श्री सुब्रह्मण्य त्रिशति स्तोत्रम्


श्रीं सौं शरवणभवः शरच्चंद्रायुतप्रभः ।
शशांकशेखरसुतः शचीमांगल्यरक्षकः ॥ 1 ॥

शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ 2 ॥

शचीनाथचतुर्वक्त्रदेवदैत्याभिवंदितः ।
शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥ 3 ॥

शंकरः शंकरप्रीतः शम्याककुसुमप्रियः ।
शंकुकर्णमहाकर्णप्रमुखाद्यभिवंदितः ॥ 4 ॥

शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शंखपाणिप्रियः शंखोपमषड्गलसुप्रभः ॥ 5 ॥

शंखघोषप्रियः शंखचक्रशूलादिकायुधः ।
शंखधाराभिषेकादिप्रियः शंकरवल्लभः ॥ 6 ॥

शब्दब्रह्ममयश्चैव शब्दमूलांतरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानंदः शचीस्तुतः ॥ 7 ॥

शतकोटिप्रविस्तारयोजनायतमंदिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ 8 ॥

शतकोटिमहर्षींद्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसंगीतकौतुकः ॥ 9 ॥

शतकोटींद्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलांडादिमहाब्रह्मांडनायकः ॥ 10 ॥

शंखपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शंखपद्मनिधीनां च कोटिभिः परिसेवितः ॥ 11 ॥

शशांकादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शंखपालाद्यष्टनागकोटीभिः परिसेवितः ॥ 12 ॥

शशांकारपतंगादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभंजनः ॥ 13 ॥

शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ 14 ॥

शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ 15 ॥

शशांकार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ 16 ॥

रतीशकोटिसौंदर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ 17 ॥

राजराजेश्वरीपुत्रो राजेंद्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचंद्राग्निलोचनः ॥ 18 ॥

रत्नांगदमहाबाहू रत्नताटंकभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ 19 ॥

रत्नकिंकिणिकांच्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुरांघ्रिसरोरुहः ॥ 20 ॥

रत्नकंकणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमंदिरः ॥ 21 ॥

राकेंदुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगंधर्वकोटिकोट्यभिवंदितः ॥ 22 ॥

रणरंगे महादैत्यसंग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ 23 ॥

राक्षसांगसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ 24 ॥

रणरंगजयो रामास्तोत्रश्रवणकौतुकः ।
रंभाघृताचीविश्वाचीमेनकाद्यभिवंदितः ॥ 25 ॥

रक्तपीतांबरधरो रक्तगंधानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ 26 ॥

रविप्रियो रावणेशस्तोत्रसाममनोहरः ।
राज्यप्रदो रंध्रगुह्यो रतिवल्लभसुप्रियः ॥ 27 ॥

रणानुबंधनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसंभवद्वेषी राजीवासनपूजितः ॥ 28 ॥

रमणीयमहाचित्रमयूरारूढसुंदरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ 29 ॥

वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसंपूज्यो वज्रपाणिमनोहरः ॥ 30 ॥

वाणीस्तुतो वासवेशो वल्लीकल्याणसुंदरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ 31 ॥

वल्लीद्विनयनानंदो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ 32 ॥

वल्लीकुमुदहास्येंदुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौंदर्यो वल्लीविद्युल्लताघनः ॥ 33 ॥

वल्लीमंगलवेषाढ्यो वल्लीमुखवशंकरः ।
वल्लीकुचगिरिद्वंद्वकुंकुमांकितवक्षकः ॥ 34 ॥

वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुंडानुजो वत्सो वत्सलो वत्सरक्षकः ॥ 35 ॥

वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ 36 ॥

वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ 37 ॥

वामांगो वामनयनो वचद्भूर्वामनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ 38 ॥

वसिष्ठादिमुनिश्रेष्ठवंदितो वंदनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ 39 ॥

णकाररूपो नादांतो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥

णकारनादसंतुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ 41 ॥

णकारबिंदुनिलयो नवग्रहसुरूपकः ।
णकारपठनानंदो नंदिकेश्वरवंदितः ॥ 42 ॥

णकारघंटानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ 43 ॥

णकारपंकजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ 44 ॥

णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसंगीतसुप्रियः ॥ 45 ॥

णकारबिंदुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेंद्राग्रसमुत्पन्नसुधारणिः ॥ 46 ॥

णकारपेटकमणिर्नागपर्वतमंदिरः ।
णकारकरुणानंदो नादात्मा नागभूषणः ॥ 47 ॥

णकारकिंकिणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥ 48 ॥

णकारकमलारूढो नामानंतसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥ 49 ॥

णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमंत्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥

णकारमूलनादांतो णकारस्तंभनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ 51 ॥

भक्तप्रियो भक्तवंद्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभंजनो भद्रो भक्तसौभाग्यदायकः ॥ 52 ॥

भक्तमंगलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसंतुष्टो भक्तसंघसुपूजितः ॥ 53 ॥

भक्तस्तोत्रप्रियानंदो भक्ताभीष्टप्रदायकः ।
भक्तसंपूर्णफलदो भक्तसाम्राज्यभोगदः ॥ 54 ॥

भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ 55 ॥

भवांधकारमार्तांडो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥ 56 ॥

भवमृत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ 57 ॥ [भय]

भाषितध्वनिमूलांतो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ 58 ॥

भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौंचासुरद्वेषो भार्गवीनाथवल्लभः ॥ 59 ॥

भटवीरनमस्कृत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥

भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ 61 ॥

वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेंदुश्च वकाराब्धिसुधामयः ॥ 62 ॥

वकारामृतमाधुर्यो वकारामृतदायकः ।
दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ 63 ॥

वकारोदधिपूर्णेंदुः वकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥ 64 ॥

वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपंकजरसो वसुर्वंशविवर्धनः ॥ 65 ॥

वकारदिव्यकमलभ्रमरो वायुवंदितः ।
वकारशशिसंकाशो वज्रपाणिसुताप्रियः ॥ 66 ॥

वकारपुष्पसद्गंधो वकारतटपंकजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ 67 ॥

वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥ 68 ॥

वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥ 69 ॥

वकारगंगावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥

वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमंत्रार्थो वकारगृहमंगलम् ॥ 71 ॥

वकारस्वर्गमाहेंद्रो वकारारण्यवारणः ।
वकारपंजरशुको वलारितनयास्तुतः ॥ 72 ॥

वकारमंत्रमलयसानुमन्मंदमारुतः ।
वाद्यंतभांत षट्क्रम्य जपांते शत्रुभंजनः ॥ 73 ॥

वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पलकादंबपुष्पदामस्वलंकृतः ॥ 74 ॥

वज्रशक्त्यादिसंपन्नद्विषट्पाणिसरोरुहः ।
वासनागंधलिप्तांगो वषट्कारो वशीकरः ॥ 75 ॥

वासनायुक्ततांबूलपूरिताननसुंदरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥

इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।

बारम्बार सोधिने प्रश्नहरू

What is श्री सुब्रह्मण्य त्रिशति स्तोत्रम्?

श्री सुब्रह्मण्य त्रिशति स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read श्री सुब्रह्मण्य त्रिशति स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री सुब्रह्मण्य त्रिशति स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook