पतंजलि योग सूत्राणि – 3 (विभूति पादः)
श्रीपातंजलयोगदर्शनम् ।
अथ विभूतिपादः ।
देशबंधश्चित्तस्य धारणा ॥1॥
तत्र प्रत्ययैकतानता ध्यानम् ॥2॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥3॥
त्रयमेकत्र संयमः ॥4॥
तज्जयात् प्रज्ञालोकः ॥5॥
तस्य भूमिषु विनियोगः ॥6॥
त्रयमंतरंगं पूर्वेभ्यः ॥7॥
तदपि बहिरंगं निर्बीजस्य ॥8॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥9॥
तस्य प्रशांतवाहिता संस्कारात् ॥10॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥11॥
ततः पुनः शांतोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ॥12॥
एतेन भूतेंद्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥13॥
शांतोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥14॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥15॥
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥16॥
शब्दार्थप्रत्ययानामितरेतराध्यासात् संकरस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥17॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥18॥
प्रत्ययस्य परचित्तज्ञानम् ॥19॥
न च तत् सालंबनं तस्याविषयीभूतत्वात् ॥20॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तंभे चक्षुः प्रकाशासंप्रयोगेऽंतर्धानम् ॥21॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरांतज्ञानमरिष्टेभ्यो वा ॥22॥
मैत्र्यादिषु बलानि ॥23॥
बलेषु हस्तिबलादीनि ॥24॥
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥25॥
भुवनज्ञानं सूर्ये संयमात् ॥26॥
चंद्रे ताराव्यूहज्ञानम् ॥27॥
ध्रुवे तद्गतिज्ञानम् ॥28॥
नाभिचक्रे कायव्यूहज्ञानम् ॥29॥
कंठकूपे क्षुत्पिपासानिवृत्तिः ॥30॥
कूर्मनाड्यां स्थैर्यम् ॥31॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥32॥
प्रातिभाद्वा सर्वम् ॥33॥
हृदये चित्तसंवित् ॥34॥
सत्त्वपुरुषयोरत्यंतासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥35॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायंते ॥36॥
ते समाधावुपसर्गाव्युत्थाने सिद्धयः ॥37॥
बंधकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥38॥
उदानजयाज्जलपंककंटकादिष्वसंग उत्क्रांतिश्च ॥39॥
समानजयाज्ज्वलनम् ॥40॥
श्रोत्राकाशयोः संबंधसंयमात् दिव्यं श्रोत्रम् ॥41॥
कायाकाशयोः संबंधसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ॥42॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥43॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥44॥
ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश्च ॥45॥
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥46॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिंद्रियजयः ॥47॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥48॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वंच ॥49॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥50॥
स्थान्युपनिमंत्रणे संगस्मयाकरणं पुनरनिष्टप्रसंगात् ॥51॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥52॥
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥53॥
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥54॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥55॥
इति श्रीपातंजलयोगदर्शने विभूतिपादो नाम तृतीयः पादः ।
बारम्बार सोधिने प्रश्नहरू
What is पतंजलि योग सूत्राणि - 3 (विभूति पादः)?
पतंजलि योग सूत्राणि - 3 (विभूति पादः) is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read पतंजलि योग सूत्राणि - 3 (विभूति पादः) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download पतंजलि योग सूत्राणि - 3 (विभूति पादः) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.