नारायणीयं दशक 70 – सुदर्शनशापमोक्षं तथा शंखचूड-अरिष्टवधम्


इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
कदापि पुरमंबिकामितुरंबिकाकानने ।
समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥

समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला-
दमुंचति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान् समुपगम्य पस्पर्श तं
बभौ स च निजां तनुं समुपसाद्य वैद्यधरीम् ॥2॥

सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं
मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥3॥

कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै-
र्जहार धनदानुगः स किल शंखचूडोऽबलाः ।
अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं
रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥4॥

दिनेषु च सुहृज्जनैस्सह वनेषु लीलापरं
मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवंतममरीदृशाममृतपारणादायिनं
विचिंत्य किमु नालपन् विरहतापिता गोपिकाः ॥5॥

भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः ।
निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥6॥

शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
पंक्तिमाशु परिघूर्ण्य पशूनां छंदसां निधिमवाप भवंतम् ॥7॥

तुंगशृंगमुखमाश्वभियंतं संगृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥8॥

चित्रमद्य भगवन् वृषघातात् सुस्थिराऽजनि वृषस्थितिरुर्व्याम् ।
वर्धते च वृषचेतसि भूयान् मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥9॥

औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥10॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 70 - सुदर्शनशापमोक्षं तथा शंखचूड-अरिष्टवधम्?

नारायणीयं दशक 70 - सुदर्शनशापमोक्षं तथा शंखचूड-अरिष्टवधम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 70 - सुदर्शनशापमोक्षं तथा शंखचूड-अरिष्टवधम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 70 - सुदर्शनशापमोक्षं तथा शंखचूड-अरिष्टवधम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook