पांडवगीता
प्रह्लादनारदपराशरपुंडरीक-
व्यासांबरीषशुकशौनकभीष्मकाव्याः ।
रुक्मांगदार्जुनवसिष्ठविभीषणाद्या
एतानहं परमभागवतान् नमामि ॥ 1॥
लोमहर्षण उवाच ।
धर्मो विवर्धति युधिष्ठिरकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनंजयकीर्तनेन
माद्रीसुतौ कथयतां न भवंति रोगाः ॥ 2॥
ब्रह्मोवाच ।
ये मानवा विगतरागपरा¶ज्ञा
नारायणं सुरगुरुं सततं स्मरंति ।
ध्यानेन तेन हतकिल्बिष चेतनास्ते
मातुः पयोधररसं न पुनः पिबंति ॥ 3॥
इंद्र उवाच ।
नारायणो नाम नरो नराणां
प्रसिद्धचौरः कथितः पृथिव्याम् ।
अनेकजन्मार्जितपापसंचयं
हरत्यशेषं स्मृतमात्र एव यः ॥ 4॥
युधिष्ठिर उवाच ।
मेघश्यामं पीतकौशेयवासं
श्रीवत्सांकं कौस्तुभोद्भासितांगम् ।
पुण्योपेतं पुंडरीकायताक्षं
विष्णुं वंदे सर्वलोकैकनाथम् ॥ 5॥
भीम उवाच ।
जलौघमग्ना सचराऽचरा धरा
विषाणकोट्याऽखिलविश्वमूर्तिना ।
समुद्धृता येन वराहरूपिणा
स मे स्वयंभूर्भगवान् प्रसीदरु ॥ 6॥
अर्जुन उवाच ।
अचिंत्यमव्यक्तमनंतमव्ययं
विभुं प्रभुं भावितविश्वभावनम् ।
त्रैलोक्यविस्तारविचारकारकं
हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ 7॥
नकुल उवाच ।
यदि गमनमधस्तात् कालपाशानुबंधाद्
यदि च कुलविहीने जायते पक्षिकीटे ।
कृमिशतमपि गत्वा ध्यायते चांतरात्मा
मम भवतु हृदिस्था केशवे भक्तिरेका ॥ 8॥
सहदेव उवाच ।
तस्य यज्ञवराहस्य विष्णोरतुलतेजसः ।
प्रणामं ये प्रकुर्वंति तेषामपि नमो नमः ॥ 9॥
कुंती उवाच ।
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ 10॥
माद्री उवाच ।
कृष्णे रताः कृष्णमनुस्मरंति
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते भिन्नदेहाः प्रविशंति कृष्णे
हविर्यथा मंत्रहुतं हुताशे ॥ 11॥
द्रौपदी उवाच ।
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र यत्र ।
जातस्य मे भवतु केशव त्वत्प्रसादात्
त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ 12॥
सुभद्रा उवाच ।
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥ 13॥
अभिमन्युरुवाच ।
गोविंद गोविंद हरे मुरारे
गोविंद गोविंद मुकुंद कृष्ण
गोविंद गोविंद रथांगपाणे ।
गोविंद गोविंद नमामि नित्यम् ॥ 14॥
धृष्टद्युम्न उवाच ।
श्रीराम नारायण वासुदेव
गोविंद वैकुंठ मुकुंद कृष्ण ।
श्रीकेशवानंत नृसिंह विष्णो
मां त्राहि संसारभुजंगदष्टम् ॥ 15॥
सात्यकिरुवाच ।
अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत ।
गोविंदानंत सर्वेश वासुदेव नमोऽस्तु ते ॥ 16॥
उद्धव उवाच ।
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ 17॥
धौम्य उवाच ।
अपां समीपे शयनासनस्थिते
दिवा च रात्रौ च यथाधिगच्छता ।
यद्यस्ति किंचित् सुकृतं कृतं मया
जनार्दनस्तेन कृतेन तुष्यतु ॥ 18॥
संजय उवाच ।
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु व्याघ्रादिषु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवंति ॥ 19॥
अक्रूर उवाच ।
अहं तु नारायणदासदास-
दासस्य दासस्य च दासदासः ।
अन्यो न हीशो जगतो नराणां
तस्मादहं धन्यतरोऽस्मि लोके ॥ 20॥
विराट उवाच ।
वासुदेवस्य ये भक्ताः शांतास्तद्गतचेतसः ।
तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ 21॥
भीष्म उवाच ।
विपरीतेषु कालेषु परिक्षीणेषु बंधुषु ।
त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ 22॥
द्रोण उवाच ।
ये ये हताश्चक्रधरेण दैत्यां-
स्त्रैलोक्यनाथेन जनार्दनेन ।
ते ते गता विष्णुपुरीं प्रयाताः
क्रोधोऽपि देवस्य वरेण तुल्यः ॥ 23॥
कृपाचार्य उवाच ।
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 24॥
अश्वत्थाम उवाच ।
गोविंद केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं
नारायणाच्युत नृसिंह नमो नमस्ते ॥ 25॥
कर्ण उवाच ।
नान्यं वदामि न शऋणोमि न चिंतयामि
नान्यं स्मरामि न भजामि न चाश्रयामि ।
भक्त्या त्वदीयचरणांबुजमादरेण
श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ 26॥
धृतराष्ट्र उवाच ।
नमो नमः कारणवामनाय
नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ 27॥
गांधारी उवाच ।
त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 28॥
द्रुपद उवाच ।
यज्ञेशाच्युत गोविंद माधवानंत केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ 29॥
जयद्रथ उवाच ।
नमः कृष्णाय देवाय ब्रह्मणेऽनंतशक्तये ।
योगेश्वराय योगाय त्वामहं शरणं गतः ॥ 30॥
विकर्ण उवाच ।
कृष्णाय वासुदेवाय देवकीनंदनाय च ।
नंदगोपकुमाराय गोविंदाय नमो नमः ॥ 31॥
विराट उवाच ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥ 32॥
शल्य उवाच ।
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यंति गोविंदं तेषां न विद्यते भयम् ॥ 33॥
बलभद्र उवाच ।
कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ 34॥
श्रीकृष्ण उवाच ।
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ 35॥
श्रीकृष्ण उवाच ।
नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु-
र्यो मां मुकुंद नरसिंह जनार्दनेति ।
जीवो जपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ 36॥
ईश्वर उवाच ।
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गंगादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ 37॥
सूत उवाच ।
तत्रैव गंगा यमुना च तत्र
गोदावरी सिंधु सरस्वती च ।
सर्वाणि तीर्थानि वसंति तत्र
यत्राच्युतोदार कथाप्रसंगः ॥ 38॥
यम उवाच ।
नरके पच्यमानं तु यमेनं परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ 35॥
नारद उवाच ।
जन्मांतरसहस्रेण तपोध्यानसमाधिना ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ 40॥
प्रह्लाद उवाच ।
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ 41॥
या प्रीतिरविवेकनां विषयेष्वनपायिनि ।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ 42॥
विश्वामित्र उवाच ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ 43॥
जमदग्निरुवाच ।
नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनं हरिः ॥ 44॥
भरद्वाज उवाच ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदीश्वरश्यामो हृदयस्थो जनार्दनः ॥ 45॥
गौतम उवाच ।
गोकोटिदानं ग्रहणेषु काशी-
प्रयागगंगायुतकल्पवासः ।
यज्ञायुतं मेरुसुवर्णदानं
गोविंदनामस्मरणेन तुल्यम् ॥ 46॥
अग्निरुवाच ।
गोविंदेति सदा स्नानं गोविंदेति सदा जपः ।
गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम् ॥ 47॥
त्र्यक्षरं परमं ब्रह्म गोविंद त्र्यक्षरं परम् ।
तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ 48॥
वेदव्यास उवाच ।
अच्युतः कल्पवृक्षोऽसावनंतः कामधेनु वै ।
चिंतामणिस्तु गोविंदो हरेर्नाम विचिंतयेत् ॥ 49॥
इंद्र उवाच ।
जयतु जयतु देवो देवकीनंदनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलांगो
जयतु जयतु पृथ्वीभारनाशो मुकुंदः ॥ 50॥
पिप्पलायन उवाच ।
श्रीमन्नृसिंहविभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
कृष्णाय वृश्चिकजलाग्निभुजंगरोग-
क्लेशव्ययाय हरये गुरवे नमस्ते ॥ 51॥
आविर्होत्र उवाच ।
कृष्ण त्वदीयपदपंकजपंजरांते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कंठावरोधनविधौ स्मरणं कुतस्ते ॥ 52॥
विदुर उवाच ।
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ 53॥
वसिष्ठ उवाच ।
कृष्णेति मंगलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवंति तस्याशु महापातककोटयः ॥ 54॥
अरुंधत्युवाच ।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥ 55॥
कश्यप उवाच ।
कृष्णानुस्मरणादेव पापसंघट्टपंजरम् ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ 56॥
दुर्योधन उवाच ।
जानामि धर्मं न च मे प्रवृत्ति-
र्जानामि पापं न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ 57॥
यंत्रस्य मम दोषेण क्षम्यतां मधुसूदन ।
अहं यंत्रं भवान् यंत्री मम दोषो न दीयताम् ॥ 58॥
भृगुरुवाच ।
नामैव तव गोविंद नाम त्वत्तः शताधिकम् ।
ददात्त्युच्चारणान्मुक्तिः भवानष्टांगयोगतः ॥ 59॥
लोमश उवाच ।
नमामि नारायण पादपंकजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥ 60॥
शौनक उवाच ।
स्मृतेः सकलकल्याणं भजनं यस्य जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 61॥
गर्ग उवाच ।
नारायणेति मंत्रोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके घोरे पतंतीत्यद्भुतं महत् ॥ 62॥
दाल्भ्य उवाच ।
किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मंत्रः सर्वार्थसाधाके ॥ 63॥
वैशंपायन उवाच ।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 64॥
अग्निरुवाच ।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ 65॥
परमेश्वर उवाच ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 66॥
पुलस्त्य उवाच ।
हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।
नारायणाख्यपीयूषं पिब जिह्वे निरंतरम् ॥ 67॥
व्यास उवाच ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् ।
नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ 68॥
धन्वंतरिरुवाच ।
अच्युतानंत गोविंद नामोच्चारणभेषजात् ।
नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 69॥
मार्कंडेय उवाच ।
स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् ।
कथं मुहुर्तमपि तं वासुदेवं न चिंतयेत् ॥ 70॥
अगस्त्य उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् ।
तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ 71॥
वामदेव उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् ।
कल्पकोटिसहस्राणि लभते वांछितं फलम् ॥ 72॥
शुक उवाच ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 73॥
श्रीमहादेव उवाच ।
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ 74॥
शौनक उवाच ।
भोजनाच्छादने चिंतां वृथा कुर्वंति वैष्णवाः ।
योऽसौ विश्वंभरो देवः स किं भक्तानुपेक्षते ॥ 75॥
सनत्कुमार उवाच ।
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् ।
शंखचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ 76॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्तयंति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ 77॥
इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् ।
दुःस्वप्ननाशनं स्तोत्रं पांडवैः परिकीर्तितम् ॥ 78॥
यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 79॥
तत्फलं समवाप्नोति यः पठेदिति संस्तवम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 80॥
गंगा गीता च गायत्री गोविंदो गरुडध्वजः ।
गकारैः पंचभिर्युक्तः पुनर्जन्म न विद्यते ॥ 81॥
गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 82॥
इति पांडवगीता अथवा प्रपन्नगीता समाप्ता ।
ॐ तत्सत् ।
बारम्बार सोधिने प्रश्नहरू
What is पांडवगीता?
पांडवगीता is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read पांडवगीता online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download पांडवगीता as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.