श्री दक्षिण काली खद्गमाला स्तोत्रं


अस्य श्रीदक्षिणकालिका खड्गमालामंत्रस्य श्री भगवान् महाकालभैरव ऋषिः उष्णिक् छंदः शुद्धः ककार त्रिपंचभट्टारकपीठस्थित महाकालेश्वरांकनिलया, महाकालेश्वरी त्रिगुणात्मिका श्रीमद्दक्षिणा कालिका महाभयहारिका देवता क्रीं बीजं ह्रीं शक्तिः हूं कीलकं मम सर्वाभीष्टसिद्ध्यर्थे खड्गमालामंत्र जपे विनियोगः ॥

ऋष्यादि न्यासः
ॐ महाकालभैरव ऋषये नमः शिरसि ।
उष्णिक् छंदसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
क्रीं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
हूं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वांगे ।

करन्यासः
ॐ क्रां अंगुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुम् ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ।

ध्यानम्
सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं
घोरास्यां शिरसि स्रजा सुरुचिरानुन्मुक्त केशावलिम् ।
सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालंकृतिं
श्यामांगीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ 1 ॥

शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुंडवराभयकरां शिवाम् ।
मुंडमालाधरां देवीं ललज्जिह्वां दिगंबरां
एवं संचिंतयेत्कालीं श्मशानालयवासिनीम् ॥ 2 ॥

लमित्यादि पंचपूजाः
लं पृथिव्यात्मिकायै गंधं समर्पयामि ।
हं आकाशात्मिकायै पुष्पं समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ।

अथ खड्गमाला
ॐ ऐं ह्रीं श्रीं क्रीं हूं ह्रीं श्रीमद्दक्षिणकालिके, हृदयदेवि सिद्धिकालिकामयि, शिरोदेवि महाकालिकामयि, शिखादेवि गुह्यकालिकामयि, कवचदेवि श्मशानकालिकामयि, नेत्रदेवि भद्रकालिकामयि, अस्त्रदेवि श्रीमद्दक्षिणकालिकामयि, सर्वसंपत्प्रदायक चक्रस्वामिनि । जया सिद्धिमयि, अपराजिता सिद्धिमयि, नित्या सिद्धिमयि, अघोरा सिद्धिमयि, सर्वमंगलमयचक्रस्वामिनि । श्रीगुरुमयि, परमगुरुमयि, परात्परगुरुमयि, परमेष्ठिगुरुमयि, सर्वसंपत्प्रदायकचक्रस्वामिनि । महादेव्यंबामयि, महादेवानंदनाथमयि, त्रिपुरांबामयि, त्रिपुरभैरवानंदनाथमयि, ब्रह्मानंदनाथमयि, पूर्वदेवानंदनाथमयि, चलच्चितानंदनाथमयि, लोचनानंदनाथमयि, कुमारानंदनाथमयि, क्रोधानंदनाथमयि, वरदानंदनाथमयि, स्मराद्वीर्यानंदनाथमयि, मायांबामयि, मायावत्यंबामयि, विमलानंदनाथमयि, कुशलानंदनाथमयि, भीमसुरानंदनाथमयि, सुधाकरानंदनाथमयि, मीनानंदनाथमयि, गोरक्षकानंदनाथमयि, भोजदेवानंदनाथमयि, प्रजापत्यानंदनाथमयि, मूलदेवानंदनाथमयि, ग्रंथिदेवानंदनाथमयि, विघ्नेश्वरानंदनाथमयि, हुताशनानंदनाथमयि, समरानंदनाथमयि, संतोषानंदनाथमयि, सर्वसंपत्प्रदायकचक्रस्वामिनि । कालि, कपालिनि, कुल्ले, कुरुकुल्ले, विरोधिनि, विप्रचित्ते, उग्रे, उग्रप्रभे, दीप्ते, नीले, घने, बलाके, मात्रे, मुद्रे, मित्रे, सर्वेप्सितफलप्रदायकचक्रस्वामिनि । ब्राह्मि, नारायणि, माहेश्वरि, चामुंडे, कौमारि, अपराजिते, वाराहि, नारसिंहि, त्रैलोक्यमोहनचक्रस्वामिनि । असितांगभैरवमयि, रुरुभैरवमयि, चंडभैरवमयि, क्रोधभैरवमयि, उन्मत्तभैरवमयि, कपालिभैरवमयि, भीषणभैरवमयि, संहारभैरवमयि, सर्वसंक्षोभण चक्रस्वामिनि । हेतुवटुकानंदनाथमयि, त्रिपुरांतकवटुकानंदनाथमयि, वेतालवटुकानंदनाथमयि, वह्निजिह्ववटुकानंदनाथमयि, कालवटुकानंदनाथमयि, करालवटुकानंदनाथमयि, एकपादवटुकानंदनाथमयि, भीमवटुकानंदनाथमयि, सर्वसौभाग्यदायकचक्रस्वामिनि । ॐ ऐं ह्रीं क्लीं हूं फट् स्वाहा सिंहव्याघ्रमुखी योगिनिदेवीमयि, सर्पासुमुखी योगिनिदेवीमयि, मृगमेषमुखी योगिनिदेवीमयि, गजवाजिमुखी योगिनिदेवीमयि, बिडालमुखी योगिनिदेवीमयि, क्रोष्टासुमुखी योगिनिदेवीमयि, लंबोदरी योगिनिदेवीमयि, ह्रस्वजंघा योगिनिदेवीमयि, तालजंघा योगिनिदेवीमयि, प्रलंबोष्ठी योगिनिदेवीमयि, सर्वार्थदायकचक्रस्वामिनि । ॐ ऐं ह्रीं श्रीं क्रीं हूं ह्रीं इंद्रमयि, अग्निमयि, यममयि, निरृतिमयि, वरुणमयि, वायुमयि, कुबेरमयि, ईशानमयि, ब्रह्ममयि, अनंतमयि, वज्रिणि, शक्तिनि, दंडिनि, खड्गिनि, पाशिनि, अंकुशिनि, गदिनि, त्रिशूलिनि, पद्मिनि, चक्रिणि, सर्वरक्षाकरचक्रस्वामिनि । खड्गमयि, मुंडमयि, वरमयि, अभयमयि, सर्वाशापरिपूरकचक्रस्वामिनि । वटुकानंदनाथमयि, योगिनिमयि, क्षेत्रपालानंदनाथमयि, गणनाथानंदनाथमयि, सर्वभूतानंदनाथमयि, सर्वसंक्षोभणचक्रस्वामिनि । नमस्ते नमस्ते फट् स्वाहा ॥

