संतान गोपाल स्तोत्रम्


ॐ गोपालाय विद्महे गोपीजन वल्लभाय धीमहि ।
तन्नो गोपालः प्रचोदयात् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं देवकी सुत गोविंद वासुदेव जगत्पते
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
भूर्भुवस्सुवरोम् । इति दिग्विमोकः ॥

श्रीशं कमलपत्राक्षं देवकीनंदनं हरिम् ।
सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥ 1 ॥

नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् ।
यशोदांकगतं बालं गोपालं नंदनंदनम् ॥ 2 ॥

अस्माकं पुत्रलाभाय गोविंदं मुनिवंदितम् ।
नमाम्यहं वासुदेवं देवकीनंदनं सदा ॥ 3 ॥

गोपालं डिंभकं वंदे कमलापतिमच्युतम् ।
पुत्रसंप्राप्तये कृष्णं नमामि यदुपुंगवम् ॥ 4 ॥

पुत्रकामेष्टि फलदं कंजाक्षं कमलापतिम् ।
देवकीनंदनं वंदे सुतसंप्राप्तये त्वहम् (मम) ॥ 5 ॥

पद्मापते पद्मनेत्र पद्मनाभ जनार्दन ।
देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ 6 ॥

यशोदांकगतं बालं गोविंदं मुनिवंदितम् ।
अनंत (अस्माकं) पुत्रलाभाय नमामि श्रीशमच्युतम् ॥ 7 ॥

भूतकृत्-भूतभृद्भावो भुतात्मा भूतभावनः (श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत) ।
गोविंद मे सुतं देहि नमामि त्वां जनार्दन ॥ 8 ॥

भक्तकामद गोविंद भक्तरक्ष शुभप्रद ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 9 ॥

रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा ।
भक्तमंदार पद्माक्ष त्वामहं शरणं गतः ॥ 10 ॥

देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 11 ॥

वासुदेव जगद्वंद्य श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 12 ॥

कंजाक्ष कमलानाथ परकारुणिकोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 13 ॥

लक्ष्मीपते पद्मनाभ मुकुंद मुनिवंदित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 14 ॥

कार्यकारणरूपाय वासुदेवाय ते सदा ।
नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ 15 ॥

राजीवनेत्र श्रीराम रावणारे हरे कवे ।
तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ 16 ॥

अनंत (अस्माकं) पुत्रलाभाय भजामि त्वां जगत्पते ।
देहि मे तनयं कृष्ण वासुदेव रमापते ॥ 17 ॥

श्रीमानिनी मानहारि (श्रीमानिनी मानचोर) गोपीवस्त्रापहारक ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 18 ॥

अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनंदन ।
रमापते वासुदेव मुकुंद मुनिवंदित ॥ 19 ॥

वासुदेव सुतं देहि तनयं देहि माधव ।
पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ 20 ॥

डिंभकं देहि श्रीकृष्ण आत्मजं देहि राघव ।
भक्तमंदार मे देहि तनयं नंदनंदन ॥ 21 ॥

नंदनं देहि मे कृष्ण वासुदेव जगत्पते ।
कमलानाथ गोविंद मुकुंद मुनिवंदित ॥ 22 ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ 23 ॥

यशोदास्तन्यपानज्ञं पिबंतं यदुनंदनम् ।
वंदेऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ 24 ॥

नंदनंदन देवेश नंदनं देहि मे प्रभो ।
रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ 25 ॥

पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव ।
अस्माकं दीनवाक्यं च (दीनवाक्यस्य) अवधारय श्रीपते ॥ 26 ॥

गोपाल डिंभ गोविंद वासुदेव रमापते ।
अस्माकं डिंभकं देहि श्रियं देहि जगत्पते ॥ 27 ॥

मद्वांछितफलं देहि देवकीनंदनाच्युत ।
मांद (मम) पुत्रार्थितं धन्यं कुरुष्व यदुनंदन ॥ 28 ॥

याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम् ।
भक्तचिंतामणे राम कल्पवृक्ष महाप्रभो ॥ 29 ॥

आत्मजं नंदनं पुत्रं कुमारं डिंभकं सुतम् ।
अर्भकं तनयं देहि सदा मे रघुनंदन ॥ 30 ॥

वंदे संतानगोपालं माधवं भक्तकामदम् ।
अस्माकं पुत्रसंप्राप्त्यै सदा गोविंदमच्युतम् ॥ 31 ॥

ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनंदनम् ।
क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ 32 ॥

