन्यत्किंचित्कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानो भगवंतमेवाविच्छिन्नस्रोतोरूपेणावलोकनेन अवलोकयन्नासीत । ततो भगवता स्वयमेवात्मसंजीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्लेशापहं निरतिशयसुखावहमात्मीयं, श्रीमत्पादारविंदयुगलं शिरसि कृतं ध्यात्वा, अमृतसागरांतर्निमग्नसर्वावयवः सुखमासीत ।
लक्ष्मीपतेर्यतिपतेश्च दयैकधाम्नोः
योऽसौ पुरा समजनिष्ट जगद्धितार्थम् ।
प्राप्यं प्रकाशयतु नः परमं रहस्यं
संवाद एष शरणागति मंत्रसारः ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवैकुंठगद्यम् ।
बारम्बार सोधिने प्रश्नहरू
What is श्री वैकुंठ गद्यम्?
श्री वैकुंठ गद्यम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read श्री वैकुंठ गद्यम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री वैकुंठ गद्यम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.