चतुरस्त्राद्बहिः सम्यक् संस्थिताश्च समंततः ।
ते च संपूजिताः संतु देवाः देवि गृहे स्थिताः ॥

सिद्धाः साध्याः भैरवाश्च गंधर्वा वसवोऽश्विनौ ।
मुनयो ग्रहास्तुष्यंतु विश्वेदेवाश्च उष्मयाः ॥

रुद्रादित्याश्च पितरः पन्नगाः यक्षचारणाः ।
योगेश्वरोपासका ये तुष्यंति नरकिन्नराः ॥

नागा वा दानवेंद्राश्च भूतप्रेतपिशाचकाः ।
अस्त्राणि सर्वशस्त्राणि मंत्र यंत्रार्चन क्रियाः ॥

शांतिं कुरु महामाये सर्वसिद्धिप्रदायिके ।
सर्वसिद्धिमयचक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥

सर्वज्ञे सर्वशक्ते सर्वार्थप्रदे शिवे सर्वमंगलमये सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वमंगलदायक चक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥

क्रीं ह्रीं हूं क्ष्म्यूं महाकालाय, हौं महादेवाय, क्रीं कालिकायै, हौं महादेव महाकाल सर्वसिद्धिप्रदायक देवी भगवती चंडचंडिका चंडचितात्मा प्रीणातु दक्षिणकालिकायै सर्वज्ञे सर्वशक्ते श्रीमहाकालसहिते श्रीदक्षिणकालिकायै नमस्ते नमस्ते फट् स्वाहा ।
ह्रीं हूं क्रीं श्रीं ह्रीं ऐं ओम् ॥

इति श्रीरुद्रयामले दक्षिणकालिका खड्गमाला स्तोत्रम् ।

बारम्बार सोधिने प्रश्नहरू

What is श्री दक्षिण काली खद्गमाला स्तोत्रं?

श्री दक्षिण काली खद्गमाला स्तोत्रं is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read श्री दक्षिण काली खद्गमाला स्तोत्रं online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री दक्षिण काली खद्गमाला स्तोत्रं as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook