नारायणीयं दशक 92 – कर्ममिश्रभक्तिः
वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा
तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।
मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति-
र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥1॥
यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
पुष्पैर्गंधैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै-
र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥2॥
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा-
स्त्वत्पादासन्नयातान् द्विजकुलजनुषो हंत शोचाम्यशांतान् ।
वृत्त्यर्थं ते यजंतो बहुकथितमपि त्वामनाकर्णयंतो
दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥3॥
पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं
निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
भ्राता मे वंध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
निंदंत्युच्चैर्हसंति त्वयि निहितमतींस्तादृशं मा कृथा माम् ॥4॥
श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयंते तपोभि-
स्त्रेतायां स्रुक्स्रुवाद्यंकितमरुणतनुं यज्ञरूपं यजंते ।
सेवंते तंत्रमार्गैर्विलसदरिगदं द्वापरे श्यामलांगं
नीलं संकीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजंते ॥5॥
सोऽयं कालेयकालो जयति मुररिपो यत्र संकीर्तनाद्यै-
र्निर्यत्नैरेव मार्गैरखिलद न चिरात्त्वत्प्रसादं भजंते ।
जातास्त्रेताकृतादावपि हि किल कलौ संभवं कामयंते
दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो वंचयास्मान् ॥6॥
भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चै:
कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् ।
हा मामप्येतदंतर्भवमपि च विभो किंचिदंचद्रसं त्व-
य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥7॥
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित्
हंतुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।
त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरु-
र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥8॥
गंगा गीता च गायत्र्यपि च तुलसिका गोपिकाचंदनं तत्
सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः ।
एतान्यष्टाप्ययत्नान्यपि कलिसमये त्वत्प्रसादप्रवृद्ध्या
क्षिप्रं मुक्तिप्रदानीत्यभिदधुः ऋषयस्तेषु मां सज्जयेथाः ॥9॥
देवर्षीणां पितृणामपि न पुनः ऋणी किंकरो वा स भूमन् ।
योऽसौ सर्वात्मना त्वां शरणमुपगतस्सर्वकृत्यानि हित्वा ।
तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
तन्मे पापोत्थतापान् पवनपुरपते रुंधि भक्तिं प्रणीयाः ॥10॥
बारम्बार सोधिने प्रश्नहरू
What is नारायणीयं दशक 92 - कर्ममिश्रभक्तिः?
नारायणीयं दशक 92 - कर्ममिश्रभक्तिः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 92 - कर्ममिश्रभक्तिः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 92 - कर्ममिश्रभक्तिः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.