नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्)


भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कः समि-
-त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमाः सुमित्राः सदा ।
शुक्रो मंदरिपुः कलिंगजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मंगलम् ॥ 1 ॥

चंद्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव-
-श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः ।
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मंगलम् ॥ 2 ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विंध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः ।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कंदौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मंगलम् ॥ 3 ॥

सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानदिशः सुहृद्रविसुतः शांतः सुतः शीतगोः ।
कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मंगलम् ॥ 4 ॥

जीवश्चांगिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्च सिंधुजनितश्चापोऽथ मीनाधिपः ।
सूर्येंदुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्तद्वे नवपंचमे शुभकरः कुर्यात्सदा मंगलम् ॥ 5 ॥

शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वामुखः पूर्वदिक्
पांचालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुंबरः ।
इंद्राणीमघवा बुधश्च रविजो मित्रोर्क चंद्रावरी
षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मंगलम् ॥ 6 ॥

मंदः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपः
स्वामी नक्रसुकुंभयोर्बुधसितौ मित्रौ कुजेंदू द्विषौ ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मंगलम् ॥ 7 ॥

राहुः सिंहलदेशपोऽपि सतमः कृष्णांगशूर्पासनो
यः पैठीनसगोत्रसंभवसमिद्दूर्वामुखो दक्षिणः ।
यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः
षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात्सदा मंगलम् ॥ 8 ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थित-
-श्चित्रांकध्वजलांछनो हि भगवान् यो दक्षिणाशामुखः ।
ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मंगलम् ॥ 9 ॥

इति नवग्रह मंगल स्तोत्रम् ।

बारम्बार सोधिने प्रश्नहरू

What is नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्)?

नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्) is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook