सकल जननी स्तवः
अजानंतो यांति क्षयमवशमन्योन्यकलहै-
-रमी मायाग्रंथौ तव परिलुठंतः समयिनः ।
जगन्मातर्जन्मज्वरभयतमः कौमुदि वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ 1 ॥
वचस्तर्कागम्यस्वरसपरमानंदविभव-
-प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवाद्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥ 2 ॥
अनाद्यंताभेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि गृहिणी ।
सवित्री भूतानामपि यदुदभूः शैलतनया
तदेतत्संसारप्रणयनमहानाटकमुखम् ॥ 3 ॥
ब्रुवंत्येके तत्त्वं भगवति सदन्ये विदुरस-
-त्परे मातः प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्वं समभिदधते देवि सुधिय-
-स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥ 4 ॥
लुठद्गुंजाहारस्तनभरनमन्मध्यलतिका-
-मुदंचद्धर्मांभः कणगुणितवक्त्रांबुजरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यांतीं शरणमहमन्वेमि शबरीम् ॥ 5 ॥
मिथः केशाकेशिप्रथननिधनास्तर्कघटनाः
बहुश्रद्धाभक्तिप्रणतिविषयाः शास्त्रविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं
निरालंबं चेतः परिलुठति पारिप्लवमिदम् ॥ 6 ॥
शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं
कदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।
अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि
प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ 7 ॥
तटित्कोटिज्योतिर्द्युतिदलितषड्ग्रंथिगहनं
प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा ।
किमप्यष्टाविंशत्किरणसकलीभूतमनिशं
भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ 8 ॥
चतुष्पत्रांतः षड्दलपुटभगांतस्त्रिवलय-
-स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतिलते ।
षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं
कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥ 9 ॥
कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः
परे तत्संभेदं समभिदधते कौलमपरे ।
चतुर्णामप्येषामुपरि किमपि प्राहुरपरे
महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥ 10 ॥
षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा
रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् ।
वितन्वानः शैवं किमपि वपुरिंदीवररुचिः
कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥ 11 ॥
प्रकाशानंदाभ्यामविदितचरीं मध्यपदवीं
प्रविश्यैतद्द्वंद्वं रविशशिसमाख्यं कबलयन् ।
प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः
प्रसादात्ते जंतुः शिवमकुलमंब प्रविशति ॥ 12 ॥
मनुष्यास्तिर्यंचो मरुत इति लोकत्रयमिदं
भवांभोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ।
कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया
शरीरी सद्योऽयं व्रजति परमानंदतनुताम् ॥ 13 ॥
प्रियंगुश्यामांगीमरुणतरवासं किसलयां
समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।
स्तनद्वंद्वस्फारस्तबकनमितां कल्पलतिकां
सकृद्ध्यायंतस्त्वां दधति शिवचिंतामणिपदम् ॥ 14 ॥
षडाधारावर्तैरपरिमितमंत्रोर्मिपटलैः
लसन्मुद्राफेनैर्बहुविधलसद्दैवतझषैः ।
क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी
भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ 15 ॥
महीपाथोवह्निश्वसनवियदात्मेंदुरविभि-
-र्वपुर्भिग्रस्ताशैरपि तव कियानंब महिमा ।
अमून्यालोक्यंते भगवति न कुत्राप्यणुतमा-
-मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ 16 ॥
कलामाज्ञां प्रज्ञां समयमनुभूतिं समरसं
गुरुं पारंपर्यं विनयमुपदेशं शिवपदम् ।
प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां
विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ 17 ॥
प्रलीने शब्दौघे तदनु विरते बिंदुविभवे
ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते ।
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां
स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥ 18 ॥
परानंदाकारां निरवधिशिवैश्वर्यवपुषं
निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् ।
सवित्रीं लोकानां निरतिशयधामास्पदपदां
भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ 19 ॥
जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे
पुमांसं बिंदुस्थं तदपि वियदाख्ये च गहने ।
तदेतद्ज्ञानाख्ये तदपि परमानंदगहने
महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ 20 ॥
विधे वेद्ये विद्ये विविधसमये वेदगुलिके
विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।
शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे
शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥ 21 ॥
विधेर्मुंडं हृत्वा यदकुरुत पात्रं करतले
हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।
अलंचक्रे कंठं यदपि गरलेनांब गिरिशः
शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ 22 ॥
विरिंच्याख्या मातः सृजसि हरिसंज्ञा त्वमवसि
त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् ।
भवंती नादाख्या विहरसि च पाशौघदलनी
त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते ॥ 23 ॥
मुनीनां चेतोभिः प्रमृदितकषायैरपि मना-
-गशक्यं संस्प्रष्टुं चकितचकितैरंब सततम् ।
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे
कथं ते विंदंते पदकिसलये पार्वति पदम् ॥ 24 ॥
तटिद्वल्लीं नित्याममृतसरितं पाररहितां
मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रंथिगहनाम् ।
गिरां दूरां विद्यामविनतकुचां विश्वजननी-
-मपर्यंतां लक्ष्मीमभिदधति संतो भगवतीम् ॥ 25 ॥
शरीरं क्षित्यंभः प्रभृतिरचितं केवलमचित्
सुखं दुःखं चायं कलयति पुमांश्चेतन इति ।
स्फुटं जानानोऽपि प्रभवति न देही रहयितुं
शरीराहंकारं तव समयबाह्यो गिरिसुते ॥ 26 ॥
पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी
वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।
तदा मे भिंदाना सपदि भयमोहांधतमसं
महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ 27 ॥
सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः
सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।
अनाद्यंता शंभोरपृथगपि शक्तिर्भगवती
विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ 28 ॥
कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः
परं ब्रह्म क्षुद्रं तव नियतमानंदकणिका ।
शिवादि क्षित्यंतं त्रिवलयतनोः सर्वमुदरे
तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ 29 ॥
पुरः पश्चादंतर्बहिरपरिमेयं परिमितं
परं स्थूलं सूक्ष्मं सकलमकुलं गुह्यमगुहम् ।
दवीयो नेदीयः सदसदिति विश्वं भगवती
सदा पश्यंत्याख्यां वहसि भुवनक्षोभजननीम् ॥ 30 ॥
प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा
षडध्वध्वांतौघच्छिदुरगणनातीतकरुणाम् ।
परामाज्ञाकारां सपदि शिवयंतीं शिवतनुं
स्वमात्मानं धन्याश्चिरमुपलभंते भगवतीम् ॥ 31 ॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः ।
उदेत्योदेत्यांब त्वयि सह निजैः सात्त्विकगुणै-
-र्भजंते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ 32 ॥
विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः
स्वभावो जैनेंद्रः सुगतमुनिराकाशमलिनः ।
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां
विकल्पैरेभिस्त्वामभिदधति संतो भगवतीम् ॥ 33 ॥
शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं
पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ 34 ॥
त्वयासौ जानीते रचयति भवत्यैव सततं
त्वयैवेच्छत्यंब त्वमसि निखिला यस्य तनवः ।
जगत्साम्यं शंभोर्वहसि परमव्योमवपुषः
तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥ 35 ॥
असंख्यैः प्राचीनैर्जननि जननैः कर्मविलया-
-त्सकृज्जन्मन्यंते गुरुवपुषमासाद्य गिरिशम् ।
अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा-
-न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ 36 ॥
यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या
योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् ।
तस्याप्यंतः कुचभरनतां कुंडलीति प्रसिद्धां
श्यामाकारां सकलजननीं संततं भावयामि ॥ 37 ॥
भुवि पयसि कृशानौ मारुते खे शशांके
सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।
वहसि कुचभराभ्यां यावनम्रापि विश्वं
सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥ 38 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां पंचमः सकलजननीस्तवः ।
बारम्बार सोधिने प्रश्नहरू
What is सकल जननी स्तवः?
सकल जननी स्तवः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read सकल जननी स्तवः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download सकल जननी स्तवः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.