श्री शोडश बाहु नरसिंह अष्टकम्
भूखंडं वारणांडं परवरविरटं डंपडंपोरुडंपं
डिं डिं डिं डिं डिडिंबं दहमपि दहमैः झंपझंपैश्चझंपैः ।
तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुंकुमांकैः कुमांकैः
एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ 1 ॥
भूभृद्भूभृद्भुजंगं प्रलयरववरं प्रज्वलज्ज्वालमालं
खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयंतम् ।
भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगंडं
स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ 2 ॥
एनाभ्रं गर्जमानं लघुलघुमकरो बालचंद्रार्कदंष्ट्रो
हेमांभोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।
दंतानां बाधमानां खगटखगटवो भोजजानुस्सुरेंद्रो
निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ 3 ॥
शंखं चक्रं च चापं परशुमशमिषुं शूलपाशांकुशास्त्रं
बिभ्रंतं वज्रखेटं हलमुसलगदाकुंतमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
वंदे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ 4 ॥
पादद्वंद्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं
नाभिं ब्रह्मांडसिंधुः हृदयमपि भवो भूतविद्वत्समेतः ।
दुश्चक्रांकं स्वबाहुं कुलिशनखमुखं चंद्रसूर्याग्निनेत्रं
वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ 5 ॥
नासाग्रं पीनगंडं परबलमथनं बद्धकेयूरहारं
रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रम् ।
गांभीर्यं पिंगलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं
वंदे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ 6 ॥
के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा
देवंद्यो विप्रदंडं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन
ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ 7 ॥
झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं
हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारम् ।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं
लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ 8 ॥
भूतप्रेतपिशाचयक्षगणशः देशांतरोच्चाटना
चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयम् ।
संध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः
प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ 9 ॥ ।
इति श्रीविजयींद्रतीर्थ कृतं श्री षोडशबाहु नृसिंहाष्टकम् ।
बारम्बार सोधिने प्रश्नहरू
What is श्री शोडश बाहु नरसिंह अष्टकम्?
श्री शोडश बाहु नरसिंह अष्टकम् is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read श्री शोडश बाहु नरसिंह अष्टकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री शोडश बाहु नरसिंह अष्टकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.