ऋण विमोचन अंगारक (मंगल) स्तोत्रम्
स्कंद उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।
ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥
अस्य श्री अंगारक स्तोत्र महामंत्रस्य गौतम ऋषिः, अनुष्टुप् छंदः, अंगारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।
ध्यानम् –
धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम् ॥ 1 ॥
रक्तमाल्यांबरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 2 ॥
अथ स्तोत्रम् –
मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ 3 ॥
लोहितो लोहितांगश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनंदनः ॥ 4 ॥
अंगारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ 5 ॥
भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ 6 ॥
रक्तपुष्पैश्च गंधैश्च दीपधूपादिभिस्तथा ।
मंगलं पूजयित्वा तु मंगलेऽहनि सर्वदा ॥ 7 ॥
ऋणरेखाः प्रकर्तव्याः दग्धांगारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदंतिके ॥ 8 ॥
ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न संदेहो ऋणहीनो धनी भवेत् ॥ 9 ॥
भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ 10 ॥
शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ 11 ॥
मूलमंत्रः –
अंगारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ 12 ॥
अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ 13 ॥
इति ऋण विमोचन अंगारक स्तोत्रम् ॥
बारम्बार सोधिने प्रश्नहरू
What is ऋण विमोचन अंगारक (मंगल) स्तोत्रम्?
ऋण विमोचन अंगारक (मंगल) स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read ऋण विमोचन अंगारक (मंगल) स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download ऋण विमोचन अंगारक (मंगल) स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.