वासुदेव मुकुंदेश गोविंद माधवाच्युत ।
देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ 33 ॥

राजीवनेत्र गोविंद कपिलाक्ष हरे प्रभो ।
समस्त काम्यवरद देहि मे तनयं सदा ॥ 34 ॥

पद्मनाभ श्यामपद्म बृंदरूप जगद्पते (अब्जपद्मनिभ पद्मवृंदरूप जगत्पते) ।
सत्पुत्रं (वरसत्पुत्रं) देहि मे देव रमानायक (रूपनायक) माधव ॥ 35 ॥

नंदपाल धरापाल गोविंद यदुनंदन ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 36 ॥

दासमंदार गोविंद मुकुंद माधवाच्युत ।
गोपाल पुंडरीकाक्ष देहि मे तनयं श्रियम् ॥ 37 ॥

यदुनायक पद्मेश नंदगोपवधूसुत ।
देहि मे तनयं कृष्ण श्रीराध (श्रीधर) प्राणनायक ॥ 38 ॥

अस्माकं वांछितं देहि देहि पुत्रं रमापते ।
स्तुवदाम् (भगवन्) कृष्ण सर्वेश वासुदेव जगत्पते ॥ 39 ॥

रमाहृदयसंभार सत्यभामामनःप्रिय ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 40 ॥

चंद्रसूर्याक्ष गोविंद पुंडरीकाक्ष माधव ।
अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ 41 ॥

कारुण्यरूप पद्माक्ष पद्मनाभ-समर्चित ।
देहि मे तनयं कृष्ण देवकीनंदनंदन ॥ 42 ॥

देवकीसुत श्रीनाथ वासुदेव जगत्पते ।
समस्तकामफलद देहि मे तनयं सदा ॥ 43 ॥

भक्तमंदार गंभीर शंकराच्युत माधव ।
देहि मे तनयं गोप-बालवत्सल रमापते (श्रीपते) ॥ 44 ॥

श्रीपते वासुदेवेश देवकीप्रियनंदन ।
भक्तमंदार मे देहि तनयं जगतां प्रभो ॥ 45 ॥

जगन्नाथ रमानाथ भूमिनाथ दयानिधे ।
वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ 46 ॥

श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 47 ॥

दासमंदार गोविंद भक्तचिंतामणे प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 48 ॥

गोविंद पुंडरीकाक्ष रमानाथ महाप्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 49 ॥

श्रीनाथ कमलपत्राक्ष गोविंद मधुसूदन ।
सत्पुत्रफल (मत्पुत्रफल)-सिद्ध्यर्थं भजामि त्वां जनार्दन ॥ 50 ॥

स्तन्यं पिबंतं जननीमुखांबुजं
विलोक्य मंदस्मितमुज्ज्वलांगम् ।
स्पृशंतमन्यस्तनमंगुलीभिः
वंदे यशोदांकगतं मुकुंदम् ॥ 51 ॥

याचेऽहं पुत्रसंतानं भवंतं पद्मलोचन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 52 ॥

अस्माकं पुत्रसंपत्ते-श्चिंतयामि जगत्पते ।
शीघ्रं मे देहि दातव्यं भवता मुनिवंदित ॥ 53 ॥

वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
कुरु मां पुत्रदत्तं च कृष्ण देवेंद्रपूजितः ॥ 54 ॥

कुरु मां पुत्रदत्तं च यशोदाप्रियनंदन ।
मह्यं च पुत्रसंतानं दातव्यं भवता हरे ॥ 55 ॥

वासुदेव जगन्नाथ गोविंद देवकीसुत ।
देहि मे तनयं राम कौसल्याप्रियनंदन ॥ 56 ॥

पद्मपत्राक्ष गोविंद विष्णो वामन माधव ।
देहि मे तनयं सीता-प्राणनायक राघव ॥ 57 ॥

कंजाक्ष कृष्ण देवेंद्र-मंडित मुनिवंदित ।
लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ 58 ॥

देहि मे तनयं राम दशरथप्रियनंदन ।
सीतानायक कंजाक्ष मुचुकुंदवरप्रद ॥ 59 ॥

विभीषणाय या लंका भवता वलीयता प्रभो (विभीषणस्यया लंका प्रदत्ता भवता पुरा) ।
अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ 60 ॥

भवदीयपदांभोजे चिंतयामि निरंतरम् ।
देहि मे तनयं सीता-प्राणवल्लभ राघव ॥ 61 ॥

राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद ।
देहि मे तनयं श्रीश कमलासनवंदित ॥ 62 ॥

राम राघव सीतेश लक्ष्मणानुज देहि मे ।
भाग्यवत्पुत्रसंतानं दशरथात्मज श्रीपते ॥ 63 ॥

देवकीगर्भसंजात यशोदाप्रियनंदन ।
देहि मे तनयं राम कृष्ण गोपाल माधव ॥ 64 ॥

कृष्ण माधव गोविंद वामनाच्युत शंकर ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 65 ॥

गोपबाल महाधन्य गोविंदाच्युत माधव ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 66 ॥

दिशतु दिशतु पुत्रं देवकीनंदनोऽयं
दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।
दिशतु दिशतु श्रीशो राघवो रामचंद्रो
दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ 67 ॥

ददातु मां वासुदेवोही (दीयतां वासुदेवेन) तनयोमत्प्रियः सुतम् (सुतः) ।
कुमारो नंदनः सीता-नायकॊ-विशदा मम (नायकेन सदा मम) ॥ 68 ॥

राम राघव गोविंद देवकीसुत माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 69 ॥

वंशविस्तारकं पुत्रं देहि मे मधुसूदन ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 70 ॥

ममाभीष्टसुतं देहि कंसारे माधवाच्युत ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 71 ॥

चंद्रार्क-कल्पपर्यंतं तनयं देहि माधव ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 72 ॥

विद्यावंतं बुद्धिमंतं श्रीमंतं तनयं सदा ।
देहि मे तनयं कृष्ण देवकीनंदनं सदा (देवकीनंदन प्रभो) ॥ 73 ॥

नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् ।
मुकुंदं पुंडरीकाक्षं गोविंदं मधुसूदनम् ॥ 74 ॥

भगवन् कृष्ण गोविंद सर्वकामफलप्रद ।
देहि मे तनयं स्वामिन् त्वामहं शरणं गतः ॥ 75 ॥

स्वामिन् त्वं भगवन् राम कृष्ण माधव कामद ।
देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ 76 ॥

तनयं देहि गोविंद कंजाक्ष कमलापते ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 77 ॥

पद्मापते पद्मनेत्र पद्मजनक माधव (प्रद्युम्नजनक प्रभो) ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 78 ॥

शंखचक्रगदाखड्ग शार्ङ्गपाणे रमापते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 79 ॥

नारायण रमानाथ राजीवपत्रलोचन ।
सुतं मे देहि देवेश पद्मपद्मानुवंदित ॥ 80 ॥

राम माधव गोविंद देवकीवरनंदन ।
रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ 81 ॥

देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 82 ॥

मुनिवंदित गोविंद रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 83 ॥

गोपिका लूनपुष्पणां मकरंद रथप्रिय (गोपिकार्जितपंकेजमरंदासक्तमानस)।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः )॥ 84 ॥

र्रमा हृदय राजीव लोलमाधव कामद । (रमाहृदय पंकेजलोल माधव कामद)
ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ 85 ॥

वासुदेव रमानाथ दासानां मंगलप्रद ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 86 ॥

कल्याणप्रद गोविंद मुरारे मुनिवंदित ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 87 ॥

पुत्रप्रद मुकुंदेश रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 88 ॥

पुंडरीकाक्ष गोविंद वासुदेव जगत्पते ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 89 ॥

दयानिधे वासुदेव मुकुंद मुनिवंदित ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 90 ॥

पुत्रसंपत्प्रदातारं गोविंदं देवपूजितम् ।
वंदामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ 91 ॥

कारुण्यनिधये गोपीवल्लभाय मुरारये ।
नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ 92 ॥

नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 93 ॥

नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
पुत्रदाय च सर्पेंद्र….शायिने रंगशायिने ॥ 94 ॥

रंगशायिन् रमानाथ मंगलप्रद माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 95 ॥

दासस्य मे सुतं देहि दीनमंदार राघव ।
सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ 96 ॥

यशोदातनयाभीष्ट पुत्रदानरतः सदा ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 97 ॥

मदिष्टदेव गोविंद वासुदेव जनार्दन ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 98 ॥

नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते ।
भगवंस्त्वत्कृपायाश्च वासुदेवेंद्रपूजित ॥ 99 ॥

यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् ।
श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ 100 ॥

जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् ।
ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ 101 ॥

बारम्बार सोधिने प्रश्नहरू

What is संतान गोपाल स्तोत्रम्?

संतान गोपाल स्तोत्रम् is a Sri Krishna Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read संतान गोपाल स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download संतान गोपाल स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook