श्री गायत्री हृदयं
नारद उवाच
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमंत्रविग्रहम् ॥ 1 ॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ 2 ॥
श्रीनारायण उवाच
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ 3 ॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथांगेषु ध्यायेदेताश्च देवताः ॥ 4 ॥
पिंडब्रह्मंडयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ 5 ॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ 6 ॥
अथ तत्संप्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
गायत्रीहृदयस्याऽस्याऽप्यहमेव ऋषिः स्मृतः ॥ 7 ॥
गायत्रीछंद उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादंगानि षट्क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ 8 ॥
अथार्थन्यासः । द्यौमूर्ध्नि दैवतम् । दंतपंक्तावश्विनौ । उभे संध्ये चौष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः । आकाशमुदरम् । नाभावंतरिक्षम् । कट्योरिंद्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलासमलये ऊरू । विश्वेदेवा जान्वोः । जंघायां कौशिकः । गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पतयोऽंगुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः । असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् । अहोरात्रावादित्यश्चंद्रमाः । प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥
ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायं प्रातरधीयानो अपापो भवति । सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अभोज्यभोजनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति । असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो भवति । पंक्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो भवति । अथाऽब्रह्मचारी ब्रह्मचारी भवती । अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवंति । अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति । ब्रह्मलोके महीयते ॥
इत्याह भगवान् श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे श्री गायत्री हृदयं नाम चतुर्थोऽध्यायः ॥
बारम्बार सोधिने प्रश्नहरू
What is श्री गायत्री हृदयं?
श्री गायत्री हृदयं is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read श्री गायत्री हृदयं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री गायत्री हृदयं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.