नारायणीयं दशक 79 – रुक्मिणीहरणं विवाहं च


बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥

भुवनकांतमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥

तदनु वंदितुमिंदुमुखी शिवां विहितमंगलभूषणभासुरा ।
निरगमत् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥3॥

कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् ।
मुहुरयाचत तत्पदपंकजे निपतिता पतितां तव केवलम् ॥4॥

समवलोककुतूहलसंकुले नृपकुले निभृतं त्वयि च स्थिते ।
नृपसुता निरगाद्गिरिजालयात् सुरुचिरं रुचिरंजितदिङ्मुखा ॥5॥

भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदंबया ।
त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयांचकृषे मनाक् ॥6॥

क्वनु गमिष्यसि चंद्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् ।
समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥7॥

क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः ।
न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥8॥

तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कांतया ॥9॥

नवसमागमलज्जितमानसां प्रणयकौतुकजृंभितमन्मथाम् ।
अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥10॥

विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा ।
ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥11॥

तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं सुखयन्निमाम् ।
अयि मुकुंद भवच्चरितानि नः प्रगदतां गदतांतिमपाकुरु ॥12॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 79 - रुक्मिणीहरणं विवाहं च?

नारायणीयं दशक 79 - रुक्मिणीहरणं विवाहं च is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 79 - रुक्मिणीहरणं विवाहं च online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 79 - रुक्मिणीहरणं विवाहं च as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook