श्री बगलामुखी स्तोत्रम् – 1
ॐ अस्य श्रीबगलामुखीस्तोत्रस्य
नारदृषिः
श्री बगलामुखी देवता
मम सन्निहितानां विरोधिनां वाङ्मुख-पदबुद्धीनां स्तंभनार्थे स्तोत्रपाठे विनियोगः
मध्येसुधाब्धि मणिमंटप रत्नवेदि
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीतांबराभरण माल्यविभूषितांगीं
देवीं भजामि धृतमुद्गरवैरि जिह्वाम् ॥ 1 ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयंतीम् ।
गदाभिघातेन च दक्षिणेन
पीतांबराढ्यां द्विभुजां भजामि ॥ 2 ॥
चलत्कनककुंडलोल्लसितचारुगंडस्थलां
लसत्कनकचंपक द्युतिमदिंदुबिंबाननाम् ।
गदाहत विपक्षकां कलितलोलजिह्वांचलां
स्मरामि बगलामुखीं विमुखवाङ्मनस्स्तंभिनीम् ॥ 3 ॥
पीयूषो दधिमध्यचारु विलस द्रक्तोत्पले मंटपे
सत्सिंहासन मौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां
इत्थं ध्यायति यांति तस्य विलयं सद्योथ सर्वापदः ॥ 4 ॥
देवित्त्वच्चरणांबुजार्चनकृते यः पीत पुष्पांजलीन्
भक्त्या वामकरे निधाय च मनुं मंत्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुंभकवशाद्बीजं स्मरेत्पार्थिव-
स्तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥ 5 ॥
वादी मूकति कंकति क्षितिपतिर्वैश्वानरश्शीतिति
क्रोधीशाम्यति दुर्जनस्सुजनति क्षिप्रानुगः खंजति ।
गर्वी खर्वति सर्वविच्च जडति त्वद्यंत्रणा यंत्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ 6 ॥
मंत्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यंत्रं वादिनियंत्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जंतोर्मुखे
त्वन्नामग्रहणेन संसदि मुख स्तंभो भवेद्वादिनाम् ॥ 7 ॥
दुष्टस्तंभनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतस्समाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ 8 ॥
मातर्भंजय मे विपक्षवदनां जिह्वां च संकीलय
ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तंभय ।
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौरांगि पीतांबरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ 9 ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।
मातंगि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहिमाम् ॥ 10 ॥
संरंभे सौरसंघे प्रहरणसमये बंधनेवारिमध्ये
विद्यावादेविवादे प्रतिकृतिनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तंभने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ 11 ॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी
योषाकर्षणकारिणी त्रिजगतामानंदसंवर्धिनी ।
दुस्फोटोच्चाटनकारिणी जनमनस्संमोहसंदायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रमंत्रो यथा ॥ 12 ॥
विद्यालक्ष्मीस्सर्वसौभाग्यमायुः
पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानो भोगो वश्यमारोग्यसौख्यं
प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥ 13 ॥
यत्कृतं च जपं होमं गदितं परमेश्वरी ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ 14 ॥
पीतांबरां तां द्विभुजां त्रिनेत्रां गात्रगोज्ज्वलाम् ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ॥ 15 ॥
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं नदेयं यस्य कस्यचित् ॥ 16 ॥
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरात्
धृत्वायंत्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदांधकरिणस्सर्पा मृगेंद्रादिकाः
ते वै यांति विमोहिता रिपुगणा लक्ष्मीः स्थिरास्सिद्धयः ॥ 17 ॥
इति श्री रुद्रयामले तंत्रे श्री बगलामुखी स्तोत्रम् ॥
बारम्बार सोधिने प्रश्नहरू
What is श्री बगलामुखी स्तोत्रम् - 1?
श्री बगलामुखी स्तोत्रम् - 1 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read श्री बगलामुखी स्तोत्रम् - 1 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री बगलामुखी स्तोत्रम् - 1 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.