श्री गुरुगीता प्रथमोध्यायः


श्रीगुरुभ्यो नमः ।
हरिः ओम् ।

ध्यानम्
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणं
विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छंदमानंदकम् ।
आद्यंतैकमखंडचिद्घनरसं पूर्णं ह्यनंतं शुभं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥

अथ प्रथमोऽध्यायः ॥

अचिंत्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 1 ॥

ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ निगमागमपारग ।
गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ॥ 2 ॥

यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ॥ 3 ॥

यत्प्राप्य न पुनर्याति नरः संसारबंधनम् ।
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ॥ 4 ॥

गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः ।
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ॥ 5 ॥

इति संप्रार्थितः सूतो मुनिसंघैर्मुहुर्मुहुः ॥

कुतूहलेन महता प्रोवाच मधुरं वचः ॥ 6 ॥

सूत उवाच ।
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ॥ 7 ॥

पुरा कैलासशिखरे सिद्धगंधर्वसेविते ।
तत्र कल्पलतापुष्पमंदिरेऽत्यंतसुंदरे ॥ 8 ॥

व्याघ्राजिने समासीनं शुकादिमुनिवंदितम् ।
बोधयंतं परं तत्त्वं मध्ये मुनिगणे क्वचित् ॥ 9 ॥

प्रणम्रवदना शश्वन्नमस्कुर्वंतमादरात् ।
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ॥ 10 ॥

पार्वत्युवाच ।
ॐ नमो देव देवेश परात्पर जगद्गुरो ।
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ॥ 11 ॥

विधिविष्णुमहेंद्राद्यैर्वंद्यः खलु सदा भवान् ।
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ॥ 12 ॥

दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
किमेतन्न विजानेऽहं कृपया वद मे प्रभो ॥ 13 ॥

भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
ब्रूहि मे कृपया शंभो गुरुमाहात्म्यमुत्तमम् ॥ 14 ॥

केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
तत्कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ 15 ॥

इति संप्रार्थितः शश्वन्महादेवो महेश्वरः ।
आनंदभरितः स्वांते पार्वतीमिदमब्रवीत् ॥ 16 ॥

श्री महादेव उवाच ।
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ॥ 17 ॥

मम रूपाऽसि देवि त्वमतस्तत्कथयामि ते ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ 18 ॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः ॥ 19 ॥

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ॥ 20 ॥

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ।
गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ॥ 21 ॥

वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
मंत्रयंत्रादिविद्यानां मोहनोच्चाटनादिकम् ॥ 22 ॥

शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
अपभ्रंशाः समस्तानां जीवानां भ्रांतचेतसाम् ॥ 23 ॥

जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ॥ 24 ॥

गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ॥ 25 ॥

गूढाविद्या जगन्माया देहश्चाज्ञानसंभवः ।
विज्ञानं यत्प्रसादेन गुरुशब्देन कथ्यते ॥ 26 ॥

यदंघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकम् ।
तारकं भवसिंधोश्च तं गुरुं प्रणमाम्यहम् ॥ 27 ॥

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ॥ 28 ॥

सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ॥ 29 ॥

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ॥ 30 ॥

अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् ॥ 31 ॥

गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम सदा जपः ॥ 32 ॥

स्वदेशिकस्यैव च नामकीर्तनं
भवेदनंतस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिंतनं
भवेदनंतस्य शिवस्य चिंतनम् ॥ 33 ॥

यत्पादांबुजरेणुर्वै कोऽपि संसारवारिधौ ।
सेतुबंधायते नाथं देशिकं तमुपास्महे ॥ 34 ॥

यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेंद्राय नमोऽस्तु परमात्मने ॥ 35 ॥

यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेंद्राय नमश्चाभीष्टसिद्धये ॥ 36 ॥

काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम् ।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ॥ 37 ॥

गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनस्ततम् ॥ 38 ॥

गुरुमूर्तिं स्मरेन्नित्यं गुरोर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ 39 ॥

गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ॥ 40 ॥

स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ॥ 41 ॥

अनन्याश्चिंतयंतो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ 42 ॥

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ॥ 43 ॥

गुकारश्चांधकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ 44 ॥

गुकारश्चांधकारस्तु रुकारस्तन्निरोधकृत् ।
अंधकारविनाशित्वाद्गुरुरित्यभिधीयते ॥

गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्वाच्च गुरुरित्यभिधीयते ॥ 45 ॥

गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ॥ 46 ॥

गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रांतिविमोचकम् ॥ 47 ॥

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्चैव गंधर्वाद्यैश्च पूजितम् ॥ 48 ॥

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ॥ 49 ॥

आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसंतोषकारणम् ॥ 50 ॥

कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदंडं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ 51 ॥

शरीरमिंद्रियं प्राणमर्थस्वजनबांधवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ 52 ॥

गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ॥ 53 ॥

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् ।
वेदांतार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ॥ 54 ॥

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ॥ 55 ॥

[पाठभेदः –
कृमिकोटिभिराविष्टं दुर्गंधमलमूत्रकम् ।
श्लेष्मरक्तत्वचामांसैर्नद्धं चैतद्वरानने ॥
]
कृमिकोटिभिराविष्टं दुर्गंधकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने ॥ 56 ॥

संसारवृक्षमारूढाः पतंति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ॥ 57 ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ 58 ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 59 ॥

अखंडमंडलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 60 ॥

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
त्वं पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 61 ॥

चिन्मयव्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 62 ॥

निमिषान्निमिषार्धाद्वा यद्वाक्याद्वै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ॥ 63 ॥

चैतन्यं शाश्वतं शांतं व्योमातीतं निरंजनम् ।
नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः ॥ 64 ॥

निर्गुणं निर्मलं शांतं जंगमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ 65 ॥

स पिता स च मे माता स बंधुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः ॥ 66 ॥

यत्सत्त्वेन जगत्सत्त्वं यत्प्रकाशेन भाति तत् ।
यदानंदेन नंदंति तस्मै श्रीगुरवे नमः ॥ 67 ॥

यस्मिन् स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ 68 ॥

येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ 69 ॥

यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ 70 ॥

यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥ 71 ॥

यस्मै कारणरूपाय कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 72 ॥

नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 73 ॥

ज्ञानशक्तिसमारूढतत्त्वमालाविभूषिणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ 74 ॥

अनेकजन्मसंप्राप्तकर्मबंधविदाहिने ।
ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः ॥ 75 ॥

शोषणं भवसिंधोश्च दीपनं क्षरसंपदाम् ।
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ॥ 76 ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ॥ 77 ॥

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममाऽऽत्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 78 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरुमंत्रसमो नास्ति तस्मै श्रीगुरवे नमः ॥ 79 ॥

एक एव परो बंधुर्विषमे समुपस्थिते ।
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ॥ 80 ॥

गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः ।
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ॥ 81 ॥

भवारण्यप्रविष्टस्य दिङ्मोहभ्रांतचेतसः ।
येन संदर्शितः पंथाः तस्मै श्रीगुरवे नमः ॥ 82 ॥

तापत्रयाग्नितप्तानामशांतप्राणिनां मुदे ।
गुरुरेव परा गंगा तस्मै श्रीगुरवे नमः ॥ 83 ॥

[पाठभेदः –
अज्ञानेनाहिना ग्रस्ताः प्राणिनस्तान् चिकित्सकः ।
विद्यास्वरूपो भगवांस्तस्मै श्रीगुरवे नमः ॥
]
अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः ।
सम्यग्​ज्ञानमहामंत्रवेदिनं सद्गुरु विना ॥ 84 ॥

हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शंभवे गुरवे नमः ॥ 85 ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मंत्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ॥ 86 ॥

सप्तसागरपर्यंततीर्थस्नानफलं तु यत् ।
गुरोः पादोदबिंदोश्च सहस्रांशे न तत्फलम् ॥ 87 ॥

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
लब्ध्वा कुलगुरुं सम्यग्गुरुमेव समाश्रयेत् ॥ 88 ॥

मधुलुब्धो यथा भृंगः पुष्पात्पुष्पांतरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वंतरं व्रजेत् ॥ 89 ॥

वंदे गुरुपदद्वंद्वं वाङ्मनातीतगोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ 90 ॥

गुकारं च गुणातीतं रूकारं रूपवर्जितम् ।
गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः ॥ 91 ॥

अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः ।
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ 92 ॥

अयं मयांजलिर्बद्धो दयासागरसिद्धये ।
यदनुग्रहतो जंतुश्चित्रसंसारमुक्तिभाक् ॥ 93 ॥

श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः ।
मंदभाग्या न पश्यंति अंधाः सूर्योदयं यथा ॥ 94 ॥

कुलानां कुलकोटीनां तारकस्तत्र तत्​क्षणात् ।
अतस्तं सद्गुरुं ज्ञात्वा त्रिकालमभिवादयेत् ॥ 95 ॥

श्रीनाथचरणद्वंद्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ 96 ॥

साष्टांगप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात् स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ 97 ॥

दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टांग उच्यते ॥ 98 ॥

तस्यै दिशे सततमंजलिरेष नित्यं
प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥ 99 ॥

अभ्यस्तैः किमु दीर्घकालविमलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्​क्षणात्
प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ॥ 100 ॥

ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोस्समानतो नान्यत् साधनं गुरुमार्गिणाम् ॥ 101 ॥

यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ॥ 102 ॥

गुरोः कृपाप्रसादेन ब्रह्मविष्णुमहेश्वराः ।
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यंतकर्मणि ॥ 103 ॥

देवकिन्नरगंधर्वाः पितृयक्षास्तु तुंबुरः ।
मुनयोऽपि न जानंति गुरुशुश्रूषणे विधिम् ॥ 104 ॥

तार्किकाश्छांदसाश्चैव दैवज्ञाः कर्मठाः प्रिये ।
लौकिकास्ते न जानंति गुरुतत्त्वं निराकुलम् ॥ 105 ॥

महाहंकारगर्वेण ततोविद्याबलेन च ।
भ्रमंति चास्मिन् संसारे घटीयंत्रं यथा पुनः ॥ 106 ॥

यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा ।
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ॥ 107 ॥

न मुक्तास्तु च गंधर्वाः पितृयक्षास्तु चारणाः ।
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ॥ 108 ॥

इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां प्रथमोऽध्यायः ॥

बारम्बार सोधिने प्रश्नहरू

What is श्री गुरुगीता प्रथमोध्यायः?

श्री गुरुगीता प्रथमोध्यायः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read श्री गुरुगीता प्रथमोध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री गुरुगीता प्रथमोध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook