संक्षिप्त पूजा विधानम् (स्मार्त पद्धति)


आवश्यकानि वस्तूनि
– दीपः
– गंधः
– अक्षताः
– पुष्पाणि
– धूपः
– नैवेद्यं
– तांबूलं
– पूजा पात्रं
– इष्ट देवता प्रतिमा वा चित्रपटः वा

सूचना
[This is a general template. Replace iShTa dEvatA with the actual deity name or mantra used in your family. Examples: OM SrImahAgaNapatayE namaH, OM namaH SivAya, OM namO nArAyaNAya, OM SrI durgAyai namaH, OM SrIsubrahmaNyAya namaH.]

संक्षिप्त पूर्वांग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।

शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥

प्रार्थना
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥

आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।

दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥

संकल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, श्री इष्ट देवता-प्रीत्यर्थं, यावच्छक्ति संक्षिप्त ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥

श्री महागणपति स्मरणम्

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥

ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । समस्त उपचारान् समर्पयामि ॥

संक्षिप्त षोडशोपचार पूजा
इष्ट देवता ध्यानम्
[Meditate on the chosen deity. Recite the known dhyana sloka if available.]

ॐ श्री इष्ट देवतायै नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥

आवाहनम्
ॐ श्री इष्ट देवतायै नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥

आसनम्
ॐ श्री इष्ट देवतायै नमः ।
आसनं समर्पयामि ॥

पाद्यम्
ॐ श्री इष्ट देवतायै नमः ।
पादयोः पाद्यं समर्पयामि ॥

अर्घ्यम्
ॐ श्री इष्ट देवतायै नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम्
ॐ श्री इष्ट देवतायै नमः ।
मुखे आचमनीयं समर्पयामि ॥

स्नानम्
ॐ श्री इष्ट देवतायै नमः ।
शुद्धोदक स्नानं समर्पयामि ।
स्नानानंतरं आचमनीयं समर्पयामि ॥

वस्त्रम्
ॐ श्री इष्ट देवतायै नमः ।
वस्त्रं समर्पयामि ॥

यज्ञोपवीतम्
ॐ श्री इष्ट देवतायै नमः ।
यज्ञोपवीतं समर्पयामि ॥

गंधम्
ॐ श्री इष्ट देवतायै नमः ।
गंधं समर्पयामि ॥

अर्चन
[Choose the namavali for the deity being worshipped. Recite the ashtottara shata namavali, or at least a few known names, and offer flowers or akshatas with each name.]
उदाहरणानि –

अथवा इष्ट देवता नामावली पठनम् ॥

ॐ श्री इष्ट देवतायै नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥

धूपम्
ॐ श्री इष्ट देवतायै नमः ।
धूपमाघ्रापयामि ॥

दीपम्
ॐ श्री इष्ट देवतायै नमः ।
दीपं दर्शयामि ॥

नैवेद्यम्

ॐ भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।

ॐ श्री इष्ट देवतायै नमः ।
नैवेद्यं समर्पयामि ।
मध्ये मध्ये पानीयं समर्पयामि ।
शुद्धाचमनीयं समर्पयामि ॥

तांबूलम्
ॐ श्री इष्ट देवतायै नमः ।
तांबूलं समर्पयामि ॥

नीराजनम्
ॐ श्री इष्ट देवतायै नमः ।
नीराजनं समर्पयामि ॥

मंत्रपुष्पम्
ॐ श्री इष्ट देवतायै नमः ।
मंत्रपुष्पं समर्पयामि ॥

प्रदक्षिणम्
यानि कानि च पापानि जन्मांतर कृतानि च ।
तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे ॥
ॐ श्री इष्ट देवतायै नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

नमस्कारः
ॐ श्री इष्ट देवतायै नमः ।
नमस्कारान् समर्पयामि ॥

क्षमाप्रार्थना
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

अनया संक्षिप्त ध्यान-आवाहनादि-षोडशोपचार पूजया श्री इष्ट देवता सुप्रीता सुप्रसन्ना वरदा भवतु ॥

उद्वासनम्
ॐ श्री इष्ट देवतायै नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥

प्रसाद ग्रहणम्
श्री इष्ट देवता प्रसादं शिरसा गृह्णामि ॥

ॐ शांतिः शांतिः शांतिः ॥

ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

बारम्बार सोधिने प्रश्नहरू

What is संक्षिप्त पूजा विधानम् (स्मार्त पद्धति)?

संक्षिप्त पूजा विधानम् (स्मार्त पद्धति) is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read संक्षिप्त पूजा विधानम् (स्मार्त पद्धति) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download संक्षिप्त पूजा विधानम् (स्मार्त पद्धति) